॥ १ ॥
प्रतिपेदिरे प्राप्तानि ॥ ५।४२।२ ॥
गतायां निद्रायाम्, वनभङ्गध्वनिनेत्यर्थः ॥ ५।४२।३५ ॥
कोयमिति । उतशब्दो वार्थे । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण सम्बन्धः ॥ ५।४२।६ ॥
आचक्ष्वेति । त्वया संवादं किं कृतवान् किमुद्दिश्य संवादं कृतवान् । पप्रच्छुरिति पूर्वेण सम्बन्धः ॥ ५।४२।७ ॥
का गतिः क उपाय ॥ ५।४२।८ ॥
यो ऽयं यद्वा करिष्यति तद्यूयमेव जानीतेति सम्बन्धः ॥ ५।४२।९ ॥
अस्य अस्मात् भीता ऽस्मि ॥ ५।४२।१० ॥
वैदेह्यावचनम् अज्ञानप्रतिपादकम्, अनेनात्मत्राणादौ मृषावादो न दोषायेति ध्वनितम् । काश्चिद्विद्रुताः काश्चिद्दृढं स्थिता एव काश्चिद्रावणाय निवेदितुं गताः ॥ ५।४२।१११३ ॥
न निवेदयितुमिच्छति प्रायेणेयं तं जानातीति तासामाशयः ॥ ५।४२।१४१६ ॥
उद्देशः प्रदेशः ॥ ५।४२।१७१९ ॥
आज्ञातुम् आज्ञापयितुम् ॥ ५।४२।२० ॥
सीतया सह सम्भाषणस्य अपराधत्वं साधयन्ति मनःपरिगृहीतामिति । राजपरिग्रहसम्भाषणं पुंसो ऽपराध इति भावः ॥ ५।४२।२१२४ ॥
व्यादिष्टाः किङ्कराः कियन्त इत्यत आह तेषामिति । निर्ययुरित्याद्युत्तरशेषः ॥ ५।४२।२५,२६ ॥
अवस्थितं युद्धाय सन्नद्धम् ॥ ५।४२।२७ ॥
काञ्चनाङ्गदैः काञ्चनभूषणैः ॥ ५।४२।२८३१ ॥
तस्येति । आस्फोटितशब्देन क्ष्वेलाशब्देन । सानुनादिना सप्रतिध्वनिना । इन्नन्तो बहुव्रीहिः ॥ ५।४२।३२ ॥
स्वयं जयार्थं स्वामिनं स्तैति जयतीति ॥ ५।४२।३३३५ ॥
अर्दयित्वेति । मिषतां पश्यताम् । अनादरे षष्ठी ॥ ५।४२।३६ ॥
तस्येति । सन्नादशब्देन सन्नादजनितशब्देन, आस्फोटितस्वजनितप्रतिध्वनिनेत्यर्थः ॥ ५।४२।३७ ॥
प्रहरणैः अभिपेतुः आयुधैः प्राहरन्नित्यर्थः ॥ ५।४२।३८,३९ ॥
परिगृह्येत्यत्र परिघः कर्म ॥ ५।४२।४० ॥
४१४३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ ५।४२ ॥