॥ १ ॥
युक्तरूपं युक्ततमम् । प्रशंसायां रूपप्प्रत्ययः । स्त्रीस्वभावस्य भीरुत्वादेः । साध्वीनां त्वादृशीनां पतिव्रतानां विनयस्य वृत्तस्य सदृशम् ॥ ५।३८।२ ॥
संक्षेपेणोक्तमर्थं श्लोकद्वयेन विवृणोति स्त्रीत्वमित्यादिना । विस्तीर्णमपि मामधिष्ठाय शतयोजनमायतं सागरं व्यतिवर्तितुं तर्तुं स्त्रीत्वं न समर्थं हि स्त्री न समर्थेत्यर्थः । यद्वा स्त्रीत्वमित्यत्र स्त्री इति छेदः । समर्थमिति लिङ्गव्यत्यय आर्षः । स्त्रीभूता त्वं सागरं व्यतिवर्तितुं न समर्था हीत्यर्थः । स्त्रीणां भीरुस्वभावत्वात्तत्तु भूषणमेवेति भावः । सागरस्य निवर्तितुमिति पाठे सागरस्य यादृक्छतयोजनं तावदायतं विस्तीर्णमपि मामधिष्ठाय निवर्तितुमुपगन्तुं स्त्री त्वं न समर्थेति योजना ॥ ५।३८।३५ ॥
श्रोष्यते चेति । चेष्टितम् उद्बन्धनादिकं ममाग्रतः भाषितं रावणं तृणीकृत्य कथितं च ॥ ५।३८।६ ॥
कारणैः त्वद्दुःखहेतून् दृष्ट्वेत्यर्थः ॥ ५।३८।७,८ ॥
रघुबन्धुना रघुसगोत्रेण रामेण त्वां समानेतुं सङ्गमयितुमिच्छामीत्युदाहृतम् । एतत् गुरुस्नेहेन अन्यथा नेति सम्बन्धः ॥ ५।३८।९११ ॥
इदमित्यादि श्लोकद्वयमेकं वाक्यम् । चित्रकूटस्य पादे चित्रकूटस्य समीपपर्वते पूर्वोत्तरे ईशान्यकोणे मन्दाकिन्या ह्यदूरतः सिद्धाश्रमे प्राज्यं बहु बहुमूलफलोदके तस्मिन् देशे धृत्तं तापसाश्रमवासिन्या मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ ५।३८।१२,१३ ॥
तवाङ्के समुपाविशमिति । ननु हनुमन्तमुद्दिश्याभिज्ञानं वक्तुमुपक्रान्ता देवी रामं सम्बोध्य किमर्थं कथयतीति चेत् ? सत्यम्, मह्यमभिज्ञानं वक्तुमुपक्रान्ता त्वामेवाभिमुखीकृत्य एवमुत्तरं प्रादादिति हनुमता रामाय वाचयितुमिति न दोषः ॥ ५।३८।१४ ॥
तत इति । पर्युतुण्डयत् पर्यखण्डयत्, स्तनान्तर इति शेषः ॥ ५।३८।१५,१६ ॥
उत्कर्षन्त्यामिति । पक्षिणा वसने स्रस्यमाने सति रशनामुत्कर्षन्त्याम् आकृष्यमाणायां मयि क्रुद्धायां सत्यां ततः तदा त्वया अहं दृष्टा ऽस्मीति सम्बन्धः ॥ ५।३८।१७ ॥
भक्षगृध्रेन सक्षलोलुपेन । दारिता विदारिता । त्वामुपागता पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थम् अङ्कादुत्थानमनुधावनं च देव्या कृतमित्यवगम्यते ॥ ५।३८।१८२१ ॥
त्वयि स्वपिति मयि जाग्रत्यामित्यर्थः । सुप्तप्रबुद्धां राघवाङ्के सुप्त्वा ततः प्रबुद्धामत एव राघवाङ्कादुत्थितां वायसः पुनरागम्य स्तनान्तरे विददार व्यलिखत् ॥ ५।३८।२२२६ ॥
वीक्षमाण इतस्ततः, प्रान्तदेशमित्यर्थः ॥ ५।३८।२७ ॥
धरान्तरगतः भूमिं प्राप्तः ॥ ५।३८।२८ ॥
कोपेन संवर्तिते विवर्तिते ईक्षणे येन सः ॥ ५।३८।२९ ॥
दर्भं संस्तरात् गृह्य गृहीत्वा योजयत् अयोजयत् । द्विजं काकम् ॥ ५।३८।३०,३१ ॥
अनुसृप्तः अनुसृतः । लोककामः रक्षकजनाकाङ्क्षी ॥ ५।३८।३२ ॥
पित्रा परित्यक्तः, स्वर्गे ऽपीति शेषः । पित्रेत्युपलक्षणं ब्रह्मान्तानाम् ॥ ५।३८।३३ ॥
