०२६ सीतायाः प्राणत्यागनिश्चयः

प्रसक्ताश्रुमुखी प्रसक्तानि प्रवृत्तानि अश्रूणि मुखे यस्यास्सा । एवं ब्रुवन्ती वक्ष्यमाणरीत्या ब्रुवन्ती । विलप्तुं विलपितुम् ॥ ५।२६।१ ॥

उन्मत्तेव भूताविष्टेव । प्रमत्तेव मदकरद्रव्यसेवनात् प्रकर्षेण मत्तेव । भ्रान्तचित्तेव व्यामूढचित्तेव । उपावृत्ता किशोरीव श्रमापनोदनार्थं वेष्टिता बडवेव ॥ ५।२६।२ ॥

प्रमत्तस्य अनवहितस्य ॥ ५।२६।३,४ ॥

अर्थैः धनैः ॥ ५।२६।५,६ ॥

असतीम् असतीवत्परगृहस्थाम् ॥ ५।२६।७१० ॥

प्रत्याख्यातं निराकरणम् ॥ ५।२६।११ ॥

छिन्ना लूना । भिन्ना विदारिता । विभक्ता शीर्णा ॥ ५।२६।१२ ॥

प्राज्ञत्वादिगुणो रामः मद्भाग्यसंक्षयान्निरनुक्रोश इति शङ्क इति सम्बन्धः ॥ ५।२६।१३१८ ॥

इहस्थामिति । मर्षयिष्यतीत्यत्र काकुरनुसन्धेया । तथा च न सहिष्यतीत्यर्थः ॥ ५।२६।१९,२० ॥

मां तथा ऽभ्यवपद्यता मन्मोचनार्थमागतेन । रावणद्वन्द्वे रावणयुद्धे ॥ ५।२६।२१२३ ॥

यथा ऽहमेवं रुदत्यस्मि तथा तासां गृहे गृहे रुदन्त्यो राक्षस्यो भूयो भूयिष्ठं भविष्यन्तीत्यर्थः ॥ ५।२६।२४ ॥

ननु ज्ञाने खल्विदं सम्भाव्येन, ज्ञानमेव दुर्लभम्, तत्राह अन्विष्येति । अचिन्त्यसामर्थ्यत्वाद्दैवानुग्रहाच्च लङ्कामप्यन्विष्य मां ज्ञात्वा रक्षसां कुर्यात्, विनाशनमिति शेषः । विनाशस्येषत्करत्वमाह नहीति ॥ ५।२६।२५,२६ ॥

अचिरेणेति । कुतः दुष्प्रस्थानः दुर्मार्गवर्तनं कर्तृ विपर्ययमाख्याति ॥ ५।२६।२७ ॥

यादृशानीति । यादृशानि दृश्यन्ते तैरेव हतप्रभा भविष्यतीति ज्ञायत इत्यर्थः ॥ ५।२६।२८ ॥

शोषम्, ऐश्वर्यादेरिति शेषः ॥ ५।२६।२९,३० ॥

ध्वनिं रोदनशब्दम् । दुःखार्तानामिवेति च पाठः ॥ ५।२६।३१,३२ ॥

यदीति । सः रामः मां रावणस्य निवेशने वर्तमानां जानीयाद्यदि तर्हि लङ्का रामसायकैर्विदग्धा भविष्यतीति पूर्वेण सम्बन्धः ॥ ५।२६।३३ ॥

तर्हि जितं त्वयेत्याशङ्क्य सत्यम्, किन्तु ततः प्रागेव मामयं मारयिष्यतीत्याह अनेनेत्यादिश्लोकत्रयेण । समयः “मासान् द्वादश भामिनि” इत्युक्तसमयः ॥ ५।२६।३४ ॥

ननु, विभीषिकामात्रमेतत् कथमकार्यं करिष्यतीत्यत आह अकार्यमिति । ये पापकारिणो नैर्ऋताः अधर्माद्धेतोरकार्यं न जानन्ति, तैर्महोत्पातः मद्वधरूपमहाननर्थः साम्प्रतं भविष्यति हि ॥ ५।२६।३५ ॥

तदेव विवृणोति नैत इति ॥ ५।२६।३६३८ ॥

तदेवं महावीरस्य मय्यनुरक्तस्य रामस्य ममानन्वेषणे कारणं मज्जीवनापरिज्ञानं वा स्वविपत्तिर्वातात्त्विकवैराग्यं वा प्रवासदोषान्मयि प्रेमनाशो वा मामकगुणहीनता वा मद्भाग्यविपर्ययो वेति षट्कारणान्युत्प्रेक्षते नाजानादित्यादिश्लोकषट्केन ॥ ५।२६।३९४१ ॥

अथवा नहीत्यादि सार्धश्लोकमेकं वाक्यम् । धर्मकामस्य न तु कामपरस्य । परमात्मनः आत्मारामस्येत्यर्थः ॥ ५।२६।४२ ॥

अथ रामगुणाभिज्ञतया प्रेमनाशपक्षस्तत्रासम्भावित इति स्वयमेवाह दृश्यमान इति । केषाञ्चिद् दृश्यमाने, वस्तुनीति शेषः । सौहृदं यथा भवति तथा प्रीतिर्भवेत् । अपश्यतः अदृश्यमाने सति प्रीतिर्न भवेत् । कुतः ? कृतघ्नाः नाशयन्ति, प्रीतिमिति शेषः । रामस्तु न नाशयतीति सम्बन्धः । यद्वा सौहृदं स्नेहम् अपश्यतः पुंसः दृश्यमाने ऽपि, सुहृदीति शेषः । प्रीतिर्न भवेत् किमुत अदृश्यमाने, कुतः ? कृतघ्नाः नाशयन्ति सौहृदमित्यनुकर्षः । कृतज्ञो रामस्तु न नाशयतीति सम्बन्धः ॥ ५।२६।४३।४४ ॥

अथास्यामवस्थायां स्वकर्तव्यमाह श्रेय इति । मर्तुं श्रेयः, मरणमेव श्रेय इत्यर्थः ॥ ५।२६।४५४८ ॥

प्रियाप्रिये इष्टानिष्टे ॥ ५।२६।४९ ॥

प्रियादभिमताद्वस्तुनः दुःखं न सम्भवेत् किन्तु सुखं भवेत् । अप्रियादनभिमताद्वस्तुनः । अधिकं भयं भवेत् ताभ्यां प्रियाप्रियरूपविषयजन्यसुखभयाभ्यामित्यर्थः ॥ ५।२६।५०,५१ ॥

इति श्रीहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षड्विंशः सर्गः ॥ ५।२६ ॥