०५८ हनुमज्जाम्बवत्संवादः

हनुमत्प्रमुखाः, परस्परं मिलिता इति शेषः ॥ ५।५८।१ ॥

कार्यविषयं वृत्तान्तम् ॥ ५।५८।२ ॥

दशाननः कथंवृत्तः कीदृग्व्यापारः ॥ ५।५८।३,४ ॥

यश्चेति । तत्र रामसन्निधौ । रक्षितव्यं गोपनीयम्, अवक्तव्यमिति यावत् । आत्मवान् भवान् ॥ ५।५८।५७ ॥

पश्यामि अपश्यम् ॥ ५।५८।८ ॥

मेने इति लिडुत्तमपुरुषैकवचनम् ॥ ५।५८।९११ ॥

व्यवसायं स्वभेदनरूपम् ॥ ५।५८।१२,१३ ॥

छन्दतः स्वेच्छयेत्यर्थः ॥ ५।५८।१४ ॥

चरितं प्रजाबाधनरूपम् ॥ ५।५८।१५ ॥

मोचनप्रकारमाह मारुतेनेति ॥ ५।५८।१६ ॥

साह्ये साहाय्ये । तत्र हेतुः धर्मभृता श्रेष्ठ इत्यादि ॥ ५।५८।१७ ॥

उद्यतम् अग्रे चलितम् ॥ ५।५८।१८ ॥

वपुष्मता पौष्कल्यवता । मानुषेण शरीरेणान्तर्हितः । शैलेन शिलारूपेण शरीरेण तु महोदधौ सागरोपरि, स्थित इति शेषः ॥ ५।५८।१९२१ ॥

ममेति । प्रदिष्टः दत्तः । विहितः लब्धः ॥ ५।५८।२२२५ ॥

विषये सती विषयवासिनी ॥ ५।५८।२६,२७ ॥

नातिवर्तेत नातिक्रमेत । मां प्राप्तो मदाहारतां प्राप्तो न गच्छेदित्यर्थः ॥ ५।५८।२८ ॥

ततो ऽर्द्धगुणविस्तारः ततो दशयोजनादर्धस्य पञ्चयोजनस्य गुण आवृत्तिः तद्विस्तारो दशयोजनविस्तारः । प्रथमसर्गे दशयोजनविस्तारोक्त्यानुगुण्येनैवं व्याख्यातम् ॥ ५।५८।२९ ॥

ह्रस्वम्, स्वशरीरमिति शेषः ॥ ५।५८।३०,३१ ॥

समानय सङ्गमय ॥ ५।५८।३२ ॥

साधु साध्वीत्यत्र दीर्घ आर्षः ॥ ५।५८।३३,३४ ॥

न पश्यामि नापश्यम् । येन गतिर्विहता तत्किंञ्चिन्न पश्यामि नापश्यमित्यन्वयः ॥ ५।५८।३५३७ ॥

अवस्थितं निश्चेष्टम् । तथाप्यसम्भ्रान्तं भयहीनम् मां लक्षाकृत्येदं वाक्यमहमुक्त इत्यन्वयः ॥ ५।५८।३८ ॥

ममेप्सितः भक्षस्त्वं मतो मे देहं प्रीणयेत्यन्वयः ॥ ५।५८।३९ ॥

तस्या आस्यप्रमाणादधिकं कायम् आत्मनः कायम् अपूरयम् । वर्द्धते अवर्द्धत ॥ ५।५८।४० ॥

सा मां न बुबुधे अयं कामरूपीति मां न ज्ञातवतीत्यर्थः । मम कृतं विकृतं सा मया कृतं विकारस्वरूपं वा न बुबुधे ॥ ५।५८।४१ ॥

तद्विकृतं किमित्यत आह ततो ऽहमिति । हृदयमादाय हृदयं निकृत्य । प्रपतामि प्रापतम् ॥ ५।५८।४२ ॥

