अथ सुग्रीवसन्देशकथनव्याजेन सामदण्डान्यतरविषयत्वनिश्चयाय न्यायानुसारी न वेति जिज्ञासति तमित्यादि ॥ ५।५१।१ ॥
अहमिति । वालिरावणयोस्सखित्वसम्बन्धत्वाद्भ्रातृत्वम् । कुशलमब्रवीत् अप्राक्षीदित्यर्थः ॥ ५।५१।२ ॥
समादेशं सन्देशरूपं वाक्यमिति सामानाधिकरण्यम् ॥ ५।५१।३ ॥
ननु किं तत्सुग्रीवसन्दिष्टमित्याकाङ्क्षायां यन्मयोच्यते तदेव तदीयाशयेन हनुमान् स्वयमेव सर्वं सन्दिशति राजा दशरथ इत्यादिना जानकी प्रतिदीयतामित्यन्तेन ॥ ५।५१।४१० ॥
त्वयेति । त्वया विज्ञात पूर्वश्च वालीति मर्मोक्तिः । स तेन निहत इति पाठः । रामोत्कर्षश्च प्रतिपादित इति ज्ञेयम् ॥ ५।५१।१११५ ॥
त्वां दिदृक्षुरिहागत इति पाठः । त्वां सुग्रीवभ्रातरं रावणम्, तस्मिन् दृष्टे सर्वलोकवृत्तान्तज्ञः स सीतागतिं वक्ष्यतीति सुग्रीवेणोक्तत्वात्त्वां दिदृक्षुरिहागतः, दैवात्पङ्गूपरि गङ्गानिपतनवत् तव गृहे भ्रमता मया जानकी दृष्ट ॥ ५।५१।१६ ॥
दृष्टधर्मार्थः धर्मार्थशास्त्रपारदृश्वा । तपःकृतपरिग्रहः कृततपःपरिग्रहः, महातपस्सम्पन्न इत्यर्थः । यस्मादेतादृशस्त्वं तस्मात्परदारानुपरोद्धुं नार्हसीति योजना ॥ ५।५१।१७ ॥
अनेन मम का हानिरित्यत आह नहीति । धर्मविरुद्धेषु अधर्मेष्वित्यर्थः । अधर्मफलमाह बह्वपायेषु बह्वनर्थेषु । ननु सर्वापायप्रतीकारसमर्थस्य किमियं वाचोयुक्तिः ? तत्राह मूलघातिषु मूलतो विनष्टः किं प्रतिकरिष्यतीति भावः ॥ ५।५१।१८ ॥
ननु सर्वमूलफलच्छेदिनो मे को मूलच्छेदीत्यत आह कश्चेत्यादि ॥ ५।५१।१९ ॥
व्यलीकम् अपारधम् ॥ ५।५१।२० ॥
तद्वाक्यं सुग्रीवोक्तम् । त्रिकालहितं सीतानुपरोधेन पूर्वापराधनाशात् वर्तमानैश्वर्याविरोधात् भाविशुभहेतुत्वाच्च त्रिकालहितम् । धर्म्यं धर्मादनपेतम् अर्थानुबन्धि च मन्यस्व जानीहि अतो नरदेवाय जानकी प्रतिदीयतामिति सम्बन्धः ॥ ५।५१।२१ ॥
न च सीता ऽत्र नास्तीत्यपह्नोतुं शक्यमित्याह दृष्टा हीति । यत् सीतादर्शनरूपं वस्तु दुर्लभं सीतान्वेषणप्रेषितैः सर्वैरपि वानरैः प्राप्तुमश्क्यं तदिह मया लब्धम् । यावदाज्ञप्तं तावत् कृतम् । उत्तरकर्तव्यं तु रामायत्तमित्याह उत्तरमिति ॥ ५।५१।२२ ॥
पञ्चास्यां पन्नगीमिव यां गृह्य गृहीत्वा नाभिजानासि तथा शोकपरायणा वाचामगोचरशोकतत्परा इयं सीता मया लक्षितेति सम्बन्धः । परमपतिव्रता सीता शोकपरायण सती लङ्कायां रुद्धेति कृत्वा लङ्का विनङ्क्ष्यतीति भावः ॥ ५।५१।२३ ॥
