०५६ हनुमता पुनरशोकवनगमनम्

॥ १,२ ॥

काममिति । अस्य कार्यस्य सर्वराक्षससंहारपूर्वकमत्प्रापणरूपकार्यस्य परिसाधने त्वमेकं एव कामं पर्याप्तः, तथापि बलोदयः ते तवैव । यशस्यः यशस्करः, न तु रामस्येति शेषः ॥ ५।५६।३ ॥

तर्हि रामस्य किं यशस्करमित्यत्राह शरैरिति ॥ ५।५६।४ ॥

तदिति । विक्रान्तं विक्रमणम् ॥ ५।५६।५८ ॥

अरिष्टम् अरिष्टाख्यं पर्वतम् ॥ ५।५६।९ ॥

पद्मकः वृक्षविशेषः । सोत्तरीयमिव सपरिधानमिव ॥ ५।५६।१० ॥

उद्धूतैः उद्गतैः ॥ ५।५६।११ ॥

प्राधीतमिव अध्येतुमुपक्रान्तमिव । कर्तरि क्तः । प्रगीतं गातुमुपक्रान्तम्, गायन्तमिवेत्यर्थः । प्रस्रवणस्वनैः पर्वतमूलाद्बहिः प्रवहन्ति जलानि प्रस्रवणानि तेषां स्वनैः ॥ ५।५६।१२ ॥

प्रपातजलनिर्घोषैः प्रपाताः भृगवः तेषां जलानि भृगुदेशेभ्यः पतन्तो निर्झरा इत्यर्थः । तेषां निर्घोषैः उत्क्रुष्टं क्रोशन्तमिवेत्यर्थः । कर्तरि क्तः ॥ ५।५६।१३ ॥

शरदिवनैः शरद्वनैः सप्तपर्णादिशारदवृक्षसङ्घैरित्यर्थः ॥ ५।५६।१४ ॥

नीहारकृतानि कृतनीहाराणि, नीहाररुद्धानीत्यर्थः । तैर्गम्भीरैश्च गह्वरैर्ध्यायन्तमिव निरुद्धेन्द्रियद्वारा ध्यानारूढमिव स्थितमित्यर्थः ॥ ५।५६।१५ ॥

मेघपादनिभैः पादैः मेघपादैः तेषां निभैः पादैः प्रत्यन्तपर्वतैः । प्रक्रान्तमिव गच्छन्तमिव । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः अभ्रङ्कषैः ॥ ५।५६।१६,१७ ॥

धातुनिष्यन्दभूषितं धातुनिष्यन्दाः धातुनिर्गमाः । शिलासञ्चयसङ्कटं शिलाबाहुल्यनीरन्ध्रम् ॥ ५।५६।१८२० ॥

रामदर्शनशीघ्रेण उत्कटेन । दक्षिणादुत्तरं पारं, जिगमिषुरिति शेषः ॥ ५।५६।२१२८ ॥

त्रस्तव्याविद्धवसना इति पाठः । त्रस्तेन त्रासेन व्याविद्धानि व्यत्यस्तानि वसनानि यासां ताः ॥ ५।५६।२९ ॥

व्यवेष्टन्त कुण्डलीकृतशरीरा अजायन्त । व्यचेष्टन्तेति पाठे पीडया अलुठन्नित्यर्थः ॥ ५।५६।३०,३१ ॥

सवृक्षशिखरोदग्रः सवृक्षैः शिखरैः उदग्रः उन्नतः ॥ ५।५६।३२,३३ ॥

कल्लोलास्फालवेलान्तम् आस्फाल्यत इत्यास्फालः कल्लोलानामास्फोलो वेलान्तो यस्य तम् ॥ ५।५६।३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षट्पञ्चाशः सर्गः ॥ ५।५६ ॥