तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । तस्मिन्नेव काले आगमनकाल एव । तं रावणम् ॥ ५।१९।१ ॥
ततो दृष्ट्वा तत्र दूरदेशे एव दृष्ट्वा । ततः दर्शनानन्तरं प्रावेपतेति सम्बन्धः ॥ ५।१९।२ ॥
रुदन्ती उपविष्टा ऽभूत् । भीतस्वभावोक्त्या स्वभावोक्तिरत्रालङ्कारः ॥ ५।१९।३ ॥
दशग्रीव इति । सन्नां शीर्णाम् नावम् ॥ ५।१९।४ ॥
संशितव्रताम् अतितीक्ष्णव्रताम् । मलमण्डनचित्राङ्गीं मलमेव मण्डनं तेन चित्राङ्गीं कर्बुरगात्रीम्, तां ददर्शेति पूर्वेण सम्बन्धः ॥ ५।१९।५,६ ॥
सङ्कल्पहयसंयुक्तैः सङ्कल्पाः एवमेवं करिष्यामीति विचाराः, त एव हयाः तत्संयुक्तैः मनोरथैः रामस्य समीपं यान्तीं गतामिव स्थिताम् ॥ ५।१९।७,८ ॥
आविष्टां मणिमन्त्रादिभिरभिभूताम् । धूप्यमानां सन्तप्यमानाम् ॥ ५।१९।९ ॥
वृत्तशीलकुले जातां वृत्तं मर्यादानुल्लङ्घनम्, शीलं तत्स्वभावः । आचारवति विहितकर्मानुष्ठानवति । दुष्कुले संस्कारमापन्नां दुष्कुले पाणिग्रहणलक्षणं संस्कारं प्राप्ताम् अत एव दुष्कुले पुनर्जातामिव विवाहलक्षणं द्वितीयं जन्म गताम्, सत्कुलप्रसूतां दुष्कुलोढामित्यर्थः । स्त्रीणां विवाहस्योपनयनस्थानत्वात्तदेव द्वितीयं जन्मेति भावः ॥ ५।१९।१०,११ ॥
सन्नां क्षीणाम् । विमानिताम् अनादृताम् ॥ ५।१९।१२ ॥
आयतीमागामिफलम् । दीप्तां दह्यमानाम् । काले उत्पातकाले ॥ ५।१९।१३,१४ ॥
परामृष्टाम् अपवित्रैरुपहताम् ॥ ५।१९।१५ ॥
उत्कृष्टपर्णकमलाम् उद्धृतपत्रपद्माम् ॥ ५।१९।१६ ॥
विस्रावितां रोधोभङ्गादिना निर्जलीकृताम् । मृजया उद्धर्तनाद्यङ्गपरिशोधनेन ॥ ५।१९।१७,१८ ॥
आलितां बद्धाम् ॥ ५।१९।१९२१ ॥
आयाचमानामिति । प्राञ्जलिं बद्धाञ्जलिम् । रघुमुख्यस्य कर्तुः दशग्रीवविषयकपराभवं भावेन मनसा देवतामायाचमानामिव प्रार्थयन्तीमिवेति सम्बन्धः ॥ ५।१९।२२,२३ ॥
इति श्रीमहेश्वरतीर्थविरचितयां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायामेकोनविंशः सर्गः ॥ ५।१९ ॥