तथेति । किञ्चिच्छेषा अपरयाममात्रशेषा । विचिन्वतः तस्याः स्पष्टदर्शनाय राक्षसीनिद्रारूपमवसरमन्वेषयतः ॥ ५।१८।१ ॥
षडङ्गानि शिक्षादीनि । विरात्रिः विपर्यस्तरात्रिः, अपररात्र इत्यर्थः । अस्मिन् ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टराक्षसानाम् ॥ ५।१८।२,३ ॥
निद्रावशादेव स्रस्तमाल्याम्बरधरः ॥ ५।१८।४ ॥
नियुक्तः प्रेरितः वस्तुतस्तु मदने सत्यपि मदेनोत्कटो न अत एव तस्यां सीतायां नियुक्तः नितरां युक्तः विनीत इत्यर्थः । अत एव राक्षसः तं काममात्मनि गूहितुं न शशाकेति काकुः ॥ ५।१८।५७ ॥
वीथीः अशोकवनिकामार्गगमनवीथीः ॥ ५।१८।८,९ ॥
अङ्गनेति । अनुव्रजत् । अडभाव आर्षः ॥ ५।१८।१० ॥
दीपिकाः काञ्चनीः काञ्चनदण्डारोपितदीपिकाः ॥ ५।१८।११ ॥
काञ्चनैः भृङ्गारैः कनकालुभिः । भृङ्गाराः धुत्तूरकुसुमसदृशजनपात्राणि । गृह्य गृहीत्वा ॥ ५।१८।१२ ॥
काचिदिति । पानेन पूर्णाम् ॥ ५।१८।१३१५ ॥
समामृदितवर्णकाः सम्यगामृष्टाङ्गरागाः ॥ ५।१८।६१८ ॥
मन्दो दुर्मतिः । मन्दं यथा तथा अञ्चिता गतिर्यस्य ॥ ५।१८।१९,२० ॥
द्वारदेशम् अशोकवनिकाप्राकारदेशम् ॥ ५।१८।२१,२२ ॥
अपविद्धशरासनं त्यक्तेक्षुचापम् । समक्षं प्रत्यक्षं कन्दर्पमिव स्थितम् ॥ ५।१८।२३ ॥
सलीलमनुकर्षन्तमिति । विमुक्तं स्वस्थानाच्चलितम् ॥ ५।१८।२४ ॥
पत्रविटपे पत्रबहुलविटपे । निध्यातुमीक्षितुम् ॥ ५।१८।२५,२६ ॥
ताभिरिति । प्रमदावनं प्रमदानां वनम् ॥ ५।१८।२७ ॥
क्षोबो मत्तः ॥ ५।१८।२८,२९ ॥
अवप्लुतः रावणरूपचेष्टितावलोकनार्थमग्रविटपारूढ इत्यर्थः ॥ ५।१८।३० ॥
पत्रगुह्यान्तरे पत्रगूढप्रदेशे ॥ ५।१८।३१ ॥
उपावर्तत समीपं प्राप्तः ॥ ५।१८।३२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायामष्टादशः सर्गः ॥ ५।१८ ॥