तां त्विति अदित्य इवेत्यादिकाम् ॥ ५।३५।१,२ ॥
यानि लिङ्गानि चिह्नानि ॥ ५।३५।३ ॥
संस्थानम् अवयवसन्निवेशः । रूपम् आकारः ॥ ५।३५।४,५ ॥
जानन्तीति । बतेत्यामन्त्रणे । मां रामदूत इति जानन्ती सती दिष्ट्या मद्भाग्येन परिपृच्छतीति योजना ॥ ५।३५।६ ॥
लक्षितानि त्वया दृष्टानि । मे मत्तः ॥ ५।३५।७ ॥
रूपदाक्षिण्यसम्पन्नः रूपमित्येतद्विग्रहगुणानामुपलक्षणम् । प्रसूत इत्यनेन गुणानामुत्पतिविशिष्टत्वमवगम्यते ॥ ५।३५।८ ॥
सङ्ग्रहेणोक्तान् गुणान् विवृणोति तेजसेत्यादिना ॥ ५।३५।९११ ॥
अर्चिष्यानिति । अर्चितः, सद्भिरिति शेषः । ब्रह्मचर्यव्रते स्थितः, तत्र प्रसिद्ध इत्यर्थः । प्रचारज्ञः प्रयोगज्ञः ॥ ५।३५।१२,१३ ॥
यजुर्वेदविनीतः तस्मिन् रत इत्यर्थः ॥ ५।३५।१४ ॥
पूर्वमात्मगुणानभिधाय इदानीं विग्रहगुणानाह विपुलांस इत्यादिना ॥ ५।३५।१५ ॥
समः अन्यूनातिरिक्तदेहप्रमाणः ॥ ५।३५।१६ ॥
त्रिस्थिरः त्रिषु स्थानेषु स्थिरः । तदुक्तम् “उरश्च मणिबन्धश्च मुष्टिश्च नृपतेः स्थिराः " इति । त्रिप्रलम्बः । तदुक्तम्"प्रलम्बा यस्य स धनी त्रयो भूमुष्कबाहवः” इति । मुष्कः वृषणः । त्रिसमः त्रिषु समः । तदुक्तम् " केशाग्रं वृषणं जानु समं यस्य स भूपतिः" इति । त्रिषु चोन्नतः । तदुक्तम्"नाभ्यन्तःकुक्षिवक्षोभिरुन्नतः क्षितिपो भवत्" इति । त्रिताम्रः । तदुक्तम् “नेत्रान्तनखपाण्यङ्घ्रितलैस्ताम्रैस्त्रिभिस्सुखी” इति । त्रिषु स्निग्धः तदुक्तम् “स्निग्धा भवन्ति वै येषां पादरेखाः शिरोरुहाः । तथा लिङ्गमणिस्तेषां महाभाग्यं विनिर्दिशेत्” इति । त्रिषु गम्भीरः “स्वरे सत्त्वे च नाभौ च गम्भीरस्त्रिषु शस्यते” इति ॥ ५।३५।१७ ॥
त्रिवलीवान् उदरे कण्ठे वलिन्नयवान् । “स्थिरा त्रिरेखा सुभगोपपन्ना स्निग्धा सुमांसोपचिता सुवृत्ता । न चातिदीर्घा चतुरङ्गुला च ग्रीवा च दीर्घा भवतीह धन्या” इति । त्र्यवनतः त्रीणि अवनतानि निम्नानि यस्य सः । तदुक्तम्"पीनोपचितैर्निम्नैः क्षितिपतयश्चूचुकैः स्तनैः सुखिनः । स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निस्स्वानाम् ॥ " इति । चतुर्व्यङ्गः चत्वारि व्यङ्गानि ह्रस्वानि यस्य सः । “ग्रीवा प्रजननं पृष्ठं ह्रस्वं जङ्घा च पूज्यते” इति । त्रिशीर्षवान् त्र्यावर्तयुक्तशीर्षवानित्यर्थः । “आवर्तत्रयरुचिरं यस्य शिरः क्षितिभृतां भवेन्नाथः” इति । चतुष्कलः चतस्रः कलाश्चत्वारो वेदा यस्य सः । अत्र कलाशब्देन तत्प्राप्तिसूचका अङ्गुष्ठमूलगताश्चतस्रो रेखा उच्यन्ते । तदुक्तम् “मूलेऽङ्गुष्ठस्य वेदानां चतस्रस्तिस्र एव वा । एका द्वे वा यथायोगं रेखा ज्ञेया द्विजन्मनाम् ॥
