तत इति । कर्मणा तस्य विस्मितः स्वयं सिंहासनादचलित एव ब्रह्मास्त्रेण स्वबन्धनकर्मविस्मित इत्यर्थः ॥ ५।४९।१,२ ॥
वज्रसंयोगसंयुक्तैः वज्रकीलेन सम्बद्धैः आभरणैर्भ्राजमानमित्यनुषङ्गः ॥ ५।४९।३ ॥
भक्तिभिः कस्तूर्यादिरचनाविशेषैः ॥ ५।४९।४१० ॥
मन्त्री बुद्धिसहायः ॥ ५।४९।११,१२ ॥
सचिवः कार्यसहायः ॥ ५।४९।१३,१४ ॥
रक्षोधिपमवैक्षत न तु रक्षःकृतपीडामित्यर्थः ॥ ५।४९।१५१७ ॥
अयमधर्मः रावणकृतो ऽधर्मः न स्याद्यदि अयं राक्षसेश्वरः बलवान् स्यात् सशक्रस्य रक्षितापि स्यादिति सम्बन्धः ॥ ५।४९।१८ ॥
क्रूरैः भीषणैः । नृशंसैः परदोहाचरणशीलैः । तेन पूर्वोक्तेनाधर्मेण च ॥ ५।४९।१९,२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥ ५।४९ ॥