०२१ सीतायाः कटूत्तरम्

तस्येति । दीनमिति क्रियाविशेषणम् ॥ ५।२१।१ ॥

दुःखार्तेत्यादि । तृणमन्तरतः कृत्वा रावणस्य साक्षात्सम्भाषणानर्हत्वात् तृणव्यवधानकरणम् । प्रत्युवाचेति पुनरभिधानं वचनप्रकारविशेषकथनार्थम् । शुचिस्मितेति । वस्तुतः स्वभाववर्णनम् ॥ ५।२१।२ ॥

निवर्तयेति । स्वजने स्वीयभार्यादिजने । सिद्धिं मुक्तिम् ॥ ५।२१।३ ॥

एकपत्न्या एकः पतिर्यस्यास्तया मया, पतिव्रतयेत्यर्थः । कुलं भर्तृकुलम् । पुण्यं पवित्रम् ॥ ५।२१।४ ॥

पृष्ठतः कृत्वा परावृत्येत्यर्थः ॥ ५।२१।५ ॥

परभार्या सती पतिव्रताहम् औपयिकी युक्ता भार्या न, साधूनां धर्मं साधुधर्मम् । साधूनां व्रतं साधुव्रतम् । वस्तुतस्तु नाहमिति । अहं तव त्वया भार्या भर्तव्या न, किन्तु परभार्या परेण रामेण भार्या भर्तव्या ॥ ५।२१।६ ॥

यथा तव निजदाराणां शुद्धिरिष्टा, एवमन्येषामपीत्यात्मदृष्टान्तादेव निश्चित्य त्वमपि परदारनिस्स्पृहः स्वदारनिरतो भवेत्यर्थः ॥ ५।२१।७ ॥

अतुष्टम् अतृप्तम् । निकृतिप्रज्ञं निकृतौ शाठ्ये प्रज्ञा यस्य तम् । पराभवम् आयुरैश्वर्यादिक्षयरूपम् ॥ ५।२१।८ ॥

इहेत्यादिश्लोकद्वयमेकं वाक्यम् । इह सन्तो न सन्ति वा सतो वा नानुवर्तसे विद्यमानानपि तान् धर्मजिज्ञासया नानुवर्तसे वा ? मिथ्या प्रणीतात्मा मिथ्या विनीतात्मा । त्वं विचक्षणैः विद्वद्भिरुक्तं पथ्यं वचः राक्षसानामभावाय न प्रतिपद्यसे नाङ्गीकरोषि वा ? तथाहि अत एव खलु तव बुद्धिः आचारवर्जिता विहिताचारविमुखा विपरीतानिषिद्धाचारपरेति योजना ॥ ५।२१।९,१० ॥

ननु मया सज्जनोपदेशास्वीकारे कुतो राक्षसनाशप्रसङ्ग इत्यत्रोत्तरं वक्तुं लोकस्थितिमाह अकृतेति । अकृतात्मानं सदुपदेशाग्राहिबुद्धिम् ॥ ५।२१।११ ॥

तथेयमिति । राजापराधतो ऽशेषप्रजानाशस्य लोकप्रसिद्धत्वादिति भावः ॥ ५।२१।१२ ॥

स्वकृतैरपराधैः । रावणेति सम्बोधनम् । रौद्रः दिष्ट्या व्यसनं प्राप्त इति वक्ष्यन्तीति सम्बन्धः ॥ ५।२१।१३,१४ ॥

रावणोक्तप्रलोभनवाक्यानामुत्तरमाह शक्येति । ऐश्वर्येण अन्तःपुरनियन्तृत्वेन ॥ ५।२१।१५ ॥

उपधाय शीर्षोपधानं कृत्वा ॥ ५।२१।१६ ॥

व्रतस्नातस्य विद्याव्रतस्नातस्य । विद्येव साङ्गवेदविद्येव ॥ ५।२१।१७ ॥

समानय सङ्गमय । वने वासितया सार्धं करेण्वेव गजाधिपमिति । वने वासितां बद्धां करेणुं गजाधिपेन सार्धमिति विभक्तिविपरिणामेन योज्यम् । अन्यथा विरोधात् ॥ ५।२१।१८ ॥

