०३२ हनुमन्तं वीक्ष्य सीतायाः भयम्

तत इति । चलितमानसा, अभूदिति शेषः । वेष्टितार्जुनवस्त्रं संवेष्टितधवलवस्त्रस्वरूपम् । यद्वा वेष्टितम् अर्जुनं धवलं वस्त्रं यस्य सः वेष्टितार्जुनवस्त्रः तम् ॥ ५।३२।१ ॥

ददर्श विशेषतो ददर्शेत्यर्थः ॥ ५।३२।२६ ॥

वीक्षमाणा इदं वाक्यं राक्षस्यः श्रुतवत्यः किमिति शङ्कया परितो वीक्षमाणेत्यर्थः । शाखामृगेन्द्रस्य सुग्रीवस्य यथोक्तकारम् आज्ञाकारम् ॥ ५।३२।७९ ॥

इन्दुपूर्णप्रतिमाननेन पूर्णेन्दुप्रतिमाननेन ॥ ५।३२।१० ॥

रामेति रामेति सदैव बुद्ध्या विचिन्त्य तमेव राममेव वाचा ब्रुवती तस्यानुरूपां चिन्तनस्य अभिवदनस्य च अनुरूपां कथां तथा श्रृणोमि तमर्थं कथार्थम् एवं प्रपश्यामि एतदुक्तप्रकारेणैव जानामीति योजना ॥ ५।३२।११,१२ ॥

उक्तमर्थं विवृणोति मनोरथः स्यादिति । बुद्ध्या चिन्तयामि तथा वितर्कयामि मनोरथो न भवतीति विचारयामि । किं कारणमिति चेत् तस्य मनोरथस्य रूपं रूप्यते प्राप्यते ऽनेनेति रूपं प्रापकं नास्ति हि । कुतः ? अयं वानरः सुव्यक्तरूपश्च मां वदति च, तस्मान्मनोरथो न भवत्येवेत्यर्थः ॥ ५।३२।१३,१४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ ५।३२ ॥