ओजसा आहारशक्तिबलेन ॥ ५।५१।२४ ॥
तपस्सन्तापलब्धः तपश्चर्यालब्धो यो ऽयं धर्मपरिग्रहः आत्मप्राणपरिग्रहः आत्मप्राणानां परिग्रहः, तवायुर्वर्द्धक इति यावत् । नाशयितुं न न्याय्य इति योजना ॥ ५।५१।२५ ॥
पितामहवरावध्यस्य मे केयं बिभीषिकेत्याशङ्क्याह अवध्यतामिति । तपोभिर्हेतुभिः सासुरैर्देवैरात्मनो यामवध्यतां भवान् समनुपश्यति तत्रापि यथा अवध्यत्वे तथैव वध्यत्वेपि अयं हेतुरिति योजना ॥ ५।५१।२६ ॥
को ऽसौ हेतुस्तत्राह सुर्गीव इत्यादि । यद्यपि मानुषादवध्यत्वं न प्रार्थितम् तथाप्यङ्गीकृत्योत्तरमाह नच मानुष इति । नासुरो नच राक्षसः इति पाठः सम्यक् । फलितमाह तस्मादिति ॥ ५।५१।२७ ॥
ननु महता पूर्वसञ्चितेनैव धर्मेण मम त्राणं भविष्यतीत्याशङ्क्य रोगराज्यादिवद्धर्माधर्मफलयोः सम्भूयानुभवसिद्धेरात्मत्राणसिद्धिः, उताधर्मबाधेन धर्मफलानुभवश्चेति द्वेधा विकल्प्याद्यस्यासम्भवमाह न त्विते । धर्मोपसंहारं धर्मस्य फलविनाश्यत्वात् धर्मः उपसंह्रियते ऽनेनेति धर्मोपसंहारं धर्मफलं सुखं तत् अधर्मफलसंहितं न भवति, अधर्मेण सह भोग्यं न भवतीत्यर्थः । तीव्रतपःपरदारापहरणभवदीयधर्माधर्मफलयोरवध्यत्ववध्यत्वयोः जीवनतदभावयोः सहायवस्थानविरोधात् रोगराज्यादिवत्सम्भूयानुभवो न सम्भवतीति भावः । द्वितीयं दूषयति तदेवेति । तत् धर्मफलमेवान्वेति, धर्मफलं धर्मफलेन सह तिष्ठतीति यावत् । धर्मो नाधर्मनाशनः अधर्मबाधेन धर्मफलानुभवो न घटत इति भावः । यद्वा ननु, येभ्यो ऽवध्यत्वं न प्रार्थितं तेभ्योपि पूर्वोपार्जितो महासुकृतसञ्चय एव रक्षिष्यतीत्याशङ्क्य एवञ्चेत्तुल्यन्यायतया त्वत्कृतो ऽधर्मनिचयोपि त्वां नाशयिष्यतीत्याह न त्विति । धर्मोपसंहारं धर्मस्य फलविनाश्यत्वात् धर्मः उपसंह्रियते ऽनेनेति धर्मोपसंहारं धर्मफलं सुखं, तत् अधर्मफलसंहितं विरुद्धकारणकत्वाद्दुःखसहितं न भवतीत्यर्थः । किन्तु तदेव फलमत्वेति सुखमेव फलत्वेनानुवर्तते । तुः चार्थे । तेन अधर्मफलमपि धर्मफलसहितं न भवति, अधर्मफलमेव फलत्वेनानुवर्तत इति लभ्यते । नन्वधर्मं धर्मो नाशयिष्यतीत्याशङ्क्याह धर्मश्चेति । अत्र नञ् अनुवर्तते । धर्मो ऽधर्मनाशनो न भवति । पूर्वकृतो धर्मः इदानीं कृताधर्मनाशनो न भवतीत्यर्थः । चकारदेवमधर्मोपि धर्मनाशनो न भवतीति लभ्यते । धर्माधर्मावनुभवैकविनाश्याविति भावः ॥ ५।५१।२८ ॥
