तस्या इति । दुःखाद्दुःखाभिभूतायाः सन्ततदुःखाभिभूताया इत्यर्थः ॥ ५।३४।१ ॥
तवागतः, समीपमिति शेषः ॥ ५।३४।२ ॥
ब्राह्ममस्त्रं यो वेद, अनेन सर्वास्त्रपारगत्वमुक्तम् । तदस्त्रस्वामिनः ब्रह्मणस्सर्वजगत्समष्टित्ववत् तदस्त्रस्यापि सर्वास्त्रसमष्टित्वात् । वेदांश्चेत्यनेन सर्वकर्ममार्गपारगत्वम्, वेदविदां वर इत्यनेन ज्ञानमार्गपारगत्वमुक्तम् ॥ ५।३४।३,४ ॥
प्रीतिसंहृष्टसर्वाङ्गी पुलकितसर्वगात्री ॥ ५।३४।५ ॥
जीवितहारिदुःखबाहुल्येपि रामदर्शनप्रत्याशया कृच्छ्रेण जीवन्त्या देव्या जीवनफलस्य लब्धत्वात्तत्संवादिनीं गाथां स्तैति कल्याणीति । जीवन्तं नरं वर्षशतादपि वर्षशतमध्ये वा आनन्द एतीति इयं लौकिकी गाथा जनवार्ता मा मां प्रति कल्याणी सत्यार्था प्रतिभाति । बतेति हर्षे ॥ ५।३४।६ ॥
समागते तस्मिन् हनुमति तया कल्याणी बतेत्यादि वदन्त्या देव्या अद्भुता प्रीतिरुत्पादितेति सम्बन्धः ॥ ५।३४।७ ॥
तस्या इति । समीपमुपचक्रमे, गन्तुमिति शेषः ॥ ५।३४।८,९ ॥
रामकुशलकथनेन सञ्जातविश्वासापि रावणमायाबाहुल्यं स्मृत्वा पुनरविश्वसन्त्याह अहो इति । मे अस्य पुरतः यत्कथितं कथनं तद्दुष्कृतम् अनुचितं कृतम् इदमनालोच्य कथनं धिक् । अहो इति खेदे । खेदे हेतुमाह रूपान्तरमिति । यः पूर्वं मायया मामुपाहरत्, स एवायं रावणः रूपान्तरमुपागम्य, वर्तत इति शेषः ॥ ५।३४।१० ॥
तामिति । अशोकस्य अशोकवनस्थशिंशुपावृक्षास्येत्यर्थः ॥ ५।३४।११ ॥
तां धरण्युपविष्टाम् । अवन्दत नमस्कृतवान् । एनं दृष्ट्वा भयसन्त्रस्ता भूयः पुनरेनं नापश्यत् ॥ ५।३४।१२१६ ॥
एवं रावणदौरात्म्याद्धनुमन्तं रावणमाशङ्क्य तद्दर्शनजनितमनःप्रसादमालोच्य तां शङ्कां निराचष्टे अथवेति । मया यत्परिशङ्कितम् एतन्नैवं हि नैवमेव । कुतः ? मनस इति ॥ ५।३४।१७१९ ॥
इह रामदूतागमनमत्यन्तासम्भावितमिति मत्वा पुनर्बहुधा शङ्कते अहो इत्यादिना ॥ ५।३४।२०२२ ॥
एवं यथार्थस्वप्नपक्षौ निरस्य पुनश्चतुरो विभ्रमपक्षानुत्प्रेक्षते किं न्वित्यादि । चित्तमोहः निरन्तररामध्यानजनिततत्प्रेषितदूतदर्शनसम्भाषणादिविषयो भ्रमः । वातगतिः उपवासादिप्रयुक्तधातुक्षोभजातविकाररूपो भ्रम इत्यर्थः । उन्मादजो विकारः, उन्मादो नाम विरहिणां कश्चिदवस्थाविशेषः । मृगतृष्णिका सर्वशरीरिसाधारणो देशकालविशेषजन्यश्चाक्षुषो भ्रम इत्यर्थः ॥ ५।३४।२३ ॥
बाधाराहित्येन भ्रमचतुष्टयपक्षं निराचष्टे अथवेति । अयं वानरतद्भाषणादि प्रतिभासः उन्मादो न भवति । मोहो ऽप्युन्मादलक्षणः उन्मादस्य लक्षणमिव लक्षणं यस्य मोहस्य स तथोक्तः, अत उन्मादनिराकरणेनैव मोहो ऽपि निराकृतः । उन्मादमोहयोर्निराकरणेन चित्तमोहमृगतृष्णिकयोर्निराकरणं कृतमिति द्रष्टव्यम् । सर्वे ऽपि पक्षाः उन्मादप्राया एव, भ्रमत्वाविशेषादिति भावः । कुतः ? अत आह सम्बुद्ध्य इति । यतः अहमात्मानम् इमं वनौकसं चापि सम्बुद्ध्ये जानामि, निर्बाधं जानामीत्यर्थः ॥ ५।३४।२४ ॥
बलाबलम् बलं रक्षसां कामरूपधारणं बलम्, अबलं रामदूतस्यापि वानरस्यात्रागमनासामर्थ्यमबलं सम्प्रधार्येत्यर्थः ॥ ५।३४।२५२९ ॥
स्थानक्रोधः स्थाने क्रोधनीये विषये क्रोधो यस्य सः ॥ ५।३४।३० ॥
यस्य बाहुच्छायामवष्टब्धः आश्रितो लोकः तं राघवं मृगरूपेण आश्रमादपकृष्य शून्ये येन रावणेनापनीता ऽसि तस्य यत्फलं मरणरूपं तत् द्रक्ष्यसीति योजना ॥ ५।३४।३९,४० ॥
नाहमस्मि तथेति नाहं मायावी, वानरो ऽस्मीत्यर्थः ॥ ५।३४।४१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपीकाख्यायां सुन्दरकाण्डव्याख्यायां चतुस्त्रिंशः सर्गः ॥ ५।३४ ॥