हतानिति । संवृताकारः गूढाकारः, अतः सञ्जातशङ्क इत्यर्थः । उत्तमां मतिं धैर्यम् ॥ ५।४६।१३ ॥
इतीत्थं वक्ष्यमाणप्रकारेण कपिः शास्यताम् । यत्तैः यतमानैः, अप्रमत्तैरिति यावत् । किञ्चात्र देशकालाविरुद्धं कर्म कार्यमित्याह कर्म चेति । देशकालविरोधिनं देशकालविरोधीत्यर्थः । आर्षो लिङ्गविभक्तिव्यत्ययः । कर्म समाधेयं परिहर्तव्यम् । देशकालाविरोधिनमिति पाठे समाधेयं कर्तव्यम् ॥ ५।४६।४,५ ॥
अत्र हेतुमाह हीति । सर्वथेति । इन्द्रेण वेति वाशब्दादन्येन वेत्यर्थः । अस्मदर्थम् अस्मन्निग्रहार्थम् ॥ ५।४६।६ ॥
अत्र हेतुः सनागेत्यादि श्लोकद्वयमेकं वाक्यम् । परिगृह्यताम्, कपिरिति शेषः ॥ ५।४६।७,८ ॥
नावमान्य इत्यस्य श्लोकस्य एकादशाक्षरेण धी इति गायत्र्याश्चतुर्दशाक्षरं सङ्गृह्णाति ॥ ५।४६।९,१० ॥
नैव तेषामित्यादौ सर्वत्र ईदृक्छब्दो ऽध्याहर्तव्यः । तथा चेत्थं योजना । तेषां वाल्यादीनां हनुमतो भीमा गतिः तेज आदिकं च यथा तथा ईदृक् नास्तीति सम्बन्धः । रूपपरिकल्पनं यथेप्सितरूपपरिग्रहणम् ॥ ५।४६।११ ॥
प्रयत्नमित्यार्षं क्लीबत्वम् ॥ ५।४६।१२ ॥
कामं यद्यपीत्यर्थः ॥ ५।४६।१३ ॥
नयज्ञेन नीतिज्ञेन । आत्मा स्वदेहः । युद्धसिद्धिः युद्धे जयः ॥ ५।४६।१४१७ ॥
सत्त्वं चित्तम् ॥ ५।४६।१८ ॥
दिक्षु सर्वास्ववस्थिताः द्राक् तत्समीपमागन्तुं चकिता इति भावः ॥ ५।४६।१९ ॥
तीक्ष्णाः मर्मच्छिदः । पीतमुखाः पीतानि रुधिराणि मुखानि शल्यानि येषां ते तथा, शत्रुशोणितरञ्जिता इत्यर्थः । उत्पलपत्राभाः तद्वर्णाः । यद्वा पीतमुखाः फलभागे स्वर्णरूषिताः । उत्पलपत्राभा एव न तु तत्पीडार्हा इत्यर्थः ॥ ५।४६।२०२२ ॥
कपिर्व्योम्नि स्थित्वा तं स्वनादेन हुङ्कारादिरूपेण वारयामास । पयोदान्ते जलदातृवर्षाकालान्ते ॥ ५।४६।२३,२४ ॥
स दूरमिति । विद्युद्राशिः अशनिसङ्घातः ॥ ५।४६।२५२७ ॥
ताभ्यां कर्तृभ्याम्, मुद्गराभ्यां करणाभ्यामभिहतः ॥ ५।४६।२८३१ ॥
एकतः अवस्थितावित्यन्वयः । एकत्र स्थितावित्यर्थः ॥ ५।४६।३२३८ ॥
ध्वजिनीपतीन् सेनापतीन् परिगृह्य आश्रित्य, स्थित इति शेषः । कृतक्षणः लब्धावसरः ॥ ५।४६।३९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥ ५।४६ ॥