तत इति । नभः प्रजगाम आकाशपरभागं प्राप्तः ॥ ५।१७।१ ॥
साचिव्यमिति । सीतादर्शनादौ प्रभया स्वकान्त्या साचिव्यमिव साहाय्यमिव, दिवा क्वचिदेकान्तप्रदेशे स्थितत्वान्निद्राव्याकुलत्वाच्च न सम्यग्राक्षसीनां सीतायाश्च दर्शनम्, रात्रौ चन्द्रोदये सति तु पुनः समीपदेशे आगत्य स्थितस्य सम्यक् सर्वदर्शनम् ॥ ५।१७।२ ॥
शोकभारैः न्यस्तामिव अधोनीतामिव मज्जमानामिवेत्यर्थः ॥ ५।१७।३५ ॥
अतिकायोत्तमाङ्गीम् अतिकायं महदुत्तमाङ्गं यस्यास्सा । तनुदीर्घशिरोधराम्, अस्थूलदीर्घकण्ठीमित्यर्थः । केशकम्बलधारिणीम्, कम्बला इव केशाः केशकम्बलाः तान् धारयितुं शीलमस्तीति तथा । लम्बकर्णललाटां लम्बे कर्णललाटे यस्यास्ताम् । चुबुकोष्ठीं चुबुके ओष्ठो यस्यास्ताम् ॥ ५।१७।६,७ ॥
कुब्जां स्थगुमतीम् । करालां दन्तुराम् । पिङ्गाक्षीमित्यन्तस्य पूर्वेण सम्बन्धः ॥ ५।१७।८ ॥
विकृता इत्यादि श्लोकनवकमेकं वाक्यम् । निखातशिरसः गात्रान्तर्वर्तिशिरसः ॥ ५।१७।९१२ ॥
पादचूडिकाः पादे चूडा शिखा यासां ताः ॥ ५।१७।१३१५ ॥
राक्षसीर्विकृताननाः इत्यत्र अपरा इति शेषः । अतो न पौनरुक्त्यम् ॥ ५।१७।१६,१७ ॥
तस्याधस्तादित्यारभ्य वल्लकीमिव इत्यन्तमेकं वाक्यम् ॥ ५।१७।१८,१९ ॥
क्षीणेति । च्युताम्, दिव इति शेषः । चारित्रव्यपदेशाढ्यां पातिव्रत्यव्रतसम्पन्नाम् । भर्तृदर्शनदुर्गतां भर्तृदर्शनहीनाम् ॥ ५।१७।२०,२१ ॥
पयोदान्ते वर्षान्ते । असंस्पर्शात् उद्वर्तनादिसंस्काराभावात् । अयुक्ताम् अनारोपिततन्त्रीम् ॥ ५।१७।२२ ॥
सीतामित्यादि श्लोकद्वयमेकं वाक्यम् । रक्षसां वशे अयुक्ताम् अयोग्याम् शोकसागरमाप्लुतां तत्र मग्नाम् सग्रहां क्रूरग्रहाविष्टाम् ॥ ५।१७।२३,२४ ॥
लतामकुसुमामिवेति पाठः । आभरणपरिहारादिति भावः । वपुषा ऽलंकृता स्वभावरमणीयेत्यर्थः । विभाति न विभाति चेति । स्वभावसौन्दर्यादसंस्काराच्चेति भावः । अत्र तां तामिति तच्छब्दावृत्त्या तत्तदवस्थाभेदस्य वर्णितत्वादपौनरुक्त्यम् ॥ ५।१७।२५,२६ ॥
भर्तृतेजसा भर्तृपराक्रमानुसन्धानेन अदीनहृदयाम् ॥ ५।१७।२७२९ ॥
दुःखस्य दुःखसागरस्य । अत्राधेयेनाधारनिगरणम् । क्षामाम् इति पाठः । क्षामां कृशाम् विना ऽ ऽभरणशोभिनीम् आभरणानुग्रहमनपेक्ष्यैव स्वसौन्दर्येण शोभमानाम् ॥ ५।१७।३० ॥
नमश्चक्रे च राघवमिति । भगवतो राघवस्यानुग्रहादेवेयं मया दृष्टेति पुनः पुनः स्मृत्वा नमस्कारः ॥ ५।१७।३१ ॥
संवृतो ऽभवत् राक्षसीनां दर्शनपरिहाराय सूक्ष्मरूपमवलम्ब्य वृक्षमूलसमीपशाखासु निलीनो ऽभवत् ॥ ५।१७।३२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां सप्तदशः सर्गः ॥ ५।१७ ॥