पर्यपालयत्, प्राणरक्षणेनेति शेषः ॥ ५।३८।३४,३५ ॥
परिद्यूनं परितप्तम् । मोघमिति । उच्यतामिति प्रश्नानन्तरं हिनस्ति स्म स दक्षिणमिति वचनादस्त्रलक्ष्यत्वेन दक्षिणाक्षि काकेन दत्तमित्यवगम्यते ॥ ५।३८।३६३८ ॥
एवं हनुमते रामैकसंवेद्यमभिज्ञानमभिधाय दुःखावेशाद्राममेव बुद्धिस्थं सम्बोध्य सोपालम्भं प्रार्थयते मत्कृत्यादिसार्धचतुष्टयेन । यः त्वत्तो मामहरत् तं रावणं कस्मात् क्षमसे, उपेक्षस इत्यर्थः ॥ ५।३८।३९ ॥
स त्वम् । आनृशंस्यम् अक्रौर्यम् ॥ ५।३८।४०,४१ ॥
अपारपारं दूरपारम्, अप्राप्यगुणसीमान्तम् ॥ ५।३८।४२४४ ॥
सम्भ्रमः त्वरा ॥ ५।३८।४५,४६ ॥
यदि ताविति । सङ्गताविति शेषः । उपेक्षतः उपेक्षेते ॥ ५।३८।४७ ॥
किञ्चित् किमपि ॥ ५।३८।४८,४९ ॥
त्वच्छोकविमुखः त्वद्विश्लेषशोकेन स्वशरीररक्षणे पराङ्मुखः त्वद्देशगमनायेत्यर्थः ॥ ५।३८।५० ॥
इमं मुहूर्तम् अस्मिन् मुहूर्ते ॥ ५।३८।५१५६ ॥
पृथिव्यामपि दुर्ल्लभमित्यत्र त्यक्त्वेत्याकृष्य योज्यम् । अनुप्रव्रजितो राममित्यत्र स इति शेषः ॥ ५।३८।५७५९ ॥
समाचरन् परिचरन् ॥ ५।३८।६०६२ ॥
यस्यां धुरि यं लक्ष्मणं नियुज्यैव स्वयं तां धुरं राम उद्वहति ॥ ५।३८।६३ ॥
राघवः ये दृष्ट्वा वृत्तमतीतम् आर्यं दशरथं नानुस्मरेत् पितृवत्सम्यग्रक्षकत्वात् पितरं न स्मरतीति भावः ॥ ५।३८।६४ ॥
यथेति । दुःखक्षयकरो भवेल्लक्ष्मणः तथा कर्तव्यमिति शेषः । त्वमेव कार्यनिर्योगे कार्यसङ्घटने प्रमाणं व्यवस्थापकः यतः अतो राघवः मयि यत्नपरो भवेदिति सम्बन्धः ॥ ५।३८।६५६७ ॥
ऊर्ध्वं मासान्न जीवेयमिति । रावणदत्तमासद्वयावधिमपि न सहिष्य इति भावः । निकृत्य तिरस्कारेण ॥ ५।३८।६८ ॥
पातालादिव कौशिकीमिति । कौशिकी देवेन्द्रस्य श्रियम् । पुरा किल वृत्रवधाद्बह्महत्याभिभूतस्येन्द्रस्य लक्ष्मीं पातालप्रविष्टां देवप्रार्थितो भगवानादिनारायणः पातालादुद्धृत्य पुनरिन्द्राय श्रियं प्रायच्छदिति पौराणिकी कथा ऽत्रानुसन्धेया ॥ ५।३८।६९ ॥
मणिरत्नं मणिश्रेष्ठम् । अङ्गुल्या योजयामास अङ्गुल्या दधार । चूडामणेरधिष्ठानस्य हेमपुष्पस्य केशप्रवेशार्थं यो रन्ध्रः तत्र अङ्गुलीं प्रावेशयदित्यर्थः । ननु तदानीं हनूमतो ऽसूक्ष्मरूपत्वात्तन्मणिविवरे सूक्ष्मरूपभूतासञ्जनमेव समञ्जसमत आह नहीति । अस्य हनुमतो भुजः सूक्ष्मो ऽपि न प्राभवन्न माति स्म, तत्र न प्राविशदित्यर्थः । न प्राभवद्भुज इति प्रतिषेधस्य प्रसक्तिपूर्वकत्वात् प्रसक्तेः सूक्ष्मरूप एव सम्भवात् भुजप्रतिषेधेन देव्यै प्रदर्शितमात्रं रूपं विहाय सूक्ष्मरूपेण स्थितवानित्यवगम्यते ॥ ५।३८।७०७२ ॥
मणिवरमिति । पवनावधूतमुक्तः महावातकम्पविक्षिप्तः । प्रतिसंक्रमं प्रतिप्रयाणम् । प्रपेदे प्रारभत ॥ ५।३८।७३ ॥
इति श्रीमहेश्वरतीर्थिविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायामष्टात्रिंशः सर्गः ॥ ५।३८ ॥