०२३ राक्षसीकृतसीताभीषणम्

अस्मिन् सर्गद्वये ऽपि विद्यमानभार्याशब्दस्य वास्तवार्थस्तु भार्या भर्तव्या, भार्यात्वं भर्तव्यात्वमित्यर्थः । शत्रून् रावयति महाशब्दं कारयति स शत्रुरावणः ॥ ५।२३।१,२ ॥

ततः परं रावणगमनानन्तरम् लोकोक्तौ वा परमिति ॥ ५।२३।३ ॥

भार्यातवं भार्याभावम् । न बहुमन्यसे, मोहादिति शेषः ॥ ५।२३।४ ॥

ततस्सर्वसाधारणैतद्वाक्यप्रयोगोत्तरम् एकजटा विशिष्याब्रवीत् । करतलोदरीम् अतुन्दिलमध्यामित्यर्थः ॥ ५।२३।५ ॥

प्रजापतीनामिति “मरीचिरत्र्यङ्गिरसौ पुलस्यः पुलहः क्रतुः” इति षट् प्रजापतयः, तेषां चतुर्थः पुलस्त्यः ॥ ५।२३।६,७ ॥

तस्य पुत्र इत्यनेन कुलीनत्वं सूचितम् ॥ ५।२३।८११ ॥

किं किमर्थम् ॥ ५।२३।१२ ॥

प्रियामिति । सर्वासां मध्ये बहुमतां प्रियां भार्यां मन्दोदरीमपि त्यक्त्वा त्वामुपैष्यतीति सम्बन्धः ॥ ५।२३।१३१७ ॥

यस्य यस्मात् । तस्य न तिष्ठसे, वश इति शेषः । तस्मै न तिष्ठस इति वा ऽर्थः ॥ ५।२३।१८२० ॥

साधु कथितं साधु गृहाण चेति सम्बन्धः ॥ ५।२३।२१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ ५।२३ ॥