॥ १,२ ॥
मानुषीति । प्रत्याहार निवर्तय । न त्वं जातु, भविष्यसि, रामस्येति शेषः । मानुषीत्वस्य वास्तवार्थस्तु मानुषीत्वं मानुषस्य मनुष्यावतारस्य रामस्य भार्यात्वमनुमन्यसे । तदुक्तम् अतः रामात् मनो न प्रत्याहर त्वं जातु भविष्यसि, रामस्येति शेषः ॥ ५।२४।३,४ ॥
मानुषीति । राज्याद्भ्रष्टं पितृवाक्यपरिपालनाय त्यक्तराज्यमित्यर्थः । असिद्धार्थम् अश्चासौ सिद्धार्थश्च असिद्धार्थः तम्, सिद्धसर्वप्रयोजनं विष्णुमित्यर्थः । विक्लवं दयालुम् ॥ ५।२४।५ ॥
राक्षसीनामिति । नेत्राभ्यामुपलक्षिता ॥ ५।२४।६ ॥
किल्बिषं किल्विषविषयम् ॥ ५।२४।७ ॥
नेति । भार्या भर्तव्या ॥ ५।२४।८ ॥
तं नित्यामित्यादि । अत्रातिदुर्दशास्वपि दृढव्रतत्वद्योतनाय नान्विधानेकसाध्वीनिदर्शनोपन्यास इत्यनुसन्धेयम् ॥ ५।२४।९१३ ॥
अवलीन इति । तर्जयन्तीरश्रृणोत् राक्षसीनां तर्जनवाक्यान्यश्रृणोदित्यर्थः ॥ ५।२४।१४,१५ ॥
ऊचुरिति नेयमर्हतीत्यूचुरिति सम्बन्धः ॥ ५।२४।१६ ॥
सा भर्त्स्यमाना, अभूदिति शेषः । सेति । सा तां हनुमदधिष्ठितां शिंशुपामुपागमदिति योजना ॥ ५।२४।१७१९ ॥
निर्णतोदरी कृशोदरी ॥ ५।२४।२० ॥
अतिकृतम् अतिमात्राचरणम् ॥ ५।२४।२१ ॥
मानुषो विधिः मनुष्यजात्युचितपातिव्रत्यप्रकटनं कृतम्, किंतु एतावता अलमित्यर्थः । वास्तवार्थस्तु परितुष्टा ऽस्मीत्यादिश्लोकत्रयं कुलकम् । अस्यार्थः हे मैथिलि मानुषं मनुष्यधर्मं भयं त्यक्त्वा । रावयतीति रावणं दशाननम्, तथापि कृपणम् भर्तारं भ्रियते शुश्रूषादिना स्वामिनमिति भर्ता भृत्यः तम् आश्रय, रावणं भृत्यत्वेन अङ्गीकुर्वित्यर्थः । विक्रन्तादिगुणयुक्तं रामं च भजेति सम्बन्धः ॥ ५।२४।२२२५ ॥
अद्येति । अग्नेः स्वाहा, इन्द्रस्य राची यथा तथा अद्यप्रभृति लोकानामीश्वरी भवेति सम्बन्धः । दिव्याङ्गरागेत्यादि श्लोकत्रयं कुलकम् । तस्य वास्तवार्थस्तु हे वैदेहि गतायुषा प्राप्तायुषा रामेण, सङ्गमो भविष्यतीति शेषः । ते तव, कृपणेन कार्पण्येनेत्यर्थः । किं ? मा ऽस्तु । अग्नेः स्वाहा इन्द्रस्य शची यथा तथा अद्यप्रभृति दिव्याङ्गरागादियुक्ता सती, सर्वेषामस्मदादीनां लोकानां चेश्वरी भव । मे मया उक्तमेतद्वाक्यं न करिष्यसि यदि तर्हि त्वामुद्दिश्य अस्मिन्मुहूर्ते सर्वा वयं भक्षयिष्यामहे, विषमिति शेषः । सुदुर्मते वस्तुतस्तु सुदुष्टेष्वपि मतिः अनुग्राहिका यस्याः सा । कालपुरस्सरं कालोचितम् नो वाक्यं न च कुरुषे, नैतत्ते हितमिति शेषः ॥ ५।२४।२६३२ ॥
