॥ १ ॥
यच्च अनन्यमना इति वाक्यमाख्यायते तदमृतं, यच्च शोकपरायण इति वाक्यमाख्यायते तद्विषम् ॥ ५।३७।२ ॥
असंहार्यः अनिवार्यः ॥ ५।३७।४८ ॥
निर्यातनं प्रत्यर्पणम् । तत् निर्यातनं प्रति ॥ ५।३७।९११ ॥
पतिः प्राप्स्यते । कुतः ? अन्तरात्मेति ॥ ५।३७।१२ ॥
गुणानेवाह उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्नः उत्साहः । पौरुषं तादृक्कार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अकौर्यम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ॥ ५।३७।१३ ॥
तस्य तस्मात् ॥ ५।३७।१४ ॥
तुलयितुं चलयितुम् ॥ ५।३७।१५१९ ॥
समुद्रलङ्घनपूर्वकं देवीप्रापणे स्वस्य महती शक्तिरस्तीति देवीं विश्वासयति त्वां हीति ॥ ५।३७।२०२३ ॥
मा विकाङ्क्षस्व मोपेक्षिष्ठा इत्यर्थः ॥ ५।३७।२४ ॥
मत्पृष्ठमधिरुह्य महार्चिषा चन्द्रेण सूर्येण च कथयन्तीव सम्भाषमाणेव आकाशमहार्णवौ तरेति सम्बन्धः । तथा अत्युन्नत पथा त्वां गृहीत्वा गच्छामीति भावः ॥ ५।३७।२५२७ ॥
मैथिलीति । हर्षविस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गीत्यर्थः ॥ ५।३७।२८३३ ॥
पादपात् आप्लुत्य शरीरवर्धनवेगकृतशाखाभङ्गध्वनिना राक्षस्यो ज्ञास्यन्तीति मत्वा अन्यत्रापसृतवानित्यर्थः ॥ ५।३७।३४ ॥
अग्रतो योग्यप्रदेशे व्यवतस्थे ॥ ५।३७।३५३७ ॥
विकाङ्क्षया उपेक्षया, अश्रद्धयेत्यर्थः ॥ ५।३७।३८४३ ॥
अहमिति । सागरं सागरोल्लङ्घनमुद्दिश्येत्यर्थः । उपर्युपरि वेगेन गच्छतस्ते पृष्ठात् आकाशमापन्ना ऽहं भयात् प्रपतेयमिति सम्बन्धः ॥ ५।३७।४४,४५ ॥
कलत्रवति रक्ष्यद्वव्यवति त्वय्यपि सन्देहः प्राणसन्देहः ॥ ५।३७।४६,४७ ॥
तैः परिवृतो भवेः संशयं प्राप्तो भवेरिति वाक्यभेदेन युष्मच्छब्दयोर्निर्वाहः । कलत्रवान् रक्ष्यभारवानित्यर्थः ॥ ५।३७।४८,४९ ॥
तथापि साहसकरणं न कर्तव्यमित्याशयेनाह युध्यमानस्येत्यादिश्लोकद्वयेन ॥ ५।३७।५०,५१ ॥
तत्र पतनपक्षे अनर्थमाह अथवेति । ते पृष्ठादिति शेषः ॥ ५।३७।५२ ॥
पराजयपक्षे अत्यनर्थमाह गां वेति । पराजयं सम्भावमति अव्यवस्थौ हीति ॥ ५।३७।५३ ॥
अथ मा भूतां पतनपराजयौ, रक्षस्तर्जनैरेव मे मरणं स्यादित्याह अहं वेति ॥ ५।३७।५४ ॥
इदानीं हनुमतः सर्वशक्तिमङ्गीकृत्य युक्तयन्तरमाह काममिति । शस्तैः निहतैः ॥ ५।३७।५५ ॥
पराजयपक्षे दोषान्तरमाह अथवेति । संवृते गूढप्रदेशे । आरम्भः समुद्रलङ्घनादिप्रयत्नः ॥ ५।३७।५६ ॥
किमत्र हितमत आह त्वयेति ॥ ५।३७।५७ ॥
मम नाशादर्शनयोर्न केवलं त्वदारम्भवैकल्यम्, दुरन्तो महाननर्थः स्यादित्याशयेनाह मयीत्यादिना । राघवस्य जीवितं मयि आयत्तं मज्जीविताधीनं जीवितमित्यर्थः । राजकुलस्य सुग्रीवकुलस्य ॥ ५।३७।५८ ॥
प्राणसंग्रहं प्राणसर्वस्वम् ॥ ५।३७।५९ ॥
ननु रावणाङ्गसंस्पर्शः कथं स्यादित्यत आहभर्तुर्भक्तिमिति । यस्मात्कारणात् । भर्तुर्भक्तिं पुरस्कृत्य भर्तुर्भक्त्या लक्ष्मणःप्रस्थापितः तस्मात् रावणस्य गात्रसंस्पर्शं बलाद्गतेति सम्बन्धः । हा सीते लक्ष्मणेति मारीचवाक्यं श्रुत्वा रामानर्थशङ्कया भर्तृभक्त्या लक्ष्मणप्रस्थापनात् प्राप्तो ऽयमनर्थो न कामकृत इति भावः । अनीशा स्वयं किञ्चित्कर्तुमशक्नुवती । विवशा विचेष्टा । विनाथा विगतस्वामिका, असन्निहितनाथेत्यर्थः ॥ ५।३७।६०,६१ ॥
अथ सिद्धान्तमाविष्करोति यदीति । राक्षसवधरावणवधपूर्वकं मत्प्रापणं रामस्य सदृशम् अन्यमुखेन मत्प्रापणमनुचितमिति भावः ॥ ५।३७।६२ ॥
नचाशक्तिचिन्ता रामे कार्येत्याह श्रुताहीति ॥ ५।३७।६३६५ ॥
हरिश्रेष्ठ स त्वं मे पतिमिहोपपादय, इहानयेत्यर्थः । चिराय चिरकालं शोककर्शितां मां हर्षितां कुरु ॥ ५।३७।६६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ५।३७ ॥