[लङ्घनीयं गगनमर्णवत्वेन निरूपयति आप्लुत्येत्यादिना ।] चन्द्र एव कुमुदम् । कारण्डवः जलपक्षिविशेषः । कादम्बः कलहंसः ॥ ५।५७।१ ॥
लोहिताङ्गः अङ्गारकः । ऐरावतः इन्द्रगजः ॥ ५।५७।२ ॥
चन्द्रांशुशिशिराम्बुमत् चन्द्रांशव एव शिशिराम्बु तदस्यास्तीति तद्वत् । भुजङ्गयक्षगन्धर्वा एव प्रबुद्धकमलोत्पलानि यस्मिन् तत् । अत्र गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च निरूपणात् सावयवरूपकम् ॥ ५।५७।३,४ ॥
ताराधिपमुल्लिखन्निव, नखैरिति शेषः । हरन्निव गृह्णन्निव ॥ ५।५७।५,६ ॥
महाभ्राणीत्यस्य कपिना कृष्यमाणानीति शेषः ॥ ५।५७।७,८ ॥
विविधेति । विविधाभ्रघनापन्नगोचरः विविधेष्वभ्रघनेषु मेघसङ्घातेष्वापन्नः प्राप्तः गोचरो मार्गो येन सः । दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्क्रमाभ्यामिति भावः ॥ ५।५७।९१३ ॥
सुनाभं मैनाकम् ॥ ५।५७।१४१७ ॥
फलतीव दलतीव । ये पूर्वं संविष्ठिताः ते तोयदनिस्वनमिव ऊरुवेगं तज्जन्यं घोषं शुश्रुवुरित्यन्वयः ॥ ५।५७।१८२० ॥
वानरेन्द्रस्य निर्घोषं तदीयसिंहनादम् ॥ ५।५७।२१ ॥
सुहृद्दर्शनकांक्षिणः तेन शब्देन हनुमानेवैतीति निश्चित्य तद्दर्शनलालसाः ॥ ५।५७।२२२४ ॥
बाहूरुवेगं तज्जन्यशब्दं निनादं च कण्ठशब्दं च ॥ ५।५७।२५ ॥
नगाग्रात् स्वाश्रयादूर्ध्वदेशस्थानि नगाग्राणीत्यर्थः ॥ ५।५७।२६ ॥
पादपाग्रेषु निष्ठिताः प्रशाखाः प्राग्रशाखाः वासांसीव समाविध्यन्त व्याधुन्वन् ॥ ५।५७।२७,२८ ॥
अभ्रघनसङ्काशं मेघसमूहसदृशम् ॥ ५।५७।२९ ॥
ततो गिरेः अरिष्टाख्याद्रेः प्लुतः कपिः तस्य महेन्द्रस्य गिरेः शिखरे निपपात, अनेनाविश्रममागमनं ध्वनितम् ॥ ५।५७।३० ॥
छिन्नपक्षो धरणीधर इवाकाशात्पपात । हर्षेणापूर्यमाणः पूर्यमाणहृदयः । पर्वतनिर्झरे निर्झरप्रवर्तके शिखरे इत्यर्थ इत्येके । श्रमनिवृत्तये जल एव पतित इत्यन्ये ॥ ५।५७।३१३४ ॥
ताभ्यां जाम्बवदङ्गदाभ्याम् । प्रसादितः प्सन्नदृष्ट्या कारितात्मनिरीक्षणः ॥ ५।५७।३५४१ ॥
अञ्चितायतदीर्घाणि दीर्घशब्दसन्निधानादायतशब्देन स्थौल्यमुच्यते ॥ ५।५७।४२४५ ॥
अहो इति । तव स्वामिभक्त्यादिकमाश्चर्यमित्यर्थः ॥ ५।५७।४६४९ ॥
विबुधैर्देवैरुपास्यमान इत्यर्थः ॥ ५।५७।५० ॥
हनूमतेति । यशस्विनेति अङ्गदविशेषणम् । अतो न पुनरुक्तिः ॥ ५।५७।५१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५।५७ ॥