०४५ हनुमता प्रहस्तसुतवधः

तत इति । सप्तार्चिवर्चसः अर्चीति इकारान्तत्वमार्षम् ॥ ५।४५।१ ॥

कृतास्त्रास्त्रविदां श्रेष्ठाः कृतास्त्राणाम् अस्त्रविदां च श्रेष्ठाः । परस्पर ज्यैषिणः अहमहमिकया परस्परोत्कर्षापेक्षिण इत्यर्थः ॥ ५।४५।२१४ ॥

विनेदुरिति । नीडो रथावयवविशेषः ॥ ५।४५।१५१७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चचत्वारिंशः सर्गः ॥ ५।४५ ॥