अगृह्णन्त युक्तियुक्तत्वेनामन्यन्त ॥ ५।६१।१ ॥
पुप्लुवुः प्लवन्तो जग्मुः ॥ ५।६१।२ ॥
आकाशं छादयन्त इवेत्युत्प्रेक्षा ॥ ५।६१।३ ॥
सभाज्यमानं पूज्यमानम् । वहन्त इव दृष्टिभिरिति प्रीतिपूर्वकानिमिषदर्शनात् दृष्टीनां वाहकत्वोत्प्रेक्षा ॥ ५।६१।४ ॥
अर्थनिर्वृत्तिं कार्यसिद्धिम् । समाधाय निश्चित्य पुप्लुवुरिति पूर्वेण सम्बन्धः ॥ ५।६१।५ ॥
रामप्रतीकारे रामस्य प्रत्युपकारे ॥ ५।६१।६ ॥
वनं सुग्रीवस्य मधुवनम् ॥ ५।६१।७९ ॥
परमोत्कटाः परमोत्सुकाः ॥ ५।६१।१० ॥
मधुपिङ्गलाः मधुवत्पिङ्गलवर्णाः ॥ ५।६१।११ ॥
अनुमान्य अनुमतिं कारयित्वा । निसर्गम् अनुज्ञामित्यर्थः ॥ ५।६१।१२ ॥
अनुमताः मधुपानादौ कृतानुमतिकाः । हर्षमुदोर्बाह्याभ्यन्तरकृतो भेदः ॥ ५।६१।१३ ॥
तत्र बाह्यमानन्दसूचकमाह गायन्तीति ॥ ५।६१।१४१७ ॥
मधुप्रपानोत्कटसत्त्वचेष्टं मधुप्रपाने उत्कटसत्त्वचेष्टम्, मत्तचित्तचेष्टमित्यर्थः ॥ ५।६१।१८२१ ॥
स तैरिति । तेन दधिमुखेन । बलाच्च प्रतिवार्यमाणैस्त्यक्तभयैः समेत्य सम्परिवार्य मदाद्वाक्यैः प्रधर्षणदोषमनवेक्ष्य प्रकृष्यत इति सम्बन्धः ॥ ५।६१।२२ ॥
निर्विषयं चक्रुः निर्गतमधुफलादिभोज्यं चक्रुरित्यर्थः ॥ ५।६१।२३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकषष्टितमः सर्गः ॥ ५।६१ ॥