" इति । चतुर्लेखः ललाटे पादयोः पाण्योश्चतस्रो रेखा यस्य सः । " ललाटे यस्य दृश्यन्ते चतुस्त्रिव्द्येकरेखिकाः । शतद्वयं शतं षष्टिस्तस्यायुर्विंशतिस्तथा ॥ " इति । “यस्य पादतले वज्रध्वजशङ्खाङ्कुशोपमाः । रेखाः सम्यक् प्रजायन्ते मनुजेन्द्रं तमादिशेत् । " इति । “पाण्योश्चतस्रो रेखाश्च यस्य तिष्ठन्त्य भङ्गुराः” इति च । चतुष्किष्कुः चत्वारः किष्कवः प्रमाणं यस्य स तथोक्तः । किष्कुः चतुर्विंशत्यङ्गुलात्मको हस्तः” षण्णवत्यङ्गुलोत्सेधो यः पुमान् स दिवौकसः” इति । चतुस्समः । तदुक्तम् “बाहुजानूरुजङ्घाश्च चत्वार्यथ समानि च ।” इति ॥
५।३५।१८ ॥
चतुर्दशसमद्वन्द्वः समपरिमाणचतुर्दशाङ्गद्वन्द्वयुक्त इत्यर्थः । तदुक्तम् “भ्रुवौ नासापुटे नेत्रे कर्णावोष्ठौ च चूचुके । कूर्परौ मणिबन्धौ च जानुनी वृषणौ कटी । करौ पादौ स्फिजौ यस्य समौ ज्ञेयः स भूपतिः ॥ " इति । " कर्णाक्षिभ्रूगण्डनासादन्तोष्ठस्कन्धजत्रुणी । पादौ करौ स्तनावूरू स्फिजौ द्वन्द्वौ चतुर्दश ॥
" इति । “समाश्च यस्य विद्यन्ते क्रमेणोपचितास्तथा” इति । चतुर्दंष्ट्रः दन्तपङ्क्तिद्वये प्रतिपार्श्वं चतस्रश्चतस्रो दंष्ट्रा दन्तविशेषा यस्य स तथोक्तः । यद्वा दन्तपङ्क्तिद्वये ऽपि मध्यदन्तचतुष्कमभितो द्वौ द्वौ दन्तविशेषा दंष्ट्रा अभिधीयन्ते । चतुर्गतिः चतुर्णां सिंहशार्दूलगजवृषभाणां गतिर्यस्य सः । महोष्ठहनुनासश्च ओष्ठस्य महत्त्वं बन्धु जपाकुसुमबिम्बफलारुणमांसलत्वम्, हनोस्तु परिपूर्णमांसलोन्नतत्वम्, नासिकायाः दीर्घोन्नतरुचिरपुटत्वम् । तदुक्तम् “बन्धुजीवकुसुमोपमाधरो मांसलो रुचिरबिम्बरूपधृत् । पूर्णमांसलहनुस्तु भूमिपस्तुङ्गतुण्डरुचिराकृतिस्तथा” इति । तुण्डमिति नासिकोच्यते । पञ्चस्निग्धः “वाग्वक्रनखलोमानि त्वचश्च” इति । अष्टवंशवान् अष्टौ वंशा आयता अस्य सन्तीत्यष्टवंशवान् । “बाहू च नलकौ चोरू जङ्वे चेत्यष्टवंशकाः” इति । नलका अङ्गुलिः ॥ ५।३५।१९ ॥
दशपद्मः दश पद्माकारा अवयवा यस्य सः । तथोक्तम् “मुखनेत्रास्यजिह्वौष्ठतालुस्तननखाः करौ । पादौ च दश पद्मानि पद्माकाराणि यस्य च ॥ " इति । दशबृहत् “शिरो ललाटे श्रवणे ग्रीवा वक्षश्च हृत्तथा । उदरं पाणिपादौ च पृष्ठं दश बूहन्ति च” इति । त्रिभिर्व्याप्तः “त्रिभिर्व्याप्तश्च यश्च स्यात्तेजसा यशसा श्रिया” इति । द्विशुक्लवान् द्वौ शुक्लौ शुद्धौ मातृपितृवंशौ यस्य सः । “द्वौ शुक्लौ तु शुभौ शुद्धौ वंशौ मातुः पितुस्तथा” इति । षडुन्नतः “कक्षः कुक्षिश्च वक्षश्च घ्राणस्कन्धौ ललाटिका । सर्वभूतेषु निर्दिष्टा उन्नताङ्गाः शुभप्रदाः” इति । नवतनुः नवसु स्थानेषु सूक्ष्मः । “सूक्ष्माण्यङ्गुलिपर्वाणि केशरोमनखत्वचः । शेफश्च येषां सूक्ष्माणि ते नरा दीर्घजीविनः ॥
