प्रमापितान् मारितान् । समरोद्धतोन्मुखं समरोद्धतश्चासौ समरायोन्मुखश्च तम् । आक्षं समक्षमवस्थितम् अक्षाख्यं कुमारम् । निशम्य दृष्ट्वा प्रसमैक्षत युद्धार्थमाज्ञापयामासेत्यर्थः ॥ ५।४७।१ ॥
द्विजातिमुख्यैर्हविषा उदीरितः पावक इति सम्बन्धः ॥ ५।४७।२ ॥
जाम्बूनदजालेन तत्समूहेन सन्ततं व्याप्तम् ॥ ५।४७।३ ॥
ततो महदित्यादि श्लोकोक्तमेवार्थं प्रपञ्चयति ततस्तप इत्यादिश्लोकत्रयेण । तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठानसमूहसम्पादितम् ॥ ५।४७।४ ॥
समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धुरम् अष्टाभिरसिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् ॥ ५।४७।५ ॥
परिपूर्णवस्तुना समग्रसमरोपकारणेन । सः अक्षः शशिसूर्यवर्चसा हेमदाम्ना विराजमानं रथमास्थितो निर्जगामेति सम्बन्धः । दिवाकराभमित्यादि पुनर्वचनं रविप्रभमित्यस्यानुस्मरणार्थम् ॥ ५।४७।६ ॥
तोरणस्थितं तोरणाश्रयम् । आसीनम् उपविष्टम् ॥ ५।४७।७ ॥
हरीक्षणः सिंहदृष्टिः ॥ ५।४७।८ ॥
अभिवर्द्धते तेजसा अभ्यवर्धतेत्यर्थः ॥ ५।४७।९ ॥
स्थिरं स्थितः सः प्रसमीक्ष्यविक्रमं दर्शनीयपराक्रमम् । संयति रणे । दुःखं निवारणं यस्य तम् । त्रिभिः शरैः प्रचोदयामास युद्धाय प्रेरयामास ॥ ५।४७।१०,११ ॥
आशुपराक्रमः तीक्ष्णपौरुषः । समागमः संप्रहारः ॥ ५।४७।१२ ॥
ररासेति । अक्षयुद्धसमये सूर्योदयाभावात् देशान्तरस्थो ऽपि सूर्यः एतज्ज्ञात्वा न ततापेति भावः ॥ ५।४७।१३ ॥
समाधिसंयोगविमोक्षतत्त्ववित् समाधिः लक्ष्ये दृष्टिः, संयोगः शरसन्धानम्, विमोक्षः तद्विसर्गः तेषां तत्त्ववित् तेषु विशारद इत्यर्थः ॥ ५।४७।१४ ॥
असृग्दिग्धश्चासौ विवृत्तनेत्रश्च । विवृत्तलोचन इति पाठे अवसरोचितचक्षुरित्यर्थः । नवोदितादित्यनिभः रक्तवर्ण इत्यर्थः । शरांशुमान् स्वमस्तकस्थशररूपांशुमान् । अंशुमालावान् सूर्य इव व्यराजत ॥ ५।४७।१५ ॥
आपूर्यत व्यवर्द्धत ॥ ५।४७।१६ ॥
मन्दराग्रस्थः मन्दराग्रे मध्याह्नकालीनः सूर्यः इत्यर्थः ॥ ५।४७।१७ ॥
बाणासनचित्रकार्मुकः बाणानामासनं बाणान् क्षिपच्चित्रं कार्मुकं यस्य स तथोक्तः । बाणासनचक्रकार्मुक इत्यपि पाठः ॥ ५।४७।१८,१९ ॥
तृणैरावृतं महाकूपं गजपातनार्थं कृतगर्तम् ॥ ५।४७।२० ॥
घननादनिस्वनः मेघशब्दसदृशशब्दः । भुजयोरूर्वोर्विक्षेपणेन घोरं दर्शनं यस्य सः ॥ ५।४७।२१ ॥
समभिद्रवत् अभ्यद्रवत् ॥ ५।४७।२२ ॥
शरान् विमोक्षयन् व्यर्थीकुर्वन् । तदुपायः शरान्तरे इति ॥ ५।४७।२३ ॥
आस्तृणन्तम् आच्छादयन्तम् ॥ ५।४७।२४,२५ ॥
प्रमापणे हनने ॥ ५।४७।२६ ॥
समाहितः अवहितः । अतिसहः अतिसहिष्णुः ॥ ५।४७।२७२९ ॥
इतीति । स्वकर्मयोगं विधाय स्वकर्तव्यचिन्तां कृत्वा पूर्वमश्वान् हत्वा पश्चाद्रथं भङ्क्ष्यामीति निश्चित्येत्यर्थः ॥ ५।४७।३० ॥
विवर्तने रथगतिषु सञ्चरणसमये हयान् जघान ॥ ५।४७।३१ ॥
प्रभग्ननीडः प्रभग्नरथगर्तः । कूबरः युगन्धरः ॥ ५।४७।३२ ॥
मरुतामालयमुत्पतन् ऋषिरिव, बभूवेति शेषः ॥ ५।४७।३३,३४ ॥
समाविध्य भ्रामयित्वा गृह्य इव । असन्धिल्यबावार्षौ । गृहीत्वेवेत्यर्थः ॥ ५।४७।३५,३६ ॥
चक्रचरैः ज्योतिश्चक्रवर्तिभिः ॥ ५।४७।३७ ॥
वज्रिसुतः इन्द्रसुतः ॥ ५।४७।३८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सप्तचत्वारिंशः सर्गः ॥ ५।४७ ॥