॥ १,२ ॥
दृष्टा देवी न चानीतेति भवद्बिर्निवेदितुं न युक्तमिव पश्यामीति सम्बन्धः ॥ ५।६०।३,४ ॥
तेष्विति । हनुमता तेषु राक्षसेषु हतशेषेषु सत्सु । अत्र राक्षसेषु अन्यत् किं कर्तव्यम् ? न किमपि किन्तु जानकीं गृहीत्वा यामेति सम्बन्धः ॥ ५।६०।५,६ ॥
जाम्बवानङ्गदस्य मतं बहुमान्य सुहृद्भावेन निवर्तयति न तावदिति । हे राजपुत्र यथा भवान् पश्यति एषा मतिः नः अस्माकम् अक्षमा न अयुक्ता न किन्तु युक्तैव तथापि यथा रामस्य मतिर्निविष्टा अवस्थिता तथा भवान् कार्यसिद्धिं पश्यत्विति सम्बन्धः ॥ ५।६०।७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ५।६० ॥