०२० सीता-रावणसंवादः

स इति । साकारैः साभिप्रायैः, सेङ्गितैरित्यर्थः । न्यदर्शयत, स्वाभिप्रायमिति शेषः ॥ ५।२०।१ ॥

अदर्शनम् अदृश्यत्वम् । भयादिव नेतुं नाययितुम् । वस्तुतस्तु पुत्रसमभृत्यदर्शनविषये भयादिकं नोचितमिति भावः ॥ ५।२०।२ ॥

कामय इति । वस्तुतस्तु त्वां कामये, ईश्वरीत्वेनेति शेषः । अतो मां बहुमान्यस्व ॥ ५।२०।३ ॥

नेहेति । मनुष्या राक्षसा वा, त्वद्भयकर्तार इति शेषः । वस्तुतस्तु सर्वेश्वर्यास्तव न कुत्रापि भयशङ्केति भावः ॥ ५।२०।४ ॥

यद्यपि परदाराभिमर्शः स्वधर्मः तथापि नहं त्वामकामयमानां स्प्रक्ष्यामीत्याह स्वधर्म इत्यादिश्लोकद्वयेन । काममत्यर्थम् । यथाकामं यथेच्छं मे शरीरे कामः, तवेति शेषः । मयि तव इच्छा प्रवर्ततामिति भावः । स्वधर्म इत्यादिश्लोकद्वयस्य वास्तवार्थस्तु कामुकः त्वं न विश्वसनीय इत्यत आह स्वधर्म इत्यादि । यद्यपि रक्षसां परदाराहरणादिः स्वधर्मः स्वभावः । मे शरीरे काममत्यर्थम् यथाकामं यथेच्छं कामः प्रवर्ततां नाम मन्मथविकारो ऽस्तु नाम, तथाप्येतत्सर्वं ममेष्टदेवतायां त्वयि न घटत इति शेषः । अत एव अकामां मयि भृत्यत्वकामनारहिताम् । यद्वा अकामां विष्णुकामां त्वां न स्प्रक्ष्यामि त्वदाज्ञां विना पूजां कर्तुमपि बिभेमीति शेषः ॥ ५।२०।५,६ ॥

देवीति । प्रणयस्व प्रसीद ॥ ५।२०।७ ॥

एकेति । धराशय्या भूशयनम् । नौपयिकानि न युक्तानि ॥ ५।२०।८ ॥

विचित्राणीत्यादिः स्पष्टार्थः । वस्तुतस्तु विचित्राणीत्यादिश्लोकद्वयमेकं वाक्यम् । मां प्राप्य, भृत्यत्वेनेति शेषः । माल्यादीनि लभ प्राप्नुहीति सम्बन्धः ॥ ५।२०।९,१० ॥

स्त्रीरत्नमिति । मां प्राप्य हि प्राप्यापि भूषणादीनामनर्हा स्या इति सम्बन्धः ॥ ५।२०।११ ॥

इदमिति । यदिदं ते सञ्जातं यौवनं तत् व्यतिवर्तते अतिक्रम्य गच्छति । अतीतं न पुनरेति । अतो भुङ्क्ष्व भोगानिति शेषः । वस्तुतस्तु त्वत्पूजाक्षमं मदीयमायुः व्यर्थं गच्छतीति खिद्यति इदं ते इति । ते तव भृत्यस्य, ममेति शेषः । यौवनं दार्ढ्यावस्था यद् यतो भृत्यस्य ममायुः व्यर्थं गच्छति, अतो मम तव पूजार्थमनुज्ञां देहीति शेषः ॥ ५।२०।१२ ॥

रूपकर्ता दिव्यरूपस्रष्टा त्वां कृत्वा निर्माय उपरतो दिव्यरूपनिर्माणाद्विरत इति मन्ये । उत्प्रेक्षायां हेतुः हि यतः तव रूपोपमा नास्ति यदि पुनः स उत्तमरूपनिर्माणे यतेत न तथापि तवोपमेत्याशयः ॥ ५।२०।१३ ॥

त्वामिति । नातिवर्तेत न क्षुभ्येत । कः पुमानतिवर्तत इति पाठे न कोप्यतिक्रमेतेत्यर्थः । वस्तुतस्तु मदाराधने तव बुद्धिः कथं स्यादत आह त्वामिति । त्वां लक्ष्मीम् “सीता लक्ष्मीर्भवान् विष्णुः” इति वक्ष्यमाणत्वात् । समासाद्य साक्षात्पितामहो ऽपि नातिवर्तेत अनाराधितुं न शक्नुयात् पुमांस्तु को वा अतिवर्तेतेत्यर्थः ॥ ५।२०।१४ ॥

यद्यदिति । गात्रम् अवयवविशेषम् । तस्मिंस्तस्मिन् अवयवविशेषे चक्षुर्निबध्यते इष्टदेवतायास्तव दर्शनस्य मुक्तिसाधकत्वादिति भावः ॥ ५।२०।१५ ॥

