तथा तासामिति ॥ ५।२५।१ ॥
मनस्विनी पातिव्रत्ये दृढमनाः ॥ ५।२५।२ ॥
कामं यथेच्छम् । सीताविलापस्य वास्तवार्थस्तु श्रीरामवियोगेन घोरराक्षसपुरावस्थानेन विरूपराक्षसीसमागमेन च विविधप्रलापादिकमिति ज्ञेयम् । अस्मिन् काण्डे यत्र यत्र सीताप्रलापः तत्र तत्र एवमेवोहनीयः ॥ ५।२५।३,४ ॥
कोकैः वृकैः ॥ ५।२५।५ ॥
अशोकस्य विपुलां शाखामालम्ब्य हनुमदधिष्टितशिंशुपामूलं प्राप्तायास्सीताया अशोकशाखालम्बनाभिधानात् अशोकशाखाः शिंशुपाशाखाश्च सम्मिलिता वर्तन्त इत्यवगम्यते ॥ ५।२५।६,७ ॥
राक्षसीनां राक्षसीभ्यः ॥ ५।२५।८ ॥
वेपन्त्या सीतयेत्यत्र षष्ठ्यर्थे तृतीया । परिसर्पती परिसर्पन्ती ॥ ५।२५।९,१० ॥
हा सुमित्रेत्यत्र एकाराभाव आर्षः ॥ ५।२५।११ ॥
लोकप्रवाद इत्यादिश्लोकद्वयमेकं वाक्यम् । दुर्लभ इत्यत्र इतिकरणं द्रष्टव्यम् । यत्र यतः ॥ ५।२५।१२,१३ ॥
पूर्णा पदार्थैः ॥ ५।२५।१४,१५ ॥
पद्मदलपत्राक्षं दलतीति दलं विकसितपद्मम्, तस्य पत्रमिवाक्षं विकसितपद्मपत्राक्षमित्यर्थः ॥ ५।२५।१६ ॥
तीक्ष्णं विषं वत्सनाभादिकमास्वाद्य स्थितस्येव मम मे जीवितं दुर्ल्लभम् ॥ ५।२५।१७,१८ ॥
रक्ष्यन्त्या रक्ष्यमाणयेत्यर्थः ॥ ५।२५।१९ ॥
छन्देन इच्छया ॥ ५।२५।२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ ५।२५ ॥