स वीक्षमाण इति । सः हनुमान् । तत्रस्थः शिंशुपापर्णघनस्थः । शिंशुपा तीक्ष्णधारः । मैथिलीं मार्गमाणः मैथिलीमार्गणाद्धेतोः “लक्षणहेत्वोः क्रियायाःऽ इति शानच् । वीक्षमाणः विविधं चक्षुर्विक्षिपन् । महीं चावेक्षमाणः महीं प्रत्यधोवीक्षणं कुर्वन् सर्वां तामशोकवनिकामन्ववैक्षतेत्यन्वयः ॥ ५।१५।१३ ॥
बह्वासनकुथोपेतां बह्वासनैः कुथास्तरणैश्चोपेताम् । भूमिगृहाः भूबिलगृहाः ॥ ५।१५।४ ॥
सर्वर्तुकुसुमैः सर्वर्तुषु कुसुमानि येषु तैः पादपैरुपलक्षिताम् । सूर्योदयप्रभाम् उद्यत्सूर्यप्रभामित्यर्थः ॥ ५।१५।५,६ ॥
पुष्पावतंसकैः पुष्पाण्यवतंसवत् प्रतीयमानानि येषां पक्षिणां तैः, युगपत्पातिबहुपक्षिपक्षपिहितपर्णतया पत्ररहितशाखामिव स्थितामित्यर्थः । किञ्च आमूलपुष्पनिचितैः मूलादारभ्य पुष्पपूर्णैः ॥ ५।१५।७ ॥
पुष्पभारः पुष्पसमूहः । कुसुमितैः कर्णिकारादिभिरुपलक्षिताम् । अशोकवनिकामन्ववैक्षतेति पूर्वेण सम्बन्धः ॥ ५।१५।८ ॥
स इति । तेषां वृक्षाणाम् प्रदीप्त इव, स्थित इति शेषः । पुन्नागा इत्यादि श्लोकद्वयमेकं वाक्यम् ॥ ५।१५।९,१० ॥
अथ पुनः प्रकारान्तरेणाशोकवनं वर्णयति नन्दनमित्यादिना । विविधोद्यानं नानाविधावान्तरवनं चित्रं यन्नन्दनम् इन्द्रोद्यानं, चैत्ररथं कुबेरोद्यानम्, नदुभयमतिवृत्तमतिक्रान्तमिव स्थितमित्यर्थः । पुष्पज्योतिर्गणायुतम् पुष्पाण्येव ज्योतिर्गणा नक्षत्रगणाः । उद्यानम् अशोकवनम्, अपश्यदिति शेषः ॥ ५।१५।१११४ ॥
अशोकवनिकायामित्यादि श्लोकत्रयमेकं वाक्यम् । चैत्यप्रासादं बुद्धाण्डाकारप्रासादम् । प्रांशुभावत्वात् उन्नतस्वरूपत्वात् ॥ ५।१५।१५१७ ॥
तत इत्यारभ्य दुःखसन्तप्तां व्यसनानामकोविदाम् इत्यन्तस्य ग्रन्थस्य ददर्शेति क्रियया सम्बन्धः । मलिनसंवीतां मलिनवस्त्रोपेताम् ॥ ५।१५।१८ ॥
मन्दं प्रख्यायमानेन इदं तदिति कथञ्चिदूह्यमानेन रूपेणोपलक्षिताम् ॥ ५।१५।१९ ॥
क्लिष्टेन जीर्णेन ॥ ५।१५।२०२३ ॥
नीलनागाभया कृष्णसर्पतुल्यया । वनराज्या उपलक्षितां महीमिव स्थिताम् ॥ ५।१५।२४,२५ ॥
तामिति । तां पूर्वोक्तविशेषणविशिष्टाम् । उपपादिभिः उपपादनशीलैर्वक्ष्यमाणलिङ्गैः सीतेति तर्कयामास, संशयितवानित्यर्थः ॥ ५।१५।२६ ॥
कारणान्येवाह ह्रियमाणेति । अतः सीतेयमिति तर्कयामासेति पूर्वेण सम्बन्धः ॥ ५।१५।२७ ॥
पूर्णचन्द्रेत्यादि । सुभ्रूं सुभ्रुवम् ॥ ५।१५।२८,२९ ॥
चन्द्रप्रभामिवेति सर्वानन्दकरत्वमुक्तम् ॥ ५।१५।३० ॥
भुजगेन्द्रवधूमिवेति दुष्प्रधर्षत्वम् ॥ ५।१५।३१ ॥
शिखामिव विभावसोरिति पातिव्रत्यम् । तां प्रसिद्धाम् । स्मृतिः मन्वादिवाक्यम् । दीर्घस्त्वार्षः । सन्दिग्धां सन्दिग्धार्थाम् ॥ ५।१५।३२ ॥
सोपसर्गां सान्तरायाम । सकलुषां सकपटाम् ॥ ५।१५।३३ ॥
अभूतेनापवादेन मिथ्यापवादेन । रामोपरोधव्यथितां रामप्राप्तिनिरोधेन व्यथिताम् ॥ ५।१५।३४३७ ॥
तस्य हनूमतः बुद्धिः सन्दिदिहे कार्श्यमालिन्यादिना तिरोहितत्वादिति भावः । आम्नायानामयोगेन अभ्यासानामभावेन ॥ ५।१५।३८ ॥
