०३१ हनुमता रामकथावर्णनम्

एवमिति । चिन्तां चिन्तयित्वा, कर्तव्यमर्थं निश्चित्येत्यर्थः । संश्रवे संश्रवणे मधुरम् । वैदेह्याः वैदेहीनिमित्तम् । यद्वा सम्यक् श्रूयते अस्मिन्निति संश्रवः तस्मिन् समीपदेशे, यत्रोक्तं सीतैव श्रृणुयान्नान्येत्यर्थः ॥ ५।३१।१४ ॥

पार्थिवेति । पार्थिवव्यञ्जनैः पार्थिवलक्षणैः ॥ ५।३१।५७ ॥

तस्येति । सत्याभिसन्धस्य सत्यसङ्कल्पस्य ॥ ५।३१।८,९ ॥

मृगरूपेण प्रशस्तमृगरूपेण ॥ ५।३१।१०१४ ॥

यथेति । यथारूपां यादृग्रूपाम् । यथावर्णां यादृशवर्णाम् । यथालक्ष्मीं यादृशलक्ष्मीकाम् । राघवस्य राघवात् । अश्रौषं विनिश्चितं नूनम् सेयमासादितेत्यर्थः ॥ ५।३१।१५१९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ ५।३१ ॥