॥ १,२ ॥
धनुरिति । विस्फारयानः विष्फारयमाणः ॥ ५।४४।३ ॥
समपूर्यतदिगादिसमुदायगोचरमेकवचनम् ॥ ५।४४।४ ॥
जहर्ष स्वबलानुरूपशत्रुप्राप्त्या ॥ ५।४४।५ ॥
तोरणविटङ्कस्थं तोरणकपोतपालिकास्थम् । विटङ्को नाम तोरणस्तम्भयोरुपरि तिर्यङ्क्तिहितदारुः ॥ ५।४४।६ ॥
कर्णिना अङ्कुशाकाराग्रशरविशेषेण ॥ ५।४४।७ ॥
अम्बुजं रक्ताम्बुजम् ॥ ५।४४।८ ॥
चन्दनबिन्दुभिः रक्तचन्दनबिन्दुभिः ॥ ५।४४।९१६ ॥
नाश्वाः ऽरथेन खरयुक्तेनऽ इत्युक्तत्वादश्वशब्देन खरा उच्यन्ते ॥ ५।४४।१७२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदिपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥ ५।४४ ॥