॥ १ ॥
सफल इति । सम्भ्रमः त्वरा, उत्साह इत्यर्थः । कुतः साफल्यमित्याशङ्क्य सीतापातिव्रत्यादित्याह शीलमिति । शीलं सद्वृत्तम् । पातिव्रत्यमिति यावत् । आसाद्य दृष्ट्वेत्यर्थः । मम मनः प्रवणं प्रह्वम्, अभूदिति शेषः । सीतापातिव्रत्यस्य न किञ्चिदसाध्यमस्तीति मम निश्चयो ऽभूदिति भावः ॥ ५।५९।२ ॥
तर्हि दुरात्मानं रावणं किमिति नादहदित्याशङ्क्य तस्यापि तपस्सम्पत्तिमत्त्वादित्याह तपसेति सार्धश्लोकेन । सर्वथा ऽसौ तपसा ऽतिप्रवृद्धः । कोपप्रसादाभ्यां सर्वलोकनिग्रहानुग्रहसमर्थो ऽसौ रावणो महातपस्सम्पन्न इत्यर्थः । अत एव तां सीतां स्पृशतो ऽपि तस्य गात्रं तपसा न विनाशितमिति सम्बन्धः ॥ ५।५९।३ ॥
तर्हि सीताशीलं दुर्बलमस्माकं किमुपकरिष्यतीत्याशङ्क्य दुर्बलं न भवतीत्याह न तदिति । जनकस्यात्मजा क्रोधकलुषीकृता सती यत्कुर्यात् पाणिना स्पृष्टा अग्निशिखा तन्न कुर्यादिति सम्बन्धः । क्रोधकलुषीकृतेति विशेषणात् भर्तृमुखेन वैरनिर्यातन वीरपत्नीधर्मः । अन्यथा महल्लाघवं भर्तुरित्यद्यापि भर्तृवीर्यपरिपालनाय तादृक्क्रोधाकरणात् रावणो जीवति अत एव प्राक् ऽअसन्देशात्तु रामस्यऽ इत्युक्तमिति भावः ॥ ५।५९।४ ॥
भृत्यजयो ऽपि स्वामिन एवेति कृत्वा सीतापातिव्रत्यमहिम्ना रावणं वयमेव जित्वा देव्या सह राघवौ द्रक्ष्याम इत्याह जाम्बवत्प्रमुखानिति । अस्मिन् कार्ये एवंगते भवतां निवेदिते सति जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य वैदेह्या सह तौ पार्थिवात्मजौ द्रष्टुं न्याय्यं स्मेति सम्बन्धः । जाम्बवदादयो यद्यनुजानीयुः तदा राक्षसान् हत्वा देव्या सहैव रामसमीपं गमिष्याम इति भावः ॥ ५।५९।५,६ ॥
न चाशक्तिशङ्का कार्येत्याह अहमेको ऽपीत्यादि ॥ ५।५९।७ ॥
कृतास्त्रैः देवांशत्वादस्त्रप्रयोगसमर्थैः ॥ ५।५९।८१० ॥
अभ्यनुज्ञातः अभ्यनुज्ञानादित्यर्थः । मे विक्रमः तम् इन्द्रजितं रुणद्धि वारयति, आक्रमतीत्यर्थः । भवतामनुज्ञया इन्द्रजितमपि वधिष्यामीति भावः ॥ ५।५९।११,१२ ॥
इदानीं सर्वे ऽपि भवन्तस्तद्वधे समर्था इत्याह सागरो ऽपीति ॥ ५।५९।१३ ॥
ये च पूर्वकाः, तेषामपीति शेषः ॥ ५।५९।१४२१ ॥
मयेति । नाम विश्रावितम्, सुग्रीवादेरिति शेषः ॥ ५।५९।२२ ॥
तदेवाह जयतीति ॥ ५।५९।२३,२४ ॥
सीतादुर्दशाविमर्शे ऽपि संप्रति सा समानेतव्येत्याशयेन ताद्दशां वर्णयति अशोकवनिकेत्यादि ॥ ५।५९।२५ ॥
अचिन्तयन्ती अगणयन्ती ॥ ५।५९।२६ ॥
अवष्टब्धा निरुद्धा ॥ ५।५९।२७ ॥
पौलोमीव पुरन्दरे इति, नहुषबद्धापीति भावः ॥ ५।५९।२८३१ ॥
रावणाद्विनिवृत्तार्था विनिवृत्तः अर्थः प्रयोजनं यस्यास्सा, रावणप्रलोभनवाक्यैरवशीकृतेत्यर्थः ॥ ५।५९।३२ ॥
दर्शिता उक्तेत्यर्थः ॥ ५।५९।३३ ॥
नियतः समुदाचारः दृढपातिव्रत्यं भर्तरि उत्तमा भक्तिश्च दशग्रीवं न हन्तीति यत् अतः स दशाननो महात्मा शापनिबन्धनदुर्मरणाभावादिति भावः । देव्या तस्य वधाकरणे हेतुमाह निमित्तमात्रमिति । तुशब्दो ऽवधारणे, निमित्तमात्रं सीतेति भावः । तस्य वधे राम एव भविष्यति ॥ ५।५९।३४३६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५।५९ ॥