विसृष्टभुजा विस्रंसितभुजा ॥ ५।५८।४३ ॥

श्रृणोमीति सिंहिका हनुमता हतेति द्युगतानां देवानां वाचः श्रृणोमीति सम्बन्धः ॥ ५।५८।४४ ॥

कृत्यम् आत्ययिकं प्राणान्तिकं कर्म चिन्तयन्नित्यर्थः ॥ ५।५८।४५४७ ॥

मां जिघांसन्तीं ज्वलदग्नितुल्यकेशपाशाम् ॥ ५।५८।४८ ॥

प्रविशं प्राविशम् ॥ ५।५८।४९,५० ॥

सर्वरात्रं सर्वां रात्रिम् । तत्राहं मध्यरात्रे तु इति पाठः साधुः ॥ ५।५८।५१ ॥

उपलक्षये उपालक्षयम् ॥ ५।५८।५२ ॥

विकृष्टेन विप्रकृष्टेन, अतिदीर्घेणेति यावत् ॥ ५।५८।५३ ॥

बहुपादपं गृहोपवनं गृहारामं दृष्टमिति सम्बन्धः ॥ ५।५८।५४५६ ॥

तदेकवासः संवीतां तेन तत्कालदृष्टेन पूर्वधृतेनैव वाससा संवीताम् ॥ ५।५८।५७ ॥

राक्षसीभिरिति । व्याघ्रीपरिवृतां हरिणीमिव तामपश्यमिति सम्बन्धः । राक्षसीमध्ये ताभिरेव तर्ज्यमाना सदुःखा मया कथञ्चिदासादितेत्यन्वयः ॥ ५।५८।५८ ॥

सामया आमयसहिता, दुःखसहितेत्यर्थः, अतस्तूर्णमासादिता मयेत्यनेन न पुनरुक्तिः । मर्तव्यकृतनिश्चया मरणकृतनिश्चयेत्यर्थः ॥ ५।५८।५९६१ ॥

श्रृणोमि श्रुतवान् । रावणस्य निवेशने तत्समीपे । यद्वा निवेशने सीतासमीपप्रवेशनकाले ॥ ५।५८।६२ ॥

गहने स्थितः अत्र गहनशब्देन पर्णसंहतिगूढप्रदेश उच्यते ॥ ५।५८।६३ ॥

परिरभ्य, वितत्रासेति शेषः ॥ ५।५८।६४७० ॥

तदसन्निधौ अपहृत्य तेनादृष्ट इति लङ्कामागतः अन्यथा तदैव ते हननं स्यादित्यर्थः ॥ ५।५८।७१ ॥

सादृश्यसम्भावनापि दूरापास्तेत्याह दास्येपीति ॥ ५।५८।७२७४ ॥

पूर्वं धान्यमालिन्या प्रतिषिद्धमित्युक्तम्, इदानीं मण्डोदरीत्यभिधानादुभाभ्यामपीति कल्पनीयम् ॥ ५।५८।७५८६ ॥

अलमस्मात्परित्रातुमिति । इयं सीतेति शेषः ॥ ५।५८।८७८९ ॥

ततः त्रिजटावाक्यानन्तरम् । भर्तुर्विजयहर्षिता त्रिजटाकथितस्वप्नसूचितरामविजयहर्षिता । तत् त्रिजटास्वप्नवाक्यम् तथ्यं यदि वः शरणं भवेयमित्यवोचदिति सम्बन्धः ॥ ५।५८।९० ॥

चिन्तयामासेति लिडुत्तमपुरुषैकवचनम् ॥ ५।५८।९१ ॥

मम मया पुरस्कृतः स्तुतः ॥ ५।५८।९२९७ ॥

त्वया आज्ञप्तमिच्छामि त्वत्कर्तृकमाज्ञापनमिच्छामीत्यर्थः ॥ ५।५८।९८१०१ ॥

इत्युक्तेवेति । वाचा मां सन्दिदेश स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं तिलकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ॥ ५।५८।१०२ ॥