अस्फुटिताग्रं सूक्ष्मं श्मश्रु शुभं मृदु च सन्ततं स्निग्धम् । सूक्ष्मदृक् सूक्ष्मबुद्धिश्च यो नरः स सुखी भवेत् । " इति । त्रिभिर्व्याप्नोतीति । त्रिभिः पूर्वाह्णमध्याह्नापराह्णकालैः धर्मार्थकामानवाप्नोति अनुतिष्ठतीति त्रिभिर्व्याप्नोति । ब्राह्मे “धर्मार्थकामाः कालेषु त्रिषु यस्य स्वनिष्ठिताः” इति । ननु त्रिसमस्त्रिषु चोन्नतः त्रिषु स्निग्धः त्रिभिर्व्याप्त इत्युक्तं प्राक् । इह तु चतुस्समः षडुन्नतः पञ्चस्निग्धः त्रिभिर्व्याप्नोतीत्युच्यते, सत्यम्, मतभेदमाश्रित्योक्तत्वाददोषः । अन्येषामप्येवंविधानां सकलशास्त्रोक्तमहापुरुषलक्षणानाम् एकः सकलगुणारामो राम एव लक्ष्यमिति सूचनाय ॥ ५।३५।२० ॥
सङ्ग्रहानुग्रह इति । संग्रहः आर्जनम्, अनुग्रहः फलदानम् ॥ ५।३५।२१ ॥
द्वैमात्रः द्वयोर्मात्रोरपत्यं पुमान् द्वैमात्रः ॥ ५।३५।२२ ॥
अस्माभिः सुग्रीवमन्त्रिभिरित्यर्थः ॥ ५।३५।२३ ॥
मृगपतिं सुग्रीवम् । अवरोपितम् राजासनादिति शेषः ॥ ५।३५।२४,२५ ॥
वयमिति । परिचर्यास्महे परिचार्यां कृत्वा आस्महे, तिष्ठाम इत्यर्थः ॥ ५।३५।२६ ॥
पाणिनावित्यत्र इन्नन्तत्वमार्षम् ॥ ५।३५।२७४० ॥
पश्यत इति । तान्याभरणानि शोकहुताशनं प्रादीपयन्निति सम्बन्धः ॥ ५।३५।४१४३ ॥
स तवेति । अग्निपर्वतः अन्यावासपर्वतः ॥ ५।३५।४४५४ ॥
तत इति । सुग्रीववचनातुराः सुग्रीवाज्ञाभीता इत्यर्थः ॥ ५।३५।५५,५६ ॥
विप्रनष्टानां बिलनिर्गमनमार्गाद्विभ्रष्टानामित्यर्थः ॥ ५।३५।५७ ॥
कालस्य सुग्रीवकल्पितमासरूपकालस्य । कपिराजस्य कपिराजात् ॥ ५।३५।५८,५९ ॥
दृष्ट्वेत्यादिसार्धमेकं वाक्यम् । अत्र द्वितीयान्तान् दृष्ट्वा पर्यदेवयदिति सम्बन्धः ॥ ५।३५।६०,६१ ॥
स्वामिसन्देशात् मासादूर्ध्वमनागतानां वध एवेति सुग्रीववचनात् । मुमूर्षतां सताम् ॥ ५।३५।६२७६ ॥
दिष्ट्या ऽहमिति । तवाभिगमशंसनात् तव समीपप्राप्तिशंसनात् । तवाधिगमशंसनादिति पाठे तव दर्शनशंसनात् ॥ ५।३५।७७७९ ॥
ऽबुद्ध्यस्व पवनात्मजम्ऽ इति पवनात्मजत्वं तव प्रतिपादितम्, वानरस्य तव पवनात्मजत्वं कथमित्याकाङ्क्षायामाह माल्यवानित्यादिना । गच्छति अगच्छत् ॥ ५।३५।८० ॥
दिष्टः आदिष्टः नियुक्तः । शम्बसादन इति कश्चनासुरः । उद्धरत् उदहत्, अवधीदित्यर्थः ॥ ५।३५।८१ ॥
हरिणः हरेः । नकारान्तत्वमार्षम्, केसरिण इत्यर्थः ॥ ५।३५।८२ ॥
नयिता नेता ॥ ५।३५।८३ ॥
अवगच्छति अवागच्छत् ॥ ५।३५।८४८६ ॥
मन्यते अमन्यत ॥ ५।३५।८७,८८ ॥
देवीनियुक्तार्थकरणे स्वस्य शक्तिरस्तीति ज्ञापयितुं स्वमाहात्म्यमाह हते ऽसुर इति ॥ ५।३५।८९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ५।३५ ॥