०४१ हनुमता रावणदर्शनचिन्तनम्

॥ १ ॥

चिन्ताप्रकारमाह अल्पशेषमित्यादिना कपीश्वरालयमित्यन्तेन । द्वयमिह कार्यम् देवीदर्शनं परबलादिपरिज्ञानं चेति । तत्र देवीदर्शनस्य महतः प्रधानकृत्यस्य निष्पन्नत्वादितरस्य त्वानुषङ्गिकत्वादल्पशेषमित्यभिप्रायः । तत्र निष्पन्नं सन्दर्शयति दृष्टेयमिति । इतरनिष्पत्तौ उपायं निर्धारयति त्रीनिति । इह राक्षसबलरावणहृदयपरिज्ञानरूपे कार्ये त्रीनुपायान् सामदानभेदानतिक्रम्य चतुर्थो दृश्यते साधनतया दण्डो दृश्यते ॥ ५।४१।२ ॥

उपपत्तिपूर्वकम् एतदेव विवृणोति न सामेति । ऋजुषु सामप्रयोगः फलाय कल्पते, न शठेष्वित्याशयेनाह रक्षस्स्विति । जयापजयावव्यवस्थितावित्याशङ्क्य ऽसर्वं बलवतः पथ्यम्ऽ इतिवत्सर्वातिशायिबलपराक्रमस्य मम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम इति ॥ ५।४१।३ ॥

उक्तं सामाद्युपायमुपसंहरति न चेति । विनिश्चियः उपायः । तथापि पराक्रमे किं कारणमत आह हतेति । हताः प्रवीराः मुख्याः येषां ते हतप्रवीराः । यतः कतिपयवधे शेषा मार्दवमीयुः अतः पराक्रम एव रोचत इत्यर्थः ॥ ५।४१।४ ॥

“अधिगम्य तु वैदेहीं निलयं रावणस्य च” इत्यनुज्ञातव्यतिरिक्तकार्यकरणे दोषमाशङ्क्य परिहरति कार्य इति । कार्ये कर्तव्ये कर्मणि, बहूनि कार्याणि ॥ ५।४१।५ ॥

स्वल्पस्यापि कर्मणः एको हेतुः न साधको भवति, किमुत महतः कर्मण इति भावः । अर्थं कार्यं बहुधा बहूपायसाध्यं यो वेद ॥ ५।४१।६ ॥

ननु स्वामिना निर्दिष्टसीतादर्शनं कृतमेव, अन्यत्तु सुग्रीवसन्निधौ भविष्यतीत्यत आह इहैवेति । परात्मसम्मर्दविशेषतत्त्वविदहं परस्य आत्मनश्च सम्मर्दं युद्धतारतम्यं तस्य तत्त्ववित् कृतनिश्चयः कृतबलाबलनिश्चयस्सन् यदि प्लवगेश्वरालयं व्रजेयं ततो मम भर्तृशासनं सीतादर्शनरावणनिलयसम्यक्परिज्ञानविषयं शासनं तावत् साकल्येन कृतं स्यात्, अन्यथा राक्षसबलाबलं कीदृशमिति भर्त्रा पृष्टो निरुत्तरस्स्यामिति भावः ॥ ५।४१।७ ॥

युद्धं सुखागतं सुखेन प्राप्तं भवेत् तथा, कर्तव्यमिति शेषः । युद्धस्य फलमाह

तथैवेत्यादिना सार्धेन । तथैव खलु युद्धकरणे खलु, दशाननः आत्मबलं स्वपक्षबलं मां च सारवत् सम्मानयेत् सम्यक् परिच्छिन्द्यात् ॥ ५।४१।८ ॥

सबलप्रयायिनं ससैन्यम्, हृदि स्थितं मतं हृद्गतनिश्चयम् ॥ ५।४१।९१२ ॥

कपीश्वरालयमित्यत्र इतिशब्दो द्रष्टव्यः । तस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥ ५।४१।१३१९ ॥

सा विह्वलेति । प्रमदावनस्य अन्तःपुरविहारवनस्येत्यर्थः । “स्यादेतदेव प्रमदावनमन्तःपुरोचितम्” इत्यमरः । “ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्” इति बहुलग्रहणादनियतो ह्रस्वः । अत एव दशास्यप्रमदावनस्य दशास्यप्रमदानां स्त्रीणां भोगसंवर्द्धनद्वारा अवनस्य रक्षकस्य । अशोकलताप्रताना अशोकलतासमूहा वनस्थली तृणगुल्मलताजलाशयादिभिः पूर्णभूमिः कपेर्बलात् शोकलताप्रताना, शोच्यत इति शोकः शोच्यलताप्रताना जातेति योजना ॥ ५।४१।२० ॥

स इति । अर्थपतेः राज्ञो रावणस्य । व्यलीकम् अप्रियम् ॥ ५।४१।२१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकचत्वारिंशः सर्गः ॥ ५।४१ ॥