आत्महितम् आत्मदुःखोद्धारप्रयोजनम् ॥ ५।४०।१ ॥
अर्धसञ्जातानि अर्धंवयःप्राप्तानि । ततः परं जलाभावादन्नशेषाणि सस्यानि यस्यास्सा । यथा दैवात्सम्पन्नवृष्ट्या सम्पन्नसस्या भवति तथा अहमपि प्राप्तजीवितनाशा अमृतोपमात्त्वद्दर्शनाद् धृतजीवितेति भावः ॥ ५।४०।२,३ ॥
अभिज्ञानान्तरं दास्यामीत्याह अभिज्ञानमित्यादि । एकाक्षिशातनीं क्षिप्तामिषीकाम् इषीकामनु ॥ ५।४०।४ ॥
तिलके प्रनष्टे मनश्शिलायास्तिलकः त्वया गण्डपार्श्वे निवेशितः किल, तं स्मर्तुमर्हसीत्यभिज्ञानं च रामस्य रामाय दत्तं भवतीति योजना ॥ ५।४०।५८ ॥
असह्यानीति । त्वत्कृते त्वत्प्राप्त्याशया ॥ ५।४०।९,१० ॥
विपद्यन्तमिति पाठे क्लिश्यन्तम् ॥ ५।४०।१११३ ॥
इमं मुहूर्तम् अस्मिन्मुहूर्ते ॥ ५।४०।१४१९ ॥
उत्पातकृतोत्साहम् उत्पाते उत्पतने कृतोत्साहम् ॥ ५।४०।२०२४ ॥
अल्पावशेषम् अल्पावशिष्टम् । प्रसमीक्ष्य विचार्य ॥ ५।४०।२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ५।४० ॥