अथ रावणसन्दिष्टसेनान्तरागमनात्पूर्वं तूष्णीं स्थित्वा न किञ्चित् प्रयोजनमिति विचार्य प्रासादभङ्गादि चिकीर्षति तत इति । ध्यानमास्थित इति पाठः । ध्यानं विचारः ॥ ५।४३।१ ॥
चैत्यप्रासादः रक्षःकुलदेवताप्रासादः ॥ ५।४३।२१५ ॥
वातात्मजः पवनात्मजः । भीमरूपं समास्थितः आस्थितवान् ॥ ५।४३।१६ ॥
महान्तस्य महाग्रस्य, अत्युन्नतशिखरस्येत्यर्थः । महार्हस्य इति च पाठः ॥ ५।४३।१७ ॥
तत्र भ्रामितस्तम्भैः स्तम्भान्तरसङ्घट्टनेन अग्निरभूदित्यर्थः ॥ ५।४३।१८,१९ ॥
राक्षसहृदयानि विदारयितुमाह मादृशानामित्यादि ॥ ५।४३।२०२२ ॥
सन्ति चेति । ओघबलाः ओघसङ्ख्यातगजबलाः ॥ ५।४३।२३२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ॥ ५।४३ ॥