तथेति । उपजीविनः सेवकाः त इव ॥ ५।२९।१ ॥
अरालानां वक्राणां पक्ष्मणाम् अक्षिरोम्णाम् राज्या पङ्क्त्या बृतम् । " पक्ष्माक्षिलोम्नि किञ्जल्के" इत्यमरः । कृष्णविशालशुक्लं मध्ये कृष्णं सर्वतो विशालं शुक्लं च अभितस्ताम्रम् अभिताम्रम्, प्रान्तरक्तमित्यर्थः ॥ ५।२९।२,३ ॥
द्वयोर्मध्ये ऊरुः वाम इत्यनुषज्यते ॥ ५।२९।४ ॥
शिखराग्रदत्याः शिखराकाराग्रदन्तायाः । वासः परिस्रंसत पर्यस्रंसत ॥ ५।२९।५ ॥
साधुसिद्धैः सम्यक् सम्बन्धिभिः । संवादिभिरिति पाठान्तरम् ॥ ५।२९।६ ॥
सितशुक्लदंष्ट्रम् पङ्क्तिबद्धधवलदन्तमित्यर्थः ॥ ५।२९।७ ॥
व्यपनीततन्द्री निरस्तजाड्या । हर्षविवृद्धसत्त्वा हर्षेण विकसितचित्ता सा सीता वदनेन कर्त्रा अशोभत । शुक्ले शुक्लपक्षे ॥ ५।२९।८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां एकोनत्रिंशः सर्गः ॥ ५।२९ ॥