०५२ हनुमद्वधाय रावणादेशः

॥ १ ॥

वध इति । निवेदितमतौ इति पाठः । मन्यत इति मतिः कार्यम् । निवेदितस्वागमनकार्ये हनुमति । अनेनास्य यथादिष्टार्थवादित्वेनानपराधित्वादवध्यत्वमुक्तम् । अतो ऽस्मिन्विषये दूत्यं दूतसम्बन्धिनं रावणनिर्दिष्टं वधं नानुमेने ॥ ५।५२।२ ॥

तच्च कार्यं दूतवधरूपं कार्यम् । कार्यविधौ कर्तव्यविधाने स्थितः, कार्यकरणे कृतनिश्चय इत्यर्थः ॥ ५।५२।३ ॥

शत्रुजितं च तमग्रजं च ॥ ५।५२।४ ॥

रोषं त्यज, परावरज्ञाः त्याज्योपादेयविवेकयुक्ताः ॥ ५।५२।५ ॥

प्रमापणं मारणम् ॥ ५।५२।६,७ ॥

शास्त्रविपश्चित्त्वं शास्त्रपाण्डित्यसम्पादनम् । श्रमः केवलं श्रम एव, व्यर्थप्रयास एवेत्यर्थः ॥ ५।५२।८ ॥

दूतदण्डः दूते विहितो दण्डः ॥ ५।५२।९,१० ॥

पापचारिणं राजद्रोहिणम् ॥ ५।५२।११ ॥

अधर्मस्य मूलम् अधर्ममूलम् । दोषः अपकीर्तिरूपः ॥ ५।५२।१२ ॥

समयेषु स्वस्वामिनियोगानुष्ठानकालेषु ॥ ५।५२।१३,१४ ॥

लक्षणसन्निपातः दूतयोग्याङ्कनसम्बन्धः । न नः श्रुतोपि नो ऽस्माभिः न श्रुतः ॥ ५।५२।१५ ॥

परावरप्रत्ययनिश्चितार्थः उत्कृष्टापकृष्टज्ञानेन निश्चितकार्यः । अस्मिन् विषये इदं कार्यं परम् इदमवरमिति विवेकेन निश्चितप्रयोजन इत्यर्थः । भवद्विधः त्वादृशः । सत्त्ववन्तः बलवन्तः ॥ ५।५२।१६ ॥

न तु तवान्येनोपदेष्टव्यांशो ऽस्तीत्याह न धर्मवाद इति ॥ ५।५२।१७,१८ ॥

परुषवक्ता ऽयमवश्यं हन्तव्य इत्यत आह साधुरिति । समर्पितः प्रेषितः ॥ ५।५२।१९ ॥

अस्मिन् हते सति वृत्तान्तनिवेदकाभावाद्रामलक्ष्मणयोरिहागमनाभावेन तव शत्रुक्षयो न स्यात् । विमुक्ते त्वस्मिन्नेतन्निवेदितवृत्तान्तयोस्तयोरिहागमनादयत्नेन तव शत्रुनाशो भवेदित्याशयेनाह अपिचेत्यादि । इह पारम् इदं पारमित्यर्थः । नान्यं पश्यामि यो ऽत्रागच्छेदित्यर्थः ॥ ५।५२।२० ॥

तस्मात् पुनरागन्तुकाभावात् ॥ ५।५२।२१ ॥

नन्वस्मिन् हते अन्यस्यानागमने च का मम क्षतिः ? इष्टमेवेदम्, तत्राह अस्मिन् विनष्ट इति । तौ राजपुत्रौ द्वौ य उद्योजयेत् तं न पश्यामि । ननु तदुद्योगाभावो ऽपि ममेष्ट एव, नेत्याह युद्धप्रियेति सम्बोधनेन । युद्धप्रियस्य तव तयोरनागमनमेव क्षतिरिति भावः ॥ ५।५२।२२ ॥

महावीरस्य तव न कुत्रापि भयशङ्केत्याशयेनाह पराक्रमेत्यादिना ॥ ५।५२।२३ ॥

हिताश्चेति । समाहिताः दानमानाभ्यां वशीकृता इत्यर्थः । सुभृताः सद्भृत्याः योधाश्च वर्तन्ते खल्विति शेषः ॥ ५।५२।२४ ॥

तत् तस्मात्कारणात् बलस्य सैन्यस्य एकदेशेन एकांशेन सह आदेशकृतः आज्ञाकारिणः केचित्कतिचित् भावयितुं प्रकाशयितुम् ॥ ५।५२।२५,२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्विपञ्चाशः सर्गः ॥ ५।५२ ॥