भवेति प्रकृतार्थः स्पष्टः । वस्तुतस्तु भवेति । मैथिली भार्या भया कान्त्या आर्या श्रेष्ठा भव एतं मोहं मयि शत्रुत्वशङ्कां विसर्जय । मे मम उत्तमस्त्रीणां मम या अग्रमहिषी मन्दोदरी तस्याश्च मम च भव, ईश्वरीति शेषः ॥ ५।२०।१६ ॥

लोकेभ्य इत्यस्य वास्तवार्थस्तु इष्टदेवतायै देव्यै रावणः स्वात्मात्मीयसमर्पणं करोति लोकेभ्य इति श्लोकद्वयेन । अहमित्यनेनात्मसमर्पणम् । रत्नानीत्यादिना आत्मीयसमर्पणमिति ज्ञेयम् ॥ ५।२०।१७ ॥

तव हेतोः त्वत्प्रीत्यर्थम् ॥ ५।२०।१८ ॥

प्रतिबलो युद्धे जेता ॥ ५।२०।१९ ॥

प्रत्यनीकेषु शत्रुषु ॥ ५।२०।२० ॥

इच्छयेति । वस्तुतस्तु मां लक्ष्मीम्, सम्पदमित्यर्थः ॥ ५।२०।२१ ॥

प्रतिकर्मणा युक्तं ते रूपं पश्यामि । भाविकमत्रालङ्कारः ॥ ५।२०।२२ ॥

प्रतिकर्मेति । दाक्षिण्येन, मयीति शेषः ॥ ५।२०।२३ ॥

ललन्तां रमन्ताम् । वस्तुतस्तु मत्प्रसादात् मयि प्रसादो ऽनुग्रहः तस्मात् तव ललन्त्याः सत्याः बान्धवाश्च रमन्तामिति सम्बन्धः ॥ ५।२०।२४ ॥

ऋद्धिमित्यादीनां वास्तवार्थस्तु सरामा ऽहं ते ऽखिलसम्पत्समृद्धिं ददामि मां रामेण सह संयोजयेत्याशङ्क्य नाहं सम्पदाद्यर्थी किन्तु मोक्षकामी अतो यावन्मोक्षं त्वत्पादाब्जं न त्यजामीत्यभिप्रायेणाह ऋद्धिं ममेत्यादिश्लोकचतुष्टयेन । हे सुभगे मम ऋद्ध्यादिकं पश्य । निक्षिप्तविजयः स्वतस्सिद्धविजय इत्यर्थः । वनगोचरः वनं जलं गोचरं निवासस्थानं यस्य सः नारायण इत्यर्थः । अत एव गतश्रीः गता प्राप्ता श्रीः लक्ष्मीः येन अत एव प्रतिभक्तसंरक्षणव्रतशीलः अत एव पितृवाक्यपरिपालनाय स्थण्डिलशायी यो रामः, अचीरवाससेति छेदः । चीरवासोरहितेन पीताम्बरधारिणेत्यर्थः । एतादृशेन तेन रामेण सह वा त्वम् इदानीं विद्यमानैश्वर्याद्यपेक्षया न किमपि करिष्यसीति शङ्के मन्ये अतो जीवति, मयि सतीति शेषः । रामस्त्वां द्रष्टुमपि नोपलप्स्यते न च मम हस्तात् त्वां राघवः प्राप्तुमर्हति, मद्वधानन्तरं रामस्त्वां द्रष्टुमप्युलप्स्यते प्राप्तुमप्यर्हतीति भावः । हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव इति वैधर्म्यदृष्टान्तः । पुरा किल हिरण्यकशिपोर्भार्यां हृत्वा नारदमुखेन प्रार्थितः तस्मै पुनः प्रादादिति भागवते कथा ऽस्ति । तथा च भार्याहरणमेव कीर्तिहरणमिति भावः ॥ ५।२०।२६२९ ॥

क्लिष्टकौशेयेत्यस्य वास्तवार्थस्तु त्वां ममेष्टदेवतां दृष्ट्वा स्वेषु धनेषु च रतिं नोपलभामि, इष्टदेवतायास्तव दर्शनमात्रेणानन्दपूर्णो ऽहं सर्वतो निवृत्तोस्मीति भावः ॥

५।२०।३० ॥

ऐश्वर्यम् आधिपत्यम् ॥ ५।२०।३१३३ ॥

न राम इत्यस्य वास्तवार्थस्तु रामः तप आदिना मया तुल्यो न भवति किन्तु निरवधिक षड्गुणैश्वर्यसम्पन्नो भगवान् श्रीरामो मत्तेप्यधिक एवेति भावः ॥ ५।२०।३४ ॥

पिब, मध्विति शेषः । मयि लल रमस्व । वस्तुतस्तु मयि भृत्ये सति लल ॥ ५।२०।३५ ॥

कुसुमितेति । मया सह । वस्तुतस्तु सह एकदैव मया, संवर्द्धितानीति शेषः । काननानि विहर ॥ ५।२०।३६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां विंशस्सर्गः ॥ ५।२० ॥