इहाभ्युद्गतमानसः इहागन्तुं निश्चितमानसः ॥ ५।५८।१०३ ॥

मम वृत्तान्तं त्वया ऽनुभूतं मद्विषयं रावणराक्षसीवृत्तान्तम् ॥ ५।५८।१०४,१०५ ॥

यदि यस्मात् अन्यथा अनागमने द्वौ मासौ मम जीवितं भवेत् । अनाथवत् म्रिये राक्षसीकृतवधे नेति भावः ॥ ५।५८।१०६ ॥

उत्तरं कार्यशेषं लङ्कानाशनरूपम् ॥ ५।५८।१०७१०९ ॥

समागम्य मिलित्वा ॥ ५।५८।११०११३ ॥

शूलमुद्गरपाणिनामित्यत्र दीर्घाभाव आर्षः ॥ ५।५८।११४१२४ ॥

द्वितीयं प्रेषितपुत्रापेक्षया द्वितीयम् ॥ ५।५८।१२५१२८ ॥

अभिबध्नन्ति अभ्यबध्नन् ॥ ५।५८।१२९१३१ ॥

अस्याहं दर्शनाकाङ्क्षीत्यत्र सन्धिरार्षः । त्वद्भवनं प्राप्तो ऽहं हनुमानहमित्यस्मच्छब्दद्वयस्य निर्वाहः ॥ ५।५८।१३२,१३३ ॥

धर्मकामार्थसहितं धर्मसहितत्वात् हितम् परलोकोपयोगि । अर्थकामयुक्तत्वात्पथ्यम् ॥ ५।५८।१३४१३७ ॥

सुग्रीवेण, मयेति शेषः ॥ ५।५८।१३८ ॥

वानराणां महाराजः कृतः, अहमिति शेषः ॥ ५।५८।१३९ ॥

तस्य रामस्य तेन साहाय्यस्य कर्तव्यत्वेन प्रस्थापितः, दूत इति शेषः । तुभ्यं तव । धर्मतः कलहं विनेत्यर्थः । सीता दीयताम् ॥ ५।५८।१४० ॥

विपक्षे बाधकमाह यावदिति । विधमन्ति विधमिष्यन्ति ॥ ५।५८।१४१ ॥

लङ्कानाशने वानराणां सामर्थ्यमस्तीत्याशयेनाह वानराणामिति । ये निमन्त्रिताः युद्धसाहाय्यार्थमाहूताः देवतानां सकाशं गच्छन्ति तेषां वानराणां प्रभावः पुरा त्वया न विदितः न विज्ञातो हीति योजना ॥ ५।५८।१४२,१४३ ॥

मत्प्रभावं वरदानलब्धावध्यत्वरूपम् ॥ ५।५८।१४४ ॥

तत इत्यादि श्लोकत्रयमेकं वाक्यम् । शास्त्रेण दूतवध्या न दृष्टा, विरूपकरणं ताडनं वा शास्त्रतः दृष्टमिति राक्षसराजः रावणः तेन विभीषणेन याचित इति सम्बन्धः ॥ ५।५८।१४५१५० ॥

यन्त्रितस्य निरुद्धस्य ॥ ५।५८।१५११५८ ॥

विस्मयोदन्तभाषितां विस्प्रयवृत्तान्तविषयव्यवहाराम् । विस्मयोदन्तभाषिणाम् इति वा पाठः ॥ ५।५८।१५९ ॥

निमित्तैः शुभसूचकैः ॥ ५।५८।१६० ॥

निमित्तान्याह दीप्यमान इत्यादि ॥ ५।५८।१६१ ॥

दृष्टार्थैः दृष्टसंवादैः । महागुणैः कारणैः मत्प्रवृत्तिकारणैः सीतारामरूपैः ॥ ५।५८।१६२,१६३ ॥

आरेभे लिडुत्तमपुरुषैकवचनम् ॥ ५।५८।१६४ ॥

तत इत्यनन्तरम् अहं पन्थानमाक्रम्य भवतो दृष्टवानिह इति पाठः । अन्यथा ऽहंशब्दपौनरुक्त्यात् ॥ ५।५८।१६५१६७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ ५।५८ ॥