तत इति । मनस्समाधाय पुत्रनाशखिन्नमपि चेतो धीरतया अप्रकाशितभयं प्रतिष्ठाप्य ॥ ५।४८।१ ॥
पितामहाराधनेन सञ्चितास्त्रः प्राप्तब्रह्मास्त्रो ऽसीत्यर्थः ॥ ५।४८।२ ॥
तव अस्त्रबलमासाद्य आभिमुख्येन स्थित्वा सुरेश्वरसमाश्रिताश्च न शेकुः ॥ ५।४८।३ ॥
कश्चिदपि न गतश्रमो न, सर्वे प्राप्तश्रमा इत्यर्थः ॥ ५।४८।४ ॥
समरेषु कर्मणा पराक्रमेण ते अशक्यं नास्ति । मतिपूर्वमन्त्रणे बुद्धिपूर्वकं विचारिते । अकार्यम् अकार्यविषयज्ञानं नास्ति । भोक्तृभिः कर्मणा संगृह्यन्त इति सङ्ग्रहा लोकाः तेषु त्रिषु । ते अस्त्रबलं स्वाभाविकं बलं च यो न वेद स कश्चिन्नास्ति, सर्वे जानन्तीत्यर्थः ॥ ५।४८।५ ॥
रणावमर्दे रणसङ्कटविषये मनश्च त्वां समासाद्य चिन्तयित्वा निश्चितार्थं निश्चितविजयरूपप्रयोजनं सत् श्रमं विषादं न गच्छतीत्यर्थः ॥ ५।४८।६ ॥
प्रकृतमाह निहता इति ॥ ५।४८।७,८ ॥
अरिनिषूदन त्वयि मे यः सारः उत्कर्षप्रत्ययः स तेषु नास्त्येव हीति योजना ॥ ५।४८।९ ॥
इदं किङ्कराद्यक्षकुमारान्तमारकम् । मतिमत् प्रशस्तमतियुक्तम् । बलं शारीरम् । प्रभावं माहात्म्यम् । पराक्रमं पौरुषम् ॥ ५।४८।१० ॥
अस्त्रविदां वरिष्ठ शान्तशत्रौ त्वयि गते इतो निर्गते, सन्निकृष्टे हनुमत्समीपं प्राप्ते सति बलावमर्दः सेनानाशः यथा शाम्यति सनाक्षयो यथा न स्यात् तथा आत्मबलं परं च समीक्ष्य समारभस्व, स्वसेनानाशात्पूर्वमेव शत्रुसंहारं कुर्वित्यर्थः ॥ ५।४८।११ ॥
न चायं सेनाभिर्जेतुं शक्य इत्याह न वीरेति । हे वीर गणशोचि गणान् शोचयतीति गणशोक् हनुमान् तस्मिन्निमित्ते सेनाः नावन्ति न रक्षन्ति । गणशोप्यवन्तीति पाठे सङ्घशोपि नावन्ति । तत्र हेतुः नेति । मारुतस्य मारुतेः । गतेः परसेनाक्रमणार्थगमनस्य । प्रमाणम् इयत्ता नास्ति । मारुतेः सर्वदिग्गमनशीलतया कया दिशा समागत्य सेनाः प्रहरिष्यतीति न ज्ञायत इति भावः । यद्वा अस्य हनुमतो गतेः प्रमाणं मारुतस्य वायोरपि नास्ति, ततो ऽप्यधिक इत्यर्थः । किञ्च अग्निकल्पः अग्निसदृशः अत एव करणेन मुष्ट्यादिना हन्तुं न, शक्य इति शेषः । अतः वज्रं वज्रप्रायमप्यायुधम् अलसारं कुण्ठितधारम्, तदादाय न विश रणं न प्रविश ॥ ५।४८।१२ ॥
तर्हि किं कर्तव्यमित्यत आह तमिति । तमर्थं पूर्वोक्तमर्थम् एवं प्रसमीक्ष्य उक्तप्रकारेण निरूप्य स्वकर्मसाम्यात् स्वकार्यार्जिताद्धेतोः समाहितात्मा समाहितमनाः सन् दिव्यमस्त्रवीर्यं धनुषश्च वीर्यं स्मरन् अक्षतं यथा भवति तथा कर्म समारभस्व व्रजेति योजना ॥ ५।४८।१३ ॥