ननु महतः पुण्यफलानुभवस्य समाप्त्यनन्तरम् अधर्मफलानुभवो भविष्यतीत्यत्राह प्राप्तमिति । धर्मफलं तावत् साकल्येन प्राप्तं भुक्तम् । अस्याधर्मस्य सीताहरणरूपस्य ॥ ५।५१।२९ ॥
मानुषो रामः किं मां करिष्यतीति मा शङ्केरित्याशयेनाह जनस्थानेति ॥ ५।५१।३० ॥
काममिति । एष तु मत्कर्तृकलङ्काविनाशस्तु । तस्य रामस्य । न निश्चयः न सम्मत इत्यर्थः ॥ ५।५१।३१ ॥
कुत इत्यत आह रामेणेति ॥ ५।५१।३२ ॥
अतिबलशालिनो मे सीतापहारेण रामादिभिः किमित्यत आह अपकुर्वन् हीति ॥ ५।५१।३३ ॥
कालरात्री महाप्रलयकर्त्री भगवतः शक्तिः ॥ ५।५१।३४ ॥
विग्रहः शरीरम् । स्कन्धावसक्तेन स्कन्धसम्बन्धकरणेन । आत्मनि आत्मत्राणे ॥ ५।५१।३५ ॥
प्रतोलिका रथ्या ॥ ५।५१।३६ ॥
मन्त्रीन् मंत्रिणः ॥ ५।५१।३७ ॥
सत्यमिति । रामदासस्येत्यादिविशेषणत्रयेण स्वस्य रामसामर्थ्यपरिज्ञानं हितोपदेशाधिकारं माद्यस्थ्यं च सूचितम् ॥ ५।५१।३८४४ ॥
ब्रह्मेति । ब्रह्मा स्वयम्भूरित्यादिविशेषणानि तेषां सामर्थ्यविशेषद्योतनार्थम् । इन्द्रः परमैश्वर्यवानिन्द्रः । “इदि परमैश्वर्ये” इति धातुः । यो वृत्रहा स महेन्द्रः " महान्वा अयमभूद्यो वृत्रमवधीदिति तन्महेन्द्रस्य महेन्द्रत्वम् “इति श्रुतेः । त्रैलोक्ययन्तृत्ववृत्रहन्तृत्वसर्वसुरसंवृतत्वादिधर्मविशिष्टो वज्रपाणिर्वा । रुद्रः संहारकाले प्रजाः संहरन् रोदयतीति रुद्रः । रुतं शब्दं वेदात्मानं ब्रह्मणे कल्पादौ रातीति वा रुद्रः । यद्वा रुता नादेन सकलं जगादिदं द्रावयतीति रञ्जयतीति नादात्मकत्वाद्रुद्रः । यद्वा रुता नादेन प्रणवरूपेण वेदरूपेण वा दापयतीति इष्टमर्थं गमयतीति वा रुद्रः । यद्वा रुतं संसारदुःखं दुःखहेतुं वा द्रावयतीति रुद्रः । तदुक्तम् “मद्दुःखं दुःखहेतुं वा तद्द्रावयति यः प्रभुः । रुद्र इच्युच्यते तस्माच्छिवः परमारणम् ॥ " इति । एवं व्युत्पत्तियुक्तरुद्रत्वशत्रुभस्मीकरणसमर्थफाललोचनयुक्तत्वत्रिपुरान्तकत्वादिधर्मविशिष्टो महेश्वरो वा । बृंहति बृंहयतीति वा ब्रह्मा । स्वयम्भूः स्वयमेव स्वतन्त्रो भवति न परतन्त्र इति स्वयम्भूः । बृहत्त्वनित्यस्वतन्त्रत्वबहुमुखत्वकार्यनिर्वाहकत्वादिधर्मविशिष्टो विरिञ्चिर्वा युधि रामवध्यं त्रातुं न शक्ता इत्यर्थः ॥
५।५१।४५,४६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकपञ्चाशः सर्गः ॥ ५।५१ ॥