॥ १,२ ॥
ऽकुत्सा चात्मन्यजायतऽ इत्युक्तां कुत्सामाह लङ्कामिति । किंस्वित् कर्म कृतं कुत्सितमेव कृतमित्यर्थः ॥ ५।५५।३ ॥
उक्तकुत्सितकार्यमूलं कोप इति निश्चित्य तद्रहितान् स्तौति धन्या इति । दुःखातिशयादेव महात्मपदपौनरुक्त्यं न दोषाय ॥ ५।५५।४ ॥
क्रुद्धः पापं न कुर्याद्यः इति पाठे क्रुद्धो यः कश्चिन्पापं कुर्यान्न, नञ् काकुः । अपितु कुर्यादेव, अकरणमशक्यमेवेत्यर्थः । तदेव दर्शयति क्रुद्धो हन्यादिति ॥ ५।५५।५ ॥
न विजानातीत्येतदेव स्पष्टयति नाकार्यमिति । क्रुद्धस्याकार्यमयुक्तबुद्ध्या करणीयं न किञ्चिदप्यस्ति, अतो गुरुहननाद्यपि करोत्येवेत्यर्थः ॥ ५।५५।६८ ॥
यदीति । यदि जानकी दग्धा भर्तुः कार्यं हतमिति सम्बन्धः ॥ ५।५५।९ ॥
एतदेव विवृणोति यदर्थमिति ॥ ५।५५।१० ॥
ईषदिति । अन्वेषणपूर्वकरावणनिलयपरिज्ञानसीतादर्शनतन्निवेदनरूपं महत् कार्यम् ईषत्कार्यं कृतमासीत्, रामनिवेदनमात्रावशिष्टं यथा भवति तथा कृतमासीदित्यर्थः । अतः इदानीं क्रोधाभिभूतेन मया तस्य कार्यस्य मूलक्षयः कृतः न संशय इति योजना ॥ ५।५५।११ ॥
ननु सीताविनाशनिश्चयस्ते कथम् ? तत्राह विनष्टेति ॥ ५।५५।१२,१३ ॥
दद्मि ददामि ॥ ५।५५।१४,१५ ॥
अनवस्थितम् अव्यवस्थितम् ॥ ५।५५।१६ ॥
राजसं भावं रजोगुणनिबन्धनचेष्टाविशेषम् । अनीशं नियामकरहितम्, स्वतन्त्रमिति यावत् । ईश्वरेणापि रक्षणसमर्थेनापि । रागात् मात्सर्यात्, आग्रहादिति यावत् ॥ ५।५५।१७ ॥
उभौ रामलक्ष्मणौ ॥ ५।५५।१८२१ ॥
इतीति । निमित्तानि शुभशंसीनि । उपपेदिरे प्रादुर्बभूवुः ॥ ५।५५।२२ ॥
नाग्निरग्रौ प्रवर्तते अग्निरग्निं न दहतीत्यर्थः ॥ ५।५५।२३,२४ ॥
नूनमिति । दहनकर्मा भस्मीकरणस्वभावः । अयं हव्यवाहनः । मां तत्किङ्करं मां यत् यतो नादहत् अतस्तां स्प्रष्टुं नार्हतीति पूर्वेण सम्बन्धः ॥ ५।५५।२५ ॥
त्रयाणां भरत लक्ष्मणशत्रुघ्नानां देवतात्वात्तस्यामग्न्यप्रवृत्ति रामभयाच्चेति भावः ॥ ५।५५।२६ ॥
सर्वत्र प्रभुरपि यत्सेवकत्वान्मे लांगूलं न दहति ततस्तां कथं प्रधक्ष्यति ? ॥ ५।५५।२७ ॥
देवीप्रभावात्सिन्धौ मद्विश्रान्तिनिमित्तगिरिदर्शनहेतुनापि देवीमग्निर्न दहतीत्याह पुनश्चेति । तत्र तस्मिन् समये । विस्मितो हनुमान् जलमध्ये सागरान्तर्देशे । हिरण्यनाभस्य गिरेः प्रदर्शनं पुनरचिन्तयत् । एतेन पर्वतादीनामपि सर्वेषां रामाज्ञावशवर्तित्वं सूचितम् । तेन सीताया नाग्नेर्भीतिरिति सूचितम् ॥ ५।५५।२८,२९ ॥
देव्या धर्मपरिग्रहम्, धर्मप्रभावमित्यर्थः । चिन्तयन् हनुमान् चारणानां वाक्यं शुश्रावेति सम्बन्धः ॥ ५।५५।३०३२ ॥
विस्मयः आश्चर्यम् । अद्भुतः अभूतपूर्व इत्यर्थः ॥ ५।५५।३३ ॥
निमित्तैः दक्षिणाक्षिस्पन्दनादिभिः । कारणैः सीतापातिव्रत्यरामप्रभावादिभिः । ऋषिवाक्यैः चारणवाक्यैरित्यर्थः । दृष्टार्थैः दृष्टफलसंवादैः ॥ ५।५५।३४ ॥
विदित्वा पूर्वं चारणैर्विदित्वा पुनः प्रत्यक्षतो दृष्ट्वा ततः प्रतिप्रयाणाय मतिं चकारेति सम्बन्धः ॥ ५।५५।३५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ५।५५ ॥