मणिं दत्त्वा रामस्यैतदभिज्ञातमभिज्ञानमित्यब्रवीदिति सम्बन्धः ॥ ५।३९।१ ॥
त्रयाणां संस्मरिष्यति । त्रयाणामिति कर्मणि षष्ठी । पाणिग्रहणकाले मम जननी इमं मणिं दशरथसन्निधौ जनकहस्तादादाय शिरोभूषणतया मह्यं दत्तवती अतो मम जननीं दशरथं जनकं मां च स्मरिष्यतीत्यर्थः ॥ ५।३९।२,३ ॥
कार्यनिर्योगे कार्यसङ्घटने । प्रमाणं व्यवस्थापकः ॥ ५।३९।४८ ॥
दुःखाम्बुसंरोधात् अम्बुसंरोधो जलधिः । दुःखसागरादित्यर्थः । समाधातुं वक्तुमित्यर्थः ॥ ५।३९।९११ ॥
उक्तार्थमेवादरेण पुनराह मत्सन्देशयुता इति ॥ ५।३९।१२१८ ॥
तत इति । भर्तुः स्नेहान्वितम् आत्मनि यो भर्तुः स्नेहः तेनान्वितम्, रामस्य स्वविषये स्नेहप्रकाशकमिति यावत् । वाक्यं पूर्वोक्तं हनुमतो वचनम् । अनुमानयत् सम्मानयन्ती इति पूर्वेण सम्बन्धः ॥ ५।३९।१९ ॥
यदीति । एकाहं वस, तेन किम् ? कस्मिंश्चिदिति ॥ ५।३९।२० ॥
मम चेदिति श्वो गमिष्यसि चेदित्यर्थः ॥ ५।३९।२१,२२ ॥
तवेति । दुःखाद्दुःखपरामृष्टाम् अतिदुःखं प्राप्तामित्यर्थः । दुःखं दुःखपरामृष्टामिति पाठे दुःखं मां दीपयत् ज्वलयदिव परितापयेदिति सम्बन्धः ॥ ५।३९।२३ ॥
सन्देहः वक्ष्यमाणः । तिष्ठतीव ममाग्रतः, मूर्तीभूत इति शेषः हर्यृक्षेषु विषये ॥ ५।३९।२४ ॥
सन्देहमेवाह कथं न्वित्यादि ॥ ५।३९।२५,२६ ॥
कार्यनिर्योगे कार्यसङ्घटने । समाधानम् उपाय इत्यर्थः ॥ ५।३९।२७ ॥
मा ऽस्तु रामादीनामत्रागमनम् अहमेव सर्वं साधयिष्यामीत्यत आह काममिति । अस्य कार्यस्य रावणादिवधपूर्वकमन्मोक्षणस्य कामं पर्याप्तः शक्तः, एवं चेत्फलोदयः शक्तिसमृद्धिः ते तवैव यशस्करः न तु ममेति भावः ॥ ५।३९।२८ ॥
तर्हि तव किं यशस्करमत आह बलैरिति । माम्, गृहीत्वेति शेषः । यायात्, राम इति शेषः ॥ ५।३९।२९ ॥
एतद्रामस्यापि यशस्करमित्याह शरैरिति ॥ ५।३९।३० ॥
विक्रान्तं विक्रमः ॥ ५।३९।३१ ॥
अर्थोपहितम् अर्थयुक्तम् । सहितं परस्परं सङ्गतम् । हेतुसंहितं युक्तियुक्तम् । शेषं प्रागनुक्तम् ॥ ५।३९।३२३४ ॥
तस्येति । मनःसङ्कुल्पसंपाताः मनोवेगसदृशवेगवन्त इत्यर्थः ॥ ५।३९।३५३९ ॥
एकोत्पातेन एकप्लुतेन ॥ ५।३९।४०४३ ॥
कालकाङ्क्षिणी भव दिवसगणनायां तत्परा भव ॥ ५।३९।४४४९ ॥
यूथान्यनेकश इत्यत्र द्रक्ष्यसीत्यनुषङ्गः ॥ ५।३९।५०५३ ॥
मत्सङ्गमकालमात्रं मम रामेण सङ्गमकालमात्रमित्यर्थः ॥ ५।३९।५४ ॥
इति श्रीमहेश्वरतीर्थविरचतायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ५।३९ ॥