मित्रमिति । स्थानं परीप्सता, लङ्कावासमिच्छतेत्यर्थः । अथवा घोरं वधं बहुविधपीडाकरवधम् । रामेण अनिच्छता वा त्वया पुरुषर्षभो रामः, मित्रं कर्तुमौपयिकम्, योग्य इत्यर्थः । सापराधं मां शरणागतत्वमात्रेण कथं रक्षिष्यतीति शङ्का न कर्तव्येत्याह विदित इति ॥ ५।२१।१९,२० ॥

निर्यातयितुं प्रत्यर्पयितुम् ॥ ५।२१।२१ ॥

एवमिति । मामित्यनुवर्तते । मां रघूत्तमे संप्रदाय दत्त्वा, स्थितायेति शेषः ॥ ५।२१।२२ ॥

वर्जयेदिति । उत्सृष्टम् इन्द्रमुक्तं वज्रं कर्तृ, त्वद्विधं वर्जयेत्, संक्रुद्धो राघवस्तु न वर्जयेत् ॥ ५।२१।२३ ॥

महास्वनं महानादम्, नादो नाम कश्चिच्चब्दधर्मः ॥ ५।२१।२४ ॥

इहेति । रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्काः असंपातम् अनवकाशम् ॥ ५।२१।२५,२६ ॥

राक्षसेन्द्ररूपान् महासर्पान् । उद्धरणशैध्र्ये उपमा वैनतेय इवेति ॥ ५।२१।२७ ॥

“न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः " इत्यस्योत्तरमाह अपनेष्यतीति ॥ ५।२१।२८ ॥

जनस्थान इति । एतत् युद्धं विना चौर्येणापहरणम् ॥ ५।२१।२९ ॥

आश्रममिति । गोचरं गतयोः मायामृगरूपमिन्द्रियार्थं गतयोः ॥ ५।२१।३० ॥

यस्माद्रामलक्ष्मणयोर्गन्धमाघ्राय शार्दूलयोः सन्दर्शने शुनेव समक्षं स्थातुं त्वया न शक्यम् ॥ ५।२१।३१ ॥

तस्य ते युद्धासमर्थतया चौर्यवृत्तेः तव ताभ्यां रामलक्ष्मणाभ्यां सह विग्रहे युद्धे

सति । युगग्रहणं युद्धजयः । अस्थिरम् अध्रुवम् । वृत्रस्यैकस्य बाहोः द्वाभ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति निग्रह इव वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाह्वोरिव एकेन त्वया तयोः द्वयोः जयो न शक्य इत्यर्थः ॥ ५।२१।३२ ॥

मे नाथः स राम इत्यन्वयः ॥ ५।२१।३३ ॥

गिरिमिति । कुबेरस्य गिरिं गन्धमादनम् । अपधाय अतिक्रम्य । पुरीमिति पाठे कुबेरस्य पुरीमित्येतदुपरितनलोकानामुपलक्षणम् । वरुणस्य सभामित्यनेन अधस्तनलोकानामुपलक्षणम् । तत्त्वदृष्ट्या अपरुषवचनं तं रावणमुद्दिश्य सीतयोक्तानां परुषवाक्यानामयमाशयः रावणेन देवीं प्रति तत्त्वदृष्ट्या सौम्यरूपाण्येव वाक्यान्युक्तानि यद्यपि तथापि बाह्यदृष्ट्या परुषवाक्यवत् प्रतीयमानत्वेन देव्यपि तत्त्वद्दष्टिं सङ्गोप्य बाह्यदृष्टिमनुसृत्य परुषवाक्यैरेव तस्योत्तरमाहेति ॥ ५।२१।३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकविंशः सर्गः ॥ ५।२१ ॥