०३० हनुमत्संभ्रमः

हनुमानिति । विश्रान्तः विगतव्यापारः । सीतायास्त्रिजटायाश्च सर्वं, वृत्तान्तमिति शेषः ॥ ५।३०।१ ॥

चिन्तां चिन्तयामास चिन्तां चकारेत्यर्थः ॥ ५।३०।२,३ ॥

चारेणेति । इदं वक्ष्यमाणम् ॥ ५।३०।४ ॥

राक्षसानां विशेषस्तारतम्यमैश्वर्यादिकृतम् । अस्य रावणस्य प्रभावश्चावेक्षितः ॥ ५।३०।५ ॥

युक्तं न्याय्यम् ॥ ५।३०।६ ॥

आश्वासयामि आश्वासयिष्यामि ॥ ५।३०।७ ॥

दोषवत् कार्यहानिदोषवत् ॥ ५।३०।८,९ ॥

समाश्वासयितुं न्याय्यः, सीतासन्देशकथनेनेति शेषः ॥ ५।३०।१० ॥

सीतासमाश्वासनं च कष्टमित्याह निशाचरीणामिति । तासां प्रत्यक्षं सीतया अभिभाषणमयुक्तम् अयोग्यम्, अत इदं कार्यं कथं कर्तव्यमित्येवं कृच्छ्रगतो ऽहमस्मि ॥ ५।३०।११ ॥

कालविलम्बश्च आश्वासनस्यायुक्त इत्याह अनेनेति ॥ ५।३०।१२ ॥

सीतामब्रवीदित्यत्रेतिकरणं द्रष्टव्यम् ॥ ५।३०।१३,१४ ॥

यदि चेति । भर्तारं सुग्रीवमुद्योजयिष्यामि उद्योगं करिष्यामि । तस्य सुग्रीवस्यागमनं व्यर्थम्, तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ॥ ५।३०।१५ ॥

अन्तरमवकाशम् । तासामनवधानसमयमित्यर्थः ॥ ५।३०।१६ ॥

अतितनुः सूक्ष्मः । संस्कृतां गीर्वाणाम् ॥ ५।३०।१७ ॥

संस्कृतभाषया व्यवहारे दोषमाशङ्क्य मानुषभाषयैव व्यवहर्तव्यमिति निश्चिनोति यदि वाचमित्यादिश्लोकद्वयेन ॥ ५।३०।१८,१९ ॥

मानुषभाषया संभाषणे ऽपि दोषो ऽस्तीति विचारयति सेयमिति । रूपं वानररूपम्, भाषितं मनुष्यरूपेण भाषितं च ॥ ५।३०।२० ॥

जानमाना मन्वाना । शब्दम् आर्तरवं कुर्यात् ॥ ५।३०।२१२३ ॥

प्रशाखा उपशाखाः ॥ ५।३०।२४२६ ॥

उद्विग्नकारिणः उद्वेगकारिणः ॥ ५।३०।२७,२८ ॥

मामिति । मां वा गृह्णीयुः मम ग्रहणं भवेद्यदि इयं च सीता अगृहीतार्था स्यात् अविदितरामवृत्तान्ता स्यादिति सम्बन्धः ॥ ५।३०।२९,३० ॥

उद्देशे प्रदेशे । नष्टमार्गे अदृष्टमार्गे ॥ ५।३०।३१ ॥

कार्यसाधने सीतादर्शननिवेदनरूपकार्यकरणे ॥ ५।३०।३२,३३ ॥

पारं प्राप्तुं न शक्ष्यामि, युद्धश्रान्तत्वादिति भावः ॥ ५।३०।३४ ॥

असत्यनीति । अनिश्चितजयापजयानीत्यर्थः । संशयः संशयितो ऽर्थः । संशयरूपकार्यकारी मूढ इत्याशयेनाह क इति । कः प्राज्ञः ससंशयं कार्यं निस्संशयः निर्विकारस्सन् कुर्यात् ? ॥ ५।३०।३५ ॥

प्राणेति । एष दोषः पूर्वोक्तजयापजययोः संशयरूपदोषः । अनभिभाषणे रामसन्देशानिवेदने ॥ ५।३०।३६ ॥

भूताश्चार्थाः निष्पन्ना अप्यर्थाः । विक्लवम् अविवेकिनम् दूतमासाद्य देशकालविरोधितास्सन्तः विनश्यन्ते नश्यन्ति, अयुक्तदेशायुक्तकालप्रयुक्तत्वादिति भावः ॥ ५।३०।३७ ॥

अर्थानर्थान्तरे कार्याकार्याविषये निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः । तत्र विक्लवं दूतमासाद्येत्यनुषज्यते, न शोभते अकिञ्चित्करा भवतीत्यर्थः । एतदेवोपपादयति हीति ॥ ५।३०।३८ ॥

प्रागुक्ता दूतदोषाः स्वस्मिन् यथा न स्युः तथा कर्तव्यमित्याह नेति । कार्यं स्वामिकार्यम् । वैक्लव्यं बुद्धिहीनता मम कथं न भवेत्, समुद्रस्य लङ्घनं कथं नु वृथा न भवेत्, तथा कर्तव्यमिति शेषः ॥ ५।३०।३९ ॥

कथमिति । श्रृणुयात्, सीतेति शेषः । मतिं चकार सीतासम्भाषणोपायं निश्चितावानित्यर्थः ॥ ५।३०।४० ॥

तदेवाह राममिति । स्वबन्धुं स्वस्या देव्याः बन्धुम् । अनुकीर्तयन् । हेतौ शतृप्रत्ययः । अनुकीर्तनाद्धेतोः । नैनामुद्वेजयिष्यामि मद्रूपदर्शनमन्तरेण रामसङ्कीर्तनेनैव अनुद्विग्नां करिष्यामीत्यर्थः । स चासौ बन्धुश्च तद्बन्धुः रामः तं गतं मानसं यस्यास्सा ताम् ॥ ५।३०।४१४३ ॥

जगतिपतेः । दीर्घाभाव आर्षः । जगाद मनसा ॥ ५।३०।४४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रिंशः सर्गः ॥ ५।३० ॥