अहं त्वां प्रेषयामीति यत् इयं मतिर्न श्रेष्ठा खलु नोचितेत्यर्थः । इयं मतिः त्वत्प्रेषणविषया मतिः । राजधर्माणां राजनीतिरूपधर्माणां क्षत्रियस्य तदनुष्ठातुः क्षत्रियस्य च । मता उचितेत्यर्थः ॥ ५।४८।१४ ॥
हे अरिन्दम सङ्ग्रामे नानाशस्त्रैः वैशारद्यं सामर्थ्यम्, तवास्तीति शेषः । अतः अवश्यमेव योद्धव्यम् । रणे विजयः काम्यः प्रार्थनीय एव ॥ ५।४८।१५ ॥
दक्षसुतप्रभावः दक्षसुता देवाः तत्सदृशप्रभावः ॥ ५।४८।१६ ॥
स्वगणैः इष्टैः सभास्थैः राक्षसैः । युद्धे उद्धतश्चासौ कृतोत्साहश्च । संप्रपद्यत सम्प्रापद्यत ॥ ५।४८।१७,१८ ॥
पक्षिराजोपमतुल्यवेगैः पक्षिराजोपमैः तुल्यवेगैः अन्योन्यसमवेगैश्च । व्यालैः हिंस्रपशुभिः ॥ ५।४८।१९२३ ॥
चक्रचराः ज्योतिश्चक्रसञ्चारिणः ॥ ५।४८।२४,२५ ॥
तडिदूर्जितनिस्वनं तडिच्छब्दोनाशनि रुच्यते ॥ ५।४८।२६२८ ॥
सुपात्रिणः प्रशस्तपत्राः ॥ ५।४८।२९,३० ॥
अभिलक्ष्यस्य लक्ष्यवेधनप्रसिद्धस्य । तस्य इन्द्रजितः । लक्ष्यसंग्रहं लक्ष्यसङ्ग्रहणम् । लक्ष्यविषय दृष्टिमिति यावत् । मोघयन् वितथीकुर्वन् । मोहयन्निति पाठे विपर्यासयन् व्यवर्ततेति सम्बन्धः ॥ ५।४८।३१ ॥
अभिवर्तत अभ्यवर्तत । ततः शरमोक्षसमये पुनरुत्पपात ॥ ५।४८।३२,३३ ॥
अन्तरं रन्ध्रम् ॥ ५।४८।३४ ॥
अमोघेषु शरेषु सम्पतत्स्वपि लक्ष्ये लक्ष्यभूते हनुमति विहन्यमाने स्वयमेव शरेभ्यो विमुच्यमाने सति, शरैरभिद्यमाने सतीत्यर्थः । हन्तेर्गत्यर्थात्कर्मकर्तरि लटः शानजादेशः । समाधिसंयोगसमाहितात्मा समाधीयत इति समाधिः लक्ष्यं तस्मिन् संयोगे शरसन्धाने समाहितात्मा अप्रमत्तचित्तः लक्ष्यसन्धानशरसन्धानदत्तचित्त इत्यर्थः । शरेषु मेघेष्वित्यपि पाठः ॥ ५।४८।३५ ॥
राक्षसराजसूनुः तस्य कपेः अवध्यतां समीक्ष्य निग्रहार्थं बन्धनार्थम् कथं निगच्छेत् निश्चेष्टां गच्छेत् इति तस्मिन् हरिवीरमुख्ये मतिं चकारेति सम्बन्धः ॥ ५।४८।३६,३७ ॥
निजग्राह बबन्ध ॥ ५।४८।३८,३९ ॥
सः हनुमान् स्वस्य तदस्त्रबन्धं ब्रह्मास्त्रबन्धम् । कृतं बुद्ध्वापि प्रभोः ब्रह्मणः प्रभावात् वरदानात् विगताल्पवेगः विगतः अप्राप्तः अल्पो ऽपि वेगः पीडा येन तादृशः, अभीतचित्त इति यावत् । आत्मनः पितामहानुग्रहं मुहूर्तमात्रेण मदस्त्रनिरोधमुक्तिरित्येवंरूपम् । विगताल्पवेग इति पाठः ॥ ५।४८।४० ॥
