आविष्टः, आसीदिति शेषः ॥ ५।५०।१ ॥
तेजसावृतं, दृष्ट्वेति शेषः । शङ्काहतात्मेत्युक्तां शङ्कामेवाह नन्दी वानरमुख्य एषः प्रमथगणाधिपः ॥ ५।५०।२ ॥
शप्तः मन्मुखसदृशमुखैस्तव नाशो भविष्यतीति शप्तः । सो ऽयमिति । बाणो बलिसुतः महासुरः । इति दध्याविति पूर्वेण सम्बन्धः ॥ ५।५०।३ ॥
कालयुक्तं कालोचितम् ॥ ५।५०।४ ॥
कुतः कस्माद्देशादागतः । किंवा ऽस्य कारणम् अस्य को वा प्रेषकः ॥ ५।५०।५ ॥
मत्पुरीमिति, उद्दिश्येति शेषः ॥ ५।५०।६१० ॥
यन्निमित्तं कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वेति पूर्वेण सम्बन्धः । अथवा यन्निमित्तस्ते इति पाठे बहुव्रीहिः ॥ ५।५०।१११३ ॥
दर्शन इति । राक्षसेन्द्रस्य, तवेति शेषः । दर्शने दुर्लभे सति । राक्षसेन्द्रस्य तव दर्शनार्थं तदिदं वनं नाशितमिति सम्बन्धः ॥ ५।५०।१४,१५ ॥
रक्षणार्थमिति । प्रतियुद्धाः प्रहृताः ॥ ५।५०।१६ ॥
ननु तवास्त्रबन्धाभावे किमिति ब्रह्मास्त्रेण बद्धो राक्षसैः पीड्यस इत्यत आह राजानमिति । अस्त्रविमुक्तो ऽपि कार्यवशाद् बुद्धिपूर्वकमेवाहमेभिः पीड्ये एतन्ममाकिञ्चित्करमिति भावः ॥ ५।५०।१७१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चाशः सर्गः ॥ ५।५० ॥