०२७ त्रिजटास्वप्नः

इत्युक्ता इति । तत् मरणाध्यवसायम् ॥ ५।२७।१ ॥

एकार्थम् एकाभिधेयम् । अनर्थम् अनर्थफलकम् ॥ ५।२७।२ ॥

अद्येदानीम् । अद्य अस्मिन् दिने । इदानीमस्मिन् क्षणे । अद्येत्यस्य वास्तवार्थस्तु हे सीते । पापनिश्चये अनार्ये अपराधे सति राक्षस्यस्तव मांसं भक्षयिष्यन्तीति काश्चन राक्षस्यः परुषमब्रुवन्निति पूर्वेण सम्बन्धः ॥ ५।२७।३५ ॥

स्वप्न इति । राक्षसानामभावाय विनाशाय । भवाय अभ्युदयाय ॥ ५।२७।६ ॥

पूर्वं क्रोधमूर्च्छिताः पश्चात्त्रिजटावचनाद्भीता इत्यर्थः । काले प्रातःकाले । स्वप्नसंश्रितं प्रातःकालदृष्टस्वप्नदृष्टार्थविषयकम्, अनेन स्वप्नस्य शीघ्रफलदत्वं सूचितम् ॥ ५।२७।१११३ ॥

तत इति । जानकीं पर्युपस्थितौ जानकीसमीपस्थितौ । तस्य इति गायत्र्यास्त्रयोदशाक्षरं ततस्तस्येत्यस्य श्लोकस्य चतुर्थाक्षरेण स्य इत्यनेन सङ्गृह्णाति । तस्य नगस्य पूर्वोक्तस्य श्वेतपर्वतस्येत्यर्थः । भर्त्रा परिगृहीतस्य रामेणाधिष्ठितस्य ॥ ५।२७।१४ ॥

भर्तुरङ्कादिति । पर्वताग्रे गजस्कन्धे भर्तुरङ्के स्थित्वा तस्मात्समुत्पत्य । कायमूर्ध्वमायम्येत्यर्थः ॥ ५।२७।१५,१६ ॥

पाण्डुरर्षभेत्यादि सार्धश्लोकत्रयमेकं वाक्यम् । तस्मिन् गजे लङ्कोपरिस्थिते रामः सीतालक्ष्मणाभ्यां सह पाण्डुरवृषभाष्टयुक्तेन रथेनेहागत्य पुष्पकारूढस्ताभ्यां सहोत्तरां दिशं प्रस्थितो दृष्ट इति सम्बन्धः । इह शैलारोहणादीनां शुभावेदकत्वम् “आरोहणं गोवृषकुञ्जराणाम्” इत्यादिशास्त्रादवगन्तव्यम् ॥ ५।२७।१७२१ ॥

रावणश्चेति । करवीरकृतस्रज इत्येतद्रथविशेषणम् ॥ ५।२७।२२२६ ॥

मलानि पङ्कानि यस्मिन् तत् तिमिरम् ॥ ५।२७।२७३२ ॥

वैहायसं खेचरत्वम् ॥ ५।२७।३३३६ ॥

भस्मरूक्षायां भस्मना रूक्षायाम् ॥ ५।२७।३७३९ ॥

भर्त्सितां युष्मत्कृतभर्त्सनादिमतीम् । नानुमंस्यति नानुमंस्यते न क्षमिष्यते, अतस्तत्कर्त्रीर्वो घातयेदिति भावः ॥ ५।२७।४० ॥

तदलमिति । अभियाचाम, अभयमिति शेषः ॥ ५।२७।४१,४२ ॥

भर्त्सितामिति । याचध्वम्, अभयमिति शेषः । अभययाचनकारणमाह राघवादिति ॥ ५।२७।४३,४४ ॥

न केवलं स्वप्नदर्शनमेवास्याः शुभावेदकम् किन्तु प्रत्यक्षदर्शनमपि ब्रह्वस्तीत्यासर्गसमाप्तेराह अपिचेत्यादिना । अङ्गेषु विरूपं लक्षणं नोपलक्षय इति सम्बन्धः ॥ ५।२७।४५ ॥

छायावैगुण्यं कान्तिवैकल्यम्, वैवर्ण्यमिति यावत् । तावन्मात्रमुपलक्षय इत्यनुकृष्यते, एतावतैव अदुःखार्हां दुःखानर्हाम् प्रत्युत वैहायसमुपस्थितां दिव्यभोगार्हाम् इमाम् इदं दुःखमुपस्थितं प्राप्तमिति शङ्के, मन्य इत्यर्थः । अर्थसिद्धिं प्रयोजनसिद्धिम् । कुत इत्यत आह राक्षसेन्द्रेति । राक्षसेन्द्रविनाशराघवविजयरूपम् ॥ ५।२७।४६,४७ ॥

महत्प्रियं श्रोतुम् एतत्स्वप्नदर्शनम् अस्या निमित्तभूतमिति सम्बन्धः ॥ ५।२७।४८ ॥

हृषितो वा हृषित इव ॥ ५।२७।४९,५० ॥

पक्षीति । पक्षी शाखानिलयं शाखास्थनीडं प्रविष्टः । उत्तमसान्त्त्ववादी उत्तमशान्तस्वरवादी । सुस्वागतां सुष्टु शोभनमागतमित्येवंरूपां वाचमुदीरयानः उच्चरन् पुनः पुनश्चोदयतीव, शोभनमागतं प्रत्युद्गच्छेति सीतां पुनः पुनः प्रेरयतीवेत्यर्थः ॥ ५।२७।५१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ ५।२७ ॥