०५४ हनूमता लङ्कादहनम्

॥ १ ॥

यदेषां भूयस्सन्तापजननं भवेत् तादृशमेव साम्प्रतं कर्तव्यं किमिति कार्यशेषमचिन्तयादित्यर्थः ॥ ५।५४।२ ॥

तदेव निश्चिनोति शेषं दुर्गविनाशनमिति ॥ ५।५४।३ ॥

कर्म समुद्रलङ्घनादिकम् । सुखपरिश्रमं सफलप्रयासम् । न चाशक्यमेतदित्याह अल्पयत्नेनेति । अस्मिन् कार्ये दुर्गविनाशकार्ये, कृते सीति शेषः ॥ ५।५४।४ ॥

केनोपायेन दुर्गविनाशनं स्यात् ? अत आह यो हीति ॥ ५।५४।५ ॥

तोयदः सन्ध्यातोयदः, हनुमतो रक्तवर्णत्वात् ॥ ५।५४।६ ॥

उद्यानानि गृहारामाः ॥ ५।५४।७ ॥

प्रहस्तस्य प्रधानमन्त्रित्वादादौ तद्गृहे ऽग्निप्रक्षेपः, प्रथमं तत्सम्भावनस्यौचित्यात् ॥ ५।५४।८१५ ॥

वर्जयित्वेति । विभीषणगृहं प्रति वर्जयित्वेति सम्बन्धः । ददाहेति । क्रमेणैव ददाहेत्यर्थः । विभीषणेन स्वस्य वधतो रक्षणाद्विभीषणगृहं वर्जयित्वा प्रतिगृहं क्रममाणो ददाहेत्यन्वयः ॥ ५।५४।१६ ॥

ददाह स महाकपिरिति । पूर्वं रावणाद्भीतोप्यग्निः सीतातेजस्सम्बन्धेन निश्शङ्कं ददाहेत्युक्तम् ॥ ५।५४।१७२० ॥

श्वसनेनेति । पूर्वं रावणादतिभीतावग्न्यनिलौ इदानीं राक्षसबलक्षयं देवबलोदयञ्च प्रत्यासन्नं विदित्वा निश्शङ्कावभूतामिति भावः ॥ ५।५४।२१ ॥

अचारयदिति हेतौ, यतश्चारयति स्म ततश्चारणाद्धेतोस्तानि व्यशीर्यन्तेत्यन्वयः ॥ ५।५४।२२,२३ ॥

भग्नविमानानि भग्नप्रासादानि ॥ ५।५४।२४ ॥

भग्नोत्साहोर्जितश्रियां भग्नोत्साहाश्चोर्जितश्रियश्चेति विशेषणसमासः । स्तनन्धयः शिशुः ॥ ५।५४।२५,२६ ॥

अभ्रेभ्यो मेघेभ्यः ॥ ५।५४।२७,२८ ॥

नाग्निरिति । तृणानां काष्ठानां तृणैः काष्ठैरित्यर्थः ॥ ५।५४।२९३१ ॥

लङ्कापुरपर्वताग्रे लङ्कापुराधारत्रिकूटशिखरे । चूडावलयं ज्वालासमूहं प्रसार्य समुत्थितो ऽग्निः विसृष्टः, गृहेष्विति शेषः । भीमपराक्रमः भयङ्करवेगः ॥ ५।५४।३२ ॥

दिविस्पृक् अभ्रंलिह इत्यर्थः । रक्षश्शरीराज्यसमर्पितार्चिः रक्षश्शरीराण्येवाज्यानि तैः समर्पितार्चिः उत्थापितज्वालः ॥ ५।५४।३३ ॥

आदित्येति श्लोकद्वयमेकं वाक्यम् । अम्बरात् अम्बरपर्यन्तं प्रवृद्धः । किंशुकपुष्पचूडः तत्समज्वालः । अग्निः हनुमद्विसृष्टो ऽग्निः । अशनिप्ररूढैः अशनिवन्निष्टुरैरनेकैः शब्दैः समाप्तां निश्शेषां लङ्कां परिवार्य परिवेष्ट्य तिष्ठन् ब्रह्माण्डं भिन्दन् महाग्निः प्रलयो ऽग्निरिव प्रबभौ ॥ ५।५४।३४ ॥

तत्र तदा निर्वाणधूमाकुलराजयः पूर्वदग्धभवनात् निर्वाणसमयोत्थितधूमैर्व्याकुलपङ्क्तयः अभ्राः प्रचकाशिरे इति सम्बन्धः । अभ्रा इति पुँल्लिङ्गत्वमार्षम् ॥ ५।५४।३५ ॥

वज्रीति । वज्रित्वत्रिदशेश्वरत्वविशिष्टो महेन्द्र इत्यर्थः । रुद्रो ऽग्निः रुद्रतृतीयनयनसम्बन्ध्यग्निः ॥ ५।५४।३६,३७ ॥

अनन्तं त्रिविधपरिच्छेदरहितम् । अव्यक्तं चक्षुराद्यगोचरम् । अचिन्त्यं मनसो ऽविषयम् । एकमद्वितीयम् । वैष्णवं सुतेजः स्वमायया शक्त्या कपिरूपमेत्य रक्षोविनाशायागतं किं वेति योजना ॥ ५।५४।३८ ॥

विशिष्टा महाबलाः प्रहस्तादय इत्यर्थः । समीक्ष्य इत्येवमूचुरित्यन्वयः ॥ ५।५४।३९,४० ॥

सुपुण्यम् अतिशयेनार्जितं पुण्यम् ॥ ५।५४।४१ ॥

परिवृत्तयोधा परावृत्तभटा ॥ ५।५४।४२,४३ ॥

तस्थौ सङ्कल्पितकार्यस्य परिसमाप्तत्वादुपरतोद्योगो ऽभूदित्यर्थः ॥ ५।५४।४४५१ ॥

लङ्कामिति । निर्वापयामास लांगूलाग्निं शमयामास ॥ ५।५४।५२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुष्पञ्चाशः सर्गः ॥ ५।५४ ॥