दुःखेनेति । दुःखेन कृच्छ्रेण । संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् संस्कारो व्युत्पत्तिः तया हीनाम् अत एव विवक्षितादर्थान्तरं गतां विपरीतार्थं बोधयन्तीम्, सम्यक् व्युत्पत्त्यभावदशायामर्थान्तरं गता वाग्व्युत्पत्त्यनन्तरं स्वार्थं प्रदर्शयति तद्वत् । सीतां दुःखेन बुबुध इत्यर्थः ॥ ५।१५।३९ ॥
तामिति । कारणैः लिङ्गैः ॥ ५।१५।४० ॥
तान्येवाह वैदेह्या इत्यादि । शाखाशोभीनि शाख्यायां शोभन्त इति तथा । अनेन रामविश्लेषसमये भूषणधारणस्यानुचितत्वात् वैदेह्या भूषणानि स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यवगम्यते ॥ ५।१५।४१ ॥
कर्णवेष्टौ कुण्डले । “कुण्डलं कर्णवेष्टनम्” इत्यमरः । श्वदंष्ट्रौ विकर्णाख्यौ कुसुमाकारकर्णभूषणविशेषौ । “त्रिकर्णकः श्वदंष्ट्रश्च” इत्यभिधानरत्नमालायाम् । हस्तेषु हस्ततदवयवेषु । चिरयुक्तत्वात् चिरधृतत्वात् संस्थानवन्ति चिरमङ्गेष्वेवावस्थानवन्ति च ॥ ५।१५।४२,४३ ॥
तत्रेति । तत्र ऋश्यमूके । यान्याभरणानि अवहीनानि पतितानि यानि नावहीनानि तत्र न पतितानि अस्याः सकाशात्तानीमानीति सम्बन्धः ॥ ५।१५।४४ ॥
स्रस्तमन्तरिक्षाद्भ्रष्टम् । नगासक्तम् वृक्षलग्नम् । प्लवङ्गमैः सुग्रीवादिभिः ॥ ५।१५।४५,४६ ॥
चिरगृहीतत्वात् चिरधृतत्वात् । इतरत् स्रस्तमुत्तरीयं यथा यादृशवर्णयुक्तम् यथा श्रीमत् । इदमिदानीं धार्यमाणं तथावर्णं तथा श्रीमत् नूनमिति योजना ॥ ५।१५।४७ ॥
इयमिति । इयं रामस्य प्रिया सती महिषीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति, सदानुचिन्तयतीत्यर्थः ॥ ५।१५।४८ ॥
इयमिति । कारुण्यादिभिश्चतुर्भिर्यत्कृते परितप्यते सेयमिति सम्बन्धः ॥ ५।१५।४९ ॥
कारुण्यादीनां परितापहेतुत्वं विभज्य दर्शयति स्त्रीति । स्त्री प्रनष्टेति कारुण्यम् आपत्काले स्त्रियो रक्षणीयाः तन्न कृतमिति कारुण्यात् परितप्यते । आश्रितेत्यानृशंस्यतः, आनृशंस्यमक्रूरत्वम् । आश्रितसंरक्षकस्वभावत्वमिति यावत् । तस्मादाश्रिता न रक्षितेति परितप्यते । पत्नी नष्टेति शोकेन आत्मार्धभूतपत्नीनाशो जात इति शोकेन परितप्यते । प्रियेति मदनेन च प्रिया नष्टेति मदनेन परितप्यत इति योजना ॥ ५।१५।५० ॥
अथ सीतारामयोरन्योन्याभिरूप्यानुगुण्यमाह अस्या इति । अस्याः सीतायाः यथा यथाविधं रूपम् अङ्गप्रत्यङ्गसौष्ठवं तथाविधमेव रामस्यापि रूपं रामस्य यथाविधं रूपं तथाविधमेव अस्या रूपम् । अत एवेयमसितेक्षणा तस्य योग्येति शेषः ॥ ५।१५।५१ ॥
अथानयोरन्योन्यानुरागमाह अस्या इति । अस्याः सीतायाः मनः तस्मिन् रामे प्रतिष्ठितम् । हेतुना इयं स च जीवतीति सम्बन्धः ॥ ५।१५।५२ ॥
सीताविरहेण रामस्य शरीराकार्श्यं प्राणधारणं च विचित्रमित्याह दुष्करमित्यादिश्लोकद्वयेन । मत्तकाशिनीं वरारोहाम् “वरारोहा मत्तकाशिनी” इत्यमरः । रामग्रहणं सीताया अप्युपलक्षणम् । सापि तं विना जीवतीति चित्रमेवेत्यर्थः ॥ ५।१५।५३,५४ ॥
एवं मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा हृष्टस्सन् मनसा रामं जगाम सस्मार । तं प्रभुं बुद्धिस्थं रामं प्रशशंस च । पुनःप्राप्त्युपयुक्तपतिव्रताधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो राम इत्यस्तौषीदिति भावः ॥ ५।१५।५५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चदशः सर्गः ॥ ५।१५ ॥