०१६ सीतां दृष्ट्वा हनुमन्निर्वेदः

प्रशस्येति । प्रशस्तव्यां प्रशंसितव्याम् ॥ ५।१६।१ ॥

स इति । सीतामाश्रित्य सीतामुद्दिश्य ॥ ५।१६।२ ॥

गुरुविनीतस्य गुरुभिः शिक्षितस्य । गुरुप्रिया रामप्रिया । सीतापि यदि दुःखार्ता, कालो दुरतिक्रमो हि, सकलजगद्रक्षकरामलक्ष्मणगुप्तायाः सीताया ईदृशं दुःखं प्राप्तं यतः अतः कालो दुरतिक्रम एवेत्यर्थः ॥ ५।१६।३ ॥

व्यवसायज्ञा अभिप्रायज्ञा, पराक्रमज्ञेत्यर्थः ॥ ५।१६।४ ॥

तुल्यशीलवयोवृत्ता रामानुरूपस्वभाववयश्चारित्रा । तुल्याभिजनलक्षणा अभिजनं कुलम्, लक्षणं सामुद्रिकोक्तम् ॥ ५।१६।५,६ ॥

अस्या हेतोः अनया हेतुनेत्यर्थः ॥ ५।१६।७१० ॥

ऐश्वर्यमिति । अस्यां निमित्त इति सप्तम्यर्थे षष्ठी । अस्यां निमित्तभूतायां सत्यामित्यर्थः ॥ ५।१६।११,१२ ॥

रामः मेदिनीं किञ्च जगच्च, सर्वलोकानपीत्यर्थः । अस्याः कृते सीतार्थं परिवर्तयेद्यदि अधरोत्तरां कुर्यात्, संहरेदित्यर्थः । युक्तमित्येव मे मतिरिति सम्बन्धः ॥ ५।१६।१३ ॥

राज्यमुत्कृष्टं वा सीता उत्कृष्टा वा ? इति विचार्यमाणे सतीति शेषः । कलां लेशम् ॥ ५।१६।१४ ॥

भर्तृदृढव्रता भर्तरि दृढव्रता ॥ ५।१६।१५१८ ॥

भर्तृस्नेहबलात्कृता भर्तुः स्नेहबलाज्जीवतीत्यर्थः ॥ ५।१६।१९,२० ॥

यातनां तीव्रवेदनाम् । अनर्थानामभागिनी आपदामनर्हा ॥ ५।१६।२१ ॥

प्रपां पानीयशालाम् ॥ ५।१६।२२,२३ ॥

कामेति । कामभोगैः काम्यन्त इति कामाः ते च ते भोगाः स्रक्चन्दनादयः ॥ ५।१६।२४ ॥

राक्षस्यः राक्षसीः । एकस्थहृदया एकाग्रचित्ता ॥ ५।१६।२५,२६ ॥

प्रभुः रामः अनया हीनः सन् आत्मनो देहं धारयति शोकेन नावसीदतीति च यत् एतत् दुष्करं कुरुत इति सम्बन्धः ॥ ५।१६।२७ ॥

इमामिति । ममापि, किमुत परमदयालो रामस्येति भावः ॥ ५।१६।२८ ॥

क्षितिरिव क्षमा क्षान्तिर्यस्याः सा क्षितिक्षमा ॥ ५।१६।२९,३० ॥

अशोकाः शोकं जनयन्ति । हिमव्यपायेन नैकसहस्ररश्मिः मन्दरश्मिश्च अतीक्ष्णरश्मिः, शीतांशुरिति यावत् । अभ्युत्थितः सन्, शोकं जनयतीति शेषः ॥ ५।१६।३१ ॥

इत्येवमिति । सीतेयमित्येव इयं सीतैवेति जातबुद्धिः तामेव बुद्धिं संश्रित्य ततः परानुष्ठेयचिकीर्षया शिंशपावृक्षा एव निषसाद । तद्रात्रिशेषं परदिनं च स्थित इत्यर्थः । एवंच सरावणान्तःपुरा सर्वापि लङ्का यामत्रयेण समुद्रलङ्घनदिनरात्रावेव विचिता । तुर्ये यामे अशोकवनिकाप्रवेश इति बोध्यम् ॥ ५।१६।३२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षोडशः सर्गः ॥ ५।१६ ॥