०३६ हनुमता सीतायाः रामाङ्गुलीयकदर्शनम्

अथ दृढतरविश्वासाय रामाङ्गुलीयकं दातुमाह भूय इति । प्रत्ययः विश्वासः ॥ ५।३६।१ ॥

सन्देशकथनादिना देवीं विश्वास्य अभिज्ञानाङ्गुलीयकप्रदानेनापि दृढं विश्वासयति वानरो ऽहमित्यादिना ॥ ५।३६।२५ ॥

तत इति । प्रियं कृत्वा आदरं कृत्वेत्यर्थः ॥ ५।३६।६ ॥

विक्रान्तः शूरः । समर्थः देशकालोचितकृत्यचतुरः । प्राज्ञः सर्वशास्त्रतत्त्वज्ञः । पदं स्थानम् ॥ ५।३६।७,८ ॥

सन्त्रासः, समुद्रादिति शेषः ॥ ५।३६।९ ॥

यद्यपीत्यवधारणे । मया समभिभाषितुम् अर्हसे यद्यपि, अर्हस्येवेत्यर्थः । कुतः ? विदितात्मना रामेण प्रेषित इति सम्बन्धः । यद्वा अप्यवधारणे । यदि यस्मात् विदितात्मना रामेण प्रेषितः तस्मात् मया समभिभाषितुमर्हस्येवेति सम्बन्धः ॥ ५।३६।१०१४ ॥

कच्चिदिति । उत्तराणि च कार्याणि पुरुषकारान् ॥ ५।३६।१५ ॥

दीनो न सम्भ्रान्त इत्यनुषङ्गः ॥ ५।३६।१६ ॥

द्विविधमिति । सुहृत् परंतपो रामः विजिगीषुः सन् त्रिविधोपायं सामदानभेदरूपमुपायम् । उपायमपि दण्डोपायमपि । मित्रेषु चकारादमित्रेषु च द्विविधं यथा भवति तथा सेवते कच्चित् ? । मित्रेषु सामदाने, अमित्रेषु भेददण्डौ चेत्येवं विभज्य प्रयुङ्क्ते कच्चित् ? ॥ ५।३६।१७ ॥

मित्राणि लभते स्वयत्नेन मित्रैश्च स्वयत्नतो ऽभिगम्यते । कल्याणमित्रः सौमित्रः मित्रैः पुरस्कृतः बहुमतः कच्चिति ? ॥ ५।३६।१८ ॥

आशास्ति आशास्ते, प्रार्थयत इत्यर्थः ॥ ५।३६।१९,२० ॥

सुखानामिति । अनुचित एव अनौचितः । उत्तरं दुःखम् उत्कृष्टं दुःखम् ॥ ५।३६।२१,२२ ॥

शोकेन राघव इति । परितप्यत इति शेषः ॥ ५।३६।२३२७ ॥

हेमसमानवर्णं हेमवर्णवत् स्पृहणीयवर्णमित्यर्थः ॥ ५।३६।२८ ॥

धर्मापदेशात् धर्मोद्देशेन, धर्ममुद्दिश्येति यावत् । राज्यत्यागात् व्यथा मनश्चलनम्, अरण्यसञ्चाराद्भीतिः, सीतापादसञ्चाराच्छोकः यस्य नास्ति सः हृदये धैर्यं करोति कच्चिदिति सम्बन्धः ॥ ५।३६।२९ ॥

इदानीं धैर्याकरणे किं कारणमित्याशङ्क्य मद्वियोग एव कारणमित्याशयेनाह न चास्येति । अस्य रामस्य अस्मिन् समये माता च स्नेहान्मत्तो विशिष्टा मया न समा च यथा अहमस्मि तथा पिता च न भवतीत्यर्थः । अत एव प्रवृत्तिं मदानयनोद्योगवार्ताम् ॥ ५।३६।३० ॥

रामार्थयुक्तं राम एवाभिधेयः तद्युक्तम् ॥ ५।३६।३१,३२ ॥

न त्वामिति । शचीं पुरन्दर इवेति । अनुह्लादनीतां शचीं पुरन्दरः कञ्चित्कालमविज्ञाय ततो ज्ञात्वा यथा आनीतवान् तद्वदित्यर्थः ॥ ५।३६।३३ ॥

मह्यं मम ॥ ५।३६।३४ ॥

विष्टम्भयित्वा अपविध्येत्यर्थः ॥ ५।३६।३५ ॥

तत्र त्वदानयनरूपकार्ये । मृत्युर्यदि अन्तरा पथि रामस्य स्थास्यति, देवा यदि स्थास्यन्ति, विघ्नकारित्वेनेति शेषः । तानपि वधिष्यतीति योजना ॥ ५।३६।३६,३७ ॥

स्वोक्तार्थे देवीविश्वासार्थं स्वोपजीवनिवासफलमूलादिना शपथं करोति दर्दुरेणेति । दर्दुरेण पर्वतेन यथा रामस्य मुखं द्रक्ष्यसि अस्मिन्नर्थे दर्दुरादिना शपे विश्वासयामीति श्लोकत्रयस्य सम्बन्धः ॥ ५।३६।३८,३९ ॥

नागराजस्य ऐरावतस्य । नाकपृष्ठस्येति पाठे सर्वोपरीत्यर्थः ॥ ५।३६।४० ॥

वन्यं मूलफलादिकम् । सुविहितं परिग्राह्यत्वेन आरण्यकशास्त्रचोदितम् । भक्तम् अन्नम् । पञ्चमं पञ्चानामन्नानां पूरणम् । वानप्रस्था हि मूलफलादिकं पञ्चधा कृत्वा देवपित्रतिथिभूतेभ्यस्तद्भागान् दत्त्वा पञ्चमं स्वयं भुञ्जते । पञ्चमकालसिद्धं पञ्चममिति वा । प्रातस्सङ्गवमध्याह्नापराह्णसायाह्नेषु पंचसु कालेषु चतुरो भोजनकालानतीत्य पञ्चमे काले भुङ्क्त इत्यर्थः । यद्वा “षोडशारण्यवासिनः” इत्युक्तवानप्रस्थभोज्यस्य पञ्चमांशं भुङ्क्ते । अनेन रामस्यात्यल्पाहारतोक्ता ॥ ५।३६।४१४३ ॥

अनिद्र एव कथञ्चित्सुप्तो ऽपीति सम्बन्धः ॥ ५।३६।४४४६ ॥

सा रामेति । रामसङ्कीर्तनवीतशोका ऽअनिद्रः सततं रामःऽ इति रामसङ्कीर्तनेन वीतशोका । ऽन मासं राघवो भुङ्क्तेःऽ इत्युक्तशोकेन हेतुना समानशोका सा साम्बुदशेषः चन्द्रो यस्यास्सा साम्बुदशेषचन्द्रा प्रकाशाप्रकाशयुक्ता निशेव बभूवेत्यर्थः ॥ ५।३६।४७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षड्विंशः सर्गः ॥ ५।३६ ॥