सीताया इत्यस्य वास्तवार्थस्तु राक्षसाधिपः सीतायाः परुषम् अत एव विप्रियं वचनं श्रुत्वा प्रत्युवाचेति सम्बन्धः ॥ ५।२२।१ ॥
सान्त्वयिता अनुनेता । वश्यः वशंगतः ॥ ५।२२।२ ॥
सन्नियच्छति सन्निरुणद्धिः । द्रवतः धावतः । अमार्गमिति छेदः । वस्तुतस्तु इष्टदेवतायां समुत्थितः कामः इच्छा, समुत्पन्ना भक्तिरित्यर्थः । मे क्रोधं राक्षसजातेर्मम सर्वदा विद्यमानं नैजं क्रोधम्, क्रोधशब्देन कामक्रोधाद्यरिषड्वर्ग उच्यते । तं संनियच्छतीति सम्बन्धः ॥ ५।२२।३ ॥
मनुष्याणां व्रामः प्रतिकूलः यस्मिन् जने कामो निबध्यते तस्मिन् जने शिक्षणीये तस्मिन् जने अनुक्रोशश्च स्नेहश्च जायते किलेति योजना ॥ ५।२२।४ ॥
मिथ्या प्रव्रजिते रतां कपटवृत्ते रामे सक्ताम् । एतस्मादित्यादिश्लोकद्वयस्य वास्तवार्थस्तु ननु मद्वधोद्युक्तः स्त्रीघातकश्च त्वं न सम्भाष्य इत्यत्राह एतस्मादिति । एतस्मात्कारणात् त्वद्भर्तृकारणात् प्रव्रजिते मत्वामिनि, राम इति शेषः । रतां त्वां ममेष्टदेवतां त्वां न घातयाम्येव, वधार्हामवमानार्हामपि स्त्रियं घातयामीति मिथ्येति सम्बन्धः ॥ ५।२२।५ ॥
परुषाणीति । तव मां त्वदीयभृत्यं मामित्यर्थः । यानि यानि परुषवाक्यानि ब्रवीषि तेषु तेषु तेभ्यस्तेभ्यः दारुणो वधो युक्तः, ममेति शेषः ॥ ५।२२।६,७ ॥
द्वौ मासाविति । ते मया यो ऽवधिः कृतः “श्रुणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि” इत्यारण्यकाण्डे । द्वौ मासौ तत्र अवशिष्टौ द्वौ मासौ मे मया रक्षितव्यौ परिपालनीयौ, ततः तस्मात्कारणात् मम शयनमारोहेति योजना ॥ ५।२२।८ ॥
ऊर्ध्वमिति । प्रातराशार्थमित्यत्र प्रातश्शब्देन मासद्वयसमाप्त्यनन्तरप्रातःकाल
उच्यते । एवमुक्त्वेत्यादिश्लोकत्रयस्य वास्तवार्थस्तु क्रोधसंरम्भसंयुक्त इत्यनेन राक्षसस्वभावो वर्णितः । पतिवियोगदुःखितां निद्राहाररहितां प्रत्याह द्वौ मासावित्यादिश्लोकद्वयेन । हे मे लक्ष्मि सीते मया यो ऽवधिः कृतः ऽमासान् द्वादश भामिनि प्रतीक्षस्वऽ इति यः समयः प्रार्थितः तन्मध्यतः परं रक्षितव्यौ प्रतीक्षणीयौ द्वौ मासावेव, द्वाभ्यां मासाभ्यामूर्ध्वं न, ततः तदनन्तरम् ते तव भर्तारम् अनिच्छन्तीं मामनङ्गीकुर्वाणाम् मम मां मदीयराज्यलक्ष्मीं च प्राप्स्यसीति शेषः । त्वां प्रार्थय इति शेषः । मम महानसे प्रातराशार्थं आलभन्ते पशून् तान् भक्षयेति शेषः । शयनमारोह शयनं कुर्वित्यर्थः ॥ ५।२२।९ ॥
तामित्यस्य वास्तवार्थस्तु तर्ज्यमानामिति । तासां तथा प्रतीतेरिति भावः ॥ ५।२२।१० ॥
ओष्ठेति । ओष्ठप्रकारैः ओष्ठभङ्गादिरूपसंज्ञाभिः वक्रनेत्रैः वक्त्रनेत्रसंज्ञाभिः ॥ ५।२२।११ ॥
वृत्तशौण्डीर्यगर्वितं वृत्तं पातिव्रत्यम्, शौण्डीर्यं बलम्, पातिव्रत्यबलगर्वितमित्यर्थः ॥ ५।२२।१२ ॥
ते तव । निश्श्रेयसे स्थितः कश्चिज्जनो ऽस्ति यः अस्माद्विगर्हितात्कर्मणः त्वां निवारयति । स च नास्ति नूनमिति योजना । तव इष्टप्रापकः अनिष्टनिवर्तकश्च नास्तीति भावः ॥ ५।२२।१३ ॥
मनसापि कः प्रार्थयेत् ? किं पुनर्वचसेति भावः ॥ ५।२२।१४ ॥
तस्य तस्मात् ॥ ५।२२।१५ ॥
दृप्तो मातङ्गः शशश्च यथा वने दैवात् । सहितौ इति पाठः, युयुत्सू भवतः तयोश्च शशो यथा ऽतिक्षुद्रस्तथा रामेण संयुगे त्वं शशवत् क्षुद्रः रामो गजवदित्यर्थः ॥ ५।२२।१६ ॥
उपगच्छसि । व्यत्ययेन भूते लट् ॥ ५।२२।१७१९ ॥
रामस्य असन्देशात् रामानुज्ञाभावात् तपसः पातिव्रत्यतपसः । भस्मार्हा भस्मीकरणार्हा । कुर्मि करोमि । भस्मार्हा भस्म इति पाठः ॥ ५।२२।२० ॥
नेति । रामस्याहं रामसम्बन्धिन्यहम् । विधिः विधानं मदपहरणरूपम् विहितः, दैवेनेति शेषः ॥ ५।२२।२१ ॥
शुरेणेति । अपोह्य मायामृगच्छद्मना अन्यत्र नीत्वा ॥ ५।२२।२२२५ ॥
श्रीणीसूत्रेण रशनागुणेन । मेचकेन इन्द्रनीलनद्धमुखत्वान्मेचकत्वम् ॥ ५।२२।२६३० ॥
अनयेनेति श्लोकः केषुचित्कोशेषु नास्तीति कृत्वा न व्याख्यातः ॥ ५।२२।३१,३२ ॥
एकाक्षीमिति द्विरुपादानं व्यक्तिभेदात् ॥ ५।२२।३३३६ ॥
प्रतिलोमेति । प्रतिलोमानुलोमैः प्रतिकूलानुकूलाचरणैः सामदानादिभेदनैः ॥ ५।२२।३७३९ ॥
मयेति । अकृपणयेति छेदः । अकृपणया पतिव्रतया सीतया किं करिष्यसि । अमानुष्येति छेदः । अमानुष्या अत एव विवर्णया मनुष्यभोगविलक्षणया, उत्तमवर्णयेत्यर्थः । मया सह क्रीडेति सम्बन्धः ॥ ५।२२।४० ॥
नूनमिति । भोगसत्तमान् उत्तमभोगान् ॥ ५।२२।४१,४२ ॥
एवमिति । राक्षस्या धान्यमालिन्या ॥ ५।२२।४३४५ ॥
मदनेन मोहित इति तस्य स्वरूपकथनम् ॥ ५।२२।४६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ ५।२२ ॥