तुल्यं सहेत्यर्थः । अलमश्रुनिपातेन इत्यपि पाठः ॥ ५।२४।३३ ॥
प्रीतिं स्नेहम् । प्रहर्षम् आनन्दम् । नित्यदैन्यतां निरन्तरदैन्यत्वम् । सीते इत्यस्य वास्तवार्थस्तु राक्षसराजेन, यत्किञ्चिदुक्तमिति शेषः । सह सहस्व, यथासुखं क्रीड ॥ ५।२४।३४ ॥
तत्र हेतुःजानासि हीति ॥ ५।२४।३५ ॥
उद्यानानीत्यस्य वास्तवार्थस्तु राक्षसराजेन सह एकदा, संवर्द्धितानीति शेषः । उद्यानानि च रावणं भर्तारं भृत्यत्वेन भज, अङ्गीकुर्वित्यर्थः ॥ ५।२४।३६,३७ ॥
उत्पाट्य वा उत्पाट्यैव ॥ ५।२४।३८,३९ ॥
दौर्हृदः इच्छा ॥ ५।२४।४० ॥
यकृत्प्लीहमित्यादिना दौर्हृदस्य स्वरूपं कथयति यकृत्प्लीहं महत्क्रोडमिति । यकृन्नाम हृदयस्य दक्षिणभागस्थो मांसविशेषः । प्लीहा तु हृदि वामभागस्थो मांसविशेषः । “अन्त्रं पुरीतद् गुल्मस्तु प्लीहा पुंस्यथ वस्नसा” इत्यमरः । क्रोडं भुजान्तरम्, वक्षः गोमुखाकृतिमांसयुक्तमस्थि हृदयोपरिस्थितमांसविशेषो वा । अथोत्पीडमिति पाठे उत्पीडं प्लीहोपरिस्थितं मांसम् । हृदयं च सबन्धनं नाडीबन्धनसहितं मुकुलाकारहृत्पद्माख्यं मांसविशेषम् ॥ ५।२४।४१४४ ॥
तत इति । पिण्डकान् मांसखण्डान् ॥ ५।२४।४५,४६ ॥
सुरेति । निकुम्भिला नाम लङ्कायाः पश्चिमभागवर्तिनी काचन शक्तिः ॥ ५।२४।४७ ॥
रोदिति अरिदत् । सुरसुतोपमा देवकन्योपमा । “स्त्रीसहस्राणि ते सप्त” इत्यारभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थस्तु रावणं भर्तारं भज भृत्यत्वेनाङ्गीकुर्वित्यर्थः । उत्पाट्येति । हे मैथिलि ते तुभ्यं व्याहृतं वाक्यम् रावणं भृत्यत्वेनाङ्गीकुर्विति वाक्यमित्यर्थः । यथावन्न करिष्यसि यदि मे मम हृदयमुत्पाट्य भक्षयिष्यामीति सम्बन्धः । सीतामुद्दिश्योक्तानि विकटायाः परुषवाक्यान्यसहमानानां चण्डोदरीप्रभृतीनां विविधप्रलापानाह ततश्चण्डोदरी इत्यादिना नृत्यामो ऽथ निकुम्भिलामित्यन्तेन । तत इत्यादि श्लोकत्रयमेकं वाक्यम् । रावणेन हृतामिमां सीतां दृष्ट्वा मे मम दौर्हृदः स्नेहः अस्यामभूदिति शेषः । एवं परुषं वदन्त्या विकटायाः यकृत्प्लीहादीनि खादेयमिति मे मतिरिति चण्डोदरी नाम राक्षसी वचनमब्रवीदिति सम्बन्धः । ततस्तु प्रघसेत्यादिश्लोकद्वयमेकं वाक्यम् । नृशंसायाः क्रूरायाः अस्या विकटायाः कण्ठं पीडयामः । अमानुषीति छेदः । अमानुषी विकटा नाम राक्षसी । ततस्त्वजामुखीत्यादिश्लोकद्वयमेकं वाक्यम् । इमां विकटाम् ॥ ५।२४।४८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ ५।२४ ॥