॥ १ ॥
विसृष्टा बाला कन्येव महादुर्भिक्षक्षोभवशात् बालकन्यायाः परित्यागः ॥ ५।२८।२ ॥
यत्र यतः ॥ ५।२८।३,४ ॥
आत्महनने दोषः स्यादित्यत आह नैवेति । अत्र आत्महनने । दोषं दोषः नास्ति । कुतः ? वध्या ऽहमिति । आत्महननाभावेपि मम रावणकर्तृकदुर्मरणस्य दुर्वारत्वात् दोषाभावोक्तिरिति भावः । ननु दुर्मरणाभावाय रावणानुकूलत्वं प्राप्यतामत आह भावमिति । भावं चित्तम् । मन्त्रं वेदम् । अद्विजाय शूद्राय ॥ ५।२८।५ ॥
स्त्रीणां व्यभिचारान्मरणमेव वरम्, कुलाकीर्तिकरजनापवादादीनामभावादिति भावः । तथाप्यात्मघातदोषस्यातिदोषत्वात्साहसमयुक्तमित्याशङ्क्य सत्यम्, विचित्रवधाद्बिभेमीत्याशयेनाह नूनमिति । लोकनाथे रामे अनागच्चति सति, मासद्वयादर्वागिति शेषः । गर्भस्थजन्तोः, मृतस्येति शेषः । अङ्गानि शल्यकृन्तः नापित इव राक्षसेन्द्रः मम जीवन्त्या एवाङ्गानि छेत्स्यतीति सम्बन्धः ॥ ५।२८।६ ॥
दुःखमिति । चिराय दुःखिताया मम इदमेव दुःखम्, यौ द्वौ मासाववधिभूतौ तावागमिष्यतः । राजापराधाद्बद्धस्य । निशान्ते प्रातःकाले वध्यस्य तस्करस्य यथा यादृक् दुःखं तादृङ्ममागतमित्यर्थः ॥ ५।२८।७ ॥
मूढवाता मूढो वात्यारूपो वातो यस्यास्सा तथा ॥ ५।२८।८ ॥
तरस्विनाविति । मृगस्य मायामृगस्य रूपं धारयता सत्त्वेन जन्तुना । वैद्युतेन विद्युदग्निना ॥ ५।२८।९ ॥
मृगरूपधारी कालः कर्ता लुलुभे लोभयामास । यत्र यस्मिन् काले । विससर्ज व्यसृजम् ॥ ५।२८।१०,११ ॥
अनन्यदेवत्वं पत्येकदेवतात्वम् । कृतमुपकृतम् ॥ ५।२८।१२१७ ॥
शोकाभितप्तेत्यादि सार्धश्लोकमेकं वाक्यम् । शोकाभितप्ता सीता बहुधा विचिन्त्या वेण्युग्रथनं वेणीं गृहीत्वा वेण्युद्ग्रथनेन उद्ग्रथ्य उद्बन्धनं कृत्वा यमस्य मूलं गमिष्यामीति नगस्य शाखां गृहीत्वा उपस्थिता अवस्थितेति सम्बन्धः ॥ ५।२८।१८,१९ ॥
तस्या इति सार्धश्लोकमेकं वाक्यम् । शोकानिमित्तानि शुभसूचकानीत्यर्थः । धैर्यार्जितानि धैर्यसम्पादकानीत्यर्थः । पुरापि सिद्धान्युपलक्षितानि पूर्वमपि लब्धसंवादत्वेन दृष्टानि ॥ ५।२८।२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां अष्टाविंशः सर्गः ॥ ५।२८ ॥