ब्रह्मास्त्रमभिमन्त्रितम्, विदित्वेति शेषः ॥ ५।४८।४१ ॥
अथेन्द्रजिदभिप्रायानुवादपूर्वकं स्वकर्तव्यमाह न म इति । लोकगुरोः प्रभावादस्य बन्धस्य विमोक्षणे मम शक्तिर्नास्ति इत्येवं मत्वा एवं विहितः इन्द्रजिता अनेन प्रकारेण कृतः, तत आत्मयोनेरस्त्रबन्धः मया अनुवर्तितव्य इत्यन्वयः ॥ ५।४८।४२ ॥
विमोक्षशक्तिं मुहूर्तानन्तरभाविनीं तां परिचिन्तयित्वा मुहूर्तमात्रं पितामहाज्ञामनुवर्तते स्म ॥ ५।४८।४३ ॥
पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन चेत्युक्तिः आदित्यग्रासप्रवृत्त्यानन्तरमिति ज्ञेयम् ॥ ५।४८।४४,४५ ॥
स इति । समीक्ष्य विचार्य करोतीति समीक्ष्यकारी ॥ ५।४८।४६ ॥
शणवल्कैः शणत्वग्भिः । संहतैः त्रिगुणितैः ॥ ५।४८।४७ ॥
सः हनुमान् राक्षसेन्द्रः कौतूहलान्मां द्रष्टुं व्यवस्येदिति निश्चितार्थस्सन् बन्धनादिकं रोचयामासेति सम्बन्धः ॥ ५।४८।४८ ॥
अस्त्रबन्धमोक्षो ऽपि तथैवाजायतेत्याह स इति । वल्केन तज्जन्यरज्ज्वैव बद्धः अस्त्रेण तु विमुक्तः । कुतस्तत्राह अस्त्रबन्धो मन्त्रबन्धो ऽन्यं बन्धं नानुवर्तते इतरबन्धेन सह न तिष्ठति, तस्मिन् सति मन्त्रबन्धो नश्यतीत्यर्थः ॥ ५।४८।४९ ॥
द्रुमचीरबद्धम् अत एव अस्त्रेण विमुक्तं विचार्य अन्येन शणवल्कादिना बद्धो हनुमान् अस्त्रमनुवर्तते अस्त्रेण बद्ध इव वर्तते इत्यपि विचार्य चिन्तां जगामेति सम्बन्धः ॥ ५।४८।५० ॥
अथात्मानमुपालभते अहो इति । महत्कर्म ब्रह्मास्त्रेण हनुमद्बन्धनकर्म राक्षसैः निरर्थकं कृतम् । कुतः ? मन्त्रधृतिः न शक्या, ब्रह्मास्त्रमन्त्रधारणमशक्यमित्यर्थः । नच पुनः करणं शक्यमित्याह पुनश्चेति । न प्रवर्तते प्रयुक्तं ब्रह्मास्त्रं पुनर्न प्रभवतीत्यर्थः । अतः संशयिताः स्म सर्व इति चिन्तां जगामेति पूर्वेण सम्बन्धः ॥ ५।४८।५१५५ ॥
को ऽयमिति । अत्र रावणपुरे । को व्यपाश्रयः को वा आश्रयः ॥ ५।४८।५६,५७ ॥
अतीत्येति । परिचारवृद्धान् अमात्यवृद्धान् ॥ ५।४८।५८६१ ॥
कार्यार्थं कर्तव्यार्थम् । अर्थस्य च मूलम् अर्थकारणम् । कार्यं प्रति प्रेषयितारमिति यावत् । पृष्टस्सन् दूतस्सन् अहमागतोस्मीति निवेदयामासेति सम्बन्धः ॥ ५।४८।६२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥ ५।४८ ॥