स इति । कृपणः दीनः, सीतादैन्यात् स्वयं कृपण इत्यर्थः । अत्र राक्षसीनां निद्राजाड्यात्, त्रिजटास्वप्नश्रवणजन्यभयानन्तरमात्मत्राणाय सीतैकशरणत्वेनोपेक्षणाच्च सीताहनुमतोरयमप्रत्यूहस्सँल्लाप इत्यनुसन्धेयम् । अस्यार्थस्य अष्टपञ्चाशसर्गे ऽङ्गदाग्रे हनुमतैव ऽततस्तास्सहितास्सर्वाःऽ इत्यादिना वक्ष्यमाणत्वादिति ॥ ५।३३।१,२ ॥
अथ लिङ्गैरेव सीतेति निश्चित्यापि तयैव वाचयितुमजानन्निव पृच्छति कान्विति । इयं त्वं का ऽसि ॥ ५।३३।३,४ ॥
सुराणां यक्षाणां किन्नराणां का त्वं भवसि, कस्य सम्बन्धिनी भवसीत्यर्थः ॥ ५।३३।५७ ॥
का त्वं भवसि कल्याणि त्वमनिन्दितलोचने । हे कल्याणि त्वं का ? अनिन्दितलोचने त्वं का भवसीति वाक्यभेदेन युष्मच्छब्दप्रयोगः तज्जिज्ञामातिशयद्योतनार्थः । वसिष्ठं कोपयित्वेत्यत्र पतिता विबुधालयादित्यनुषङ्गः ॥ ५।३३।८,९ ॥
को न्विति । अमुं लोकं परलोकं गतं त्वम् अनुशोचसि किम् ? यं कञ्चन बन्धुमिति शेषः ॥ ५।३३।१०,११ ॥
व्यञ्जनानि संस्थानविशेषविशिष्टतया उत्तमस्त्रीत्वव्यञ्जकानि स्तनजघनादीनि लक्षणानि भाग्यावेदनशुभरेखादीनि ॥ ५।३३।१२,१३ ॥
यथेति । यथा यादृशम् ॥ ५।३३।१४ ॥
दुमाश्रितं द्रुममूलाश्रितम् ऽ सो ऽवतीर्य द्रुमात्ऽ इति पूर्वोक्तत्वात् ॥ ५।३३।१५,१६ ॥
सीता च नामेति नामशब्दः प्रसिद्धौ ॥ ५।३३।१७ ॥
समा द्वादशेत्यत्र न्यवसमिति शेषः ॥ ५।३३।१८२० ॥
मम भोजनमित्यत्र प्रथमार्थे षष्ठी ॥ ५।३३।२१ ॥
वाक्यं त्वदुक्तं सर्वं करिष्यामीति शपथपूर्वकमुक्तमित्यर्थः ॥ ५।३३।२२२६ ॥
स इति । उत्तरीयाणि वासांसीत्यर्थः ॥ ५।३३।२७२९ ॥
ते वयमिति । पुरा अदृष्टमिति छेदः ॥ ५।३३।३०,३१ ॥
जीवितानुग्रहः जीविताभ्यनुज्ञा । त्यक्ष्यामि जीवितं रावणेत्यादिकं सतीति भावः ॥ ५।३३।३२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ५।३३ ॥