तस्य विभीषणस्य ॥ ५।५३।१ ॥
दूतवध्या दूतवधः ॥ ५।५३।२ ॥
दग्धेन लाङ्गूलेनोपलक्षितो गच्छतु, स्वस्वामिसमीपमिति शेषः ॥ ५।५३।३ ॥
मित्राण्याप्ताः ये समसुखदुःखाः, ज्ञातयः भ्रात्रादयः, बान्धवाः सम्बन्धिनः, सुहृज्जनाः स्निग्धजनाः ॥ ५।५३।४ ॥
परिणीयतामित्याज्ञापयदिति योजना ॥ ५।५३।५,६ ॥
शुष्कमिति । आरण्यका यथा शुष्कमिन्धनमासाद्य हुताशनमुत्पादयन्ति तथा जीर्णपटवेष्टितं लाङ्गूलं तैलेन परिषिच्य तत्र ते ऽग्रिमुपपादयन् । हुताशन इति पाठे वृद्धौ दृष्टान्तो ऽयम् । उपपादयन्नित्यस्य समयोजयन्नित्यन्ये । तान् बद्ध्वा नेतृ़न् ॥ ५।५३।७९ ॥
सङ्गतैः मिलितैः राक्षसैः स भूयः निबद्ध इति सम्बन्धः । बन्धसंहारशक्तावपि स नोचित इत्यचिन्तयदित्याह कृतवानिति ॥ ५।५३।१० ॥
निबद्धस्यापि मे न शक्ताः मम निग्रहे न समर्था इत्यर्थः ॥ ५।५३।११ ॥
भर्तुः स्वामिनो रामस्य । भर्तृशासनात् रावणशासनात् । निष्कृतिः प्रतिक्रिया न कृता मया कृतस्य कार्यस्य बन्धनमात्रं प्रतिक्रिया न भवतीति भावः ॥ ५।५३।१२ ॥
सर्वेषां, हनन इति शेषः । अहं पर्याप्तः, रामस्य प्रीत्यर्थम् ईदृशमवमानं विषहिष्ये, सर्वराक्षससंहारस्य रामेण प्रतिज्ञातत्वादिति भावः ॥ ५।५३।१३ ॥
दुर्गकर्मविधानतः विधानाद्धेतोः रात्रौ लङ्का न हि सुदृष्ट, अतो मे मया लङ्का पुनश्चारयितव्या भवेत् शोधयितव्या भवेदिति योजना । यद्वा दुर्गकर्मविधानतः नगरगुप्तिविशेषज्ञानपूर्वकमित्यर्थः । अनेन उषःकालः सम्प्राप्त इत्यवगम्यते ॥ ५।५३।१४,१५ ॥
मनसः श्रममित्यत्र चिन्तासमाप्तिद्योतकमितिकरणं द्रष्टव्यम् ॥ ५।५३।१६,१७ ॥
शङ्केति । स्वकर्मभिः आस्फोटसिंहनादैः तां पुरीं घोषयन्तः तं चारयन्ति स्मेति सम्बन्धः ॥ ५।५३।१८ ॥
चारयामास चोदयामासेत्यर्थः ॥ ५।५३।१९ ॥
चत्वरान् गृहबहिरङ्गणानि ॥ ५।५३।२० ॥
गृहसम्बाधाः गृहैः सम्बाधाः निबिडाः रथ्याः । श्रृङ्गाटकानि चतुष्पथानि । उपरथ्याः क्षुद्रवीथीः । चत्वरेषु चतसृणां रथ्यानां सम्बन्धेषु । चतुष्केषु चतुस्तम्भमण्टपेषु । चार एव चारीकः ॥ ५।५३।२१२३ ॥
शंसुः शशंसुः ॥ ५।५३।२४ ॥
परिणीयते परितो नीयते ॥ ५।५३।२५ ॥
आत्मापहरणोपमं तादृग्दुःखजनकमित्यर्थः । हुताशनमुपागमत् उपासितवती ॥ ५।५३।२६ ॥
प्रयता शुद्धिमती ॥ ५।५३।२७ ॥
यदि एकपत्नीत्वम् एकः पतिर्यस्याः सा एकपत्नी तस्या भावस्तत्त्वम्, पातिव्रत्यमित्यर्थः ॥ ५।५३।२८ ॥
तस्य रामस्य ॥ ५।५३।२९३१ ॥
मृगशावाक्ष्याः सीतायाः, महिम्नेति शेषः । अनलः पुच्छानलः । प्रदक्षिणशिखः प्रदक्षिणाकारज्वालस्सन् कपेः शिवं शंसन्निव जज्वालेति सम्बन्धः ॥ ५।५३।३२ ॥
किञ्च हनुमज्जनकः अनिलः पुच्छानलयुतः हनुमत्पुच्छानलसंयुतो ऽपि देव्याः, प्रभावादिति शेषः । कपेरित्यनुकर्षः । प्रालेयानिलशीतलः हिममारुतवच्छीतलस्सन् स्वास्थ्यकरः सुखकरः ववाविति सम्बन्धः ॥ ५।५३।३३,३४ ॥
दृश्यत इति । मे रुजं न करोति प्रत्युत शिशिरस्य सम्पात इव हिमसङ्घात इव वर्तते । अत्र हेतुं न पश्यामीति शेषः ॥ ५।५३।३५ ॥
हेतुविशेषान् निश्चिनोति अथवेत्यादि । प्लवता मया सरितां पतौ रामप्रभावात् पर्वतः पर्वतरूपमाश्चर्यं यत् यस्मात्कारणात् दृष्टं तस्मात्कारणात् इदम् अग्नेः शैत्यमपि रामप्रभावात्सञ्जातम् व्यक्तं निश्चितमिति योजना ॥ ५।५३।३६ ॥
कुत इत्यत आह यदीति । सम्भ्रमः त्वरा यदि तदा अग्निः किं किमिति न करिष्यति, शैत्यमिति शेषः ॥ ५।५३।३७ ॥
सीताया इति । आनृशंस्येन कृपया ॥ ५।५३।३८ ॥
भूयः स चिन्तयामास । अनन्तरकर्तव्यमिति शेषः ॥ ५।५३।३९ ॥
विभक्तरक्षःसम्बाधं वियुक्तरक्षस्सञ्चारमित्यर्थः ॥ ५।५३।४० ॥
शैलसङ्काशो महान् भूत्वा ह्रस्वतां प्राप्त इत्यनेन देहसौक्ष्म्यात्स्वयमेव बन्धगलनमुक्तम् । एवं रीत्या बन्धनान्यवशातयत् ॥ ५।५३।४१ ॥
विमुक्त्यनन्तरं पुनः पर्वताकारो ऽभवत् ॥ ५।५३।४२,४३ ॥
प्रदीप्तलाङ्गूलकृतार्चिमाली पुच्छावृतज्वलन इत्यर्थः । अत्र रेफाभावः आर्षः ॥ ५।५३।४४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥ ५।५३ ॥