०१४ अशोकवाटिकाप्रवेशः

स इति । ताम् अशोकवनिकाम् मनसा अधिगम्य, तत्र मनो निधायेत्यर्थः । तस्य रावणस्य । वेश्मनः वेश्मप्राकारादित्यर्थः । प्राकारं वनप्राकारम्, अवप्लुतः प्राप्तः ॥ ५।१४।१३ ॥

अथेति । आम्रवणं चूतवनम् ॥ ५।१४।४,५ ॥

चित्रकाननां चित्रद्रुमषण्डाम् ॥ ५।१४।६ ॥

पुष्पोपगफलोपगैः पुष्पाण्युपगच्छन्तीति पुष्पोपगाः पुष्पसंपन्नाः । एवं फलोपगाः ॥ ५।१४।७ ॥

प्रहृष्टमनुजे प्रहृष्टजने काले, वसन्तादावित्यर्थः ॥ ५।१४।८,९ ॥

पुष्पवृष्टयः पुष्पवृष्टीः ॥ ५।१४।१०१४ ॥

निर्द्धूतेति । धूर्ताः अक्षधूर्ताः ॥ ५।१४।१५,१६ ॥

स्कन्धमात्राश्रयाः स्कन्धानामेवाश्रयाः न तु पत्रपुष्पादीनाम् । अत एवागमाः अगम्याः, असेव्या इति यावत् । निर्धुताः कम्पिताः ॥ ५।१४।१७ ॥

मृदितवर्णका मृदिताङ्गरागा ॥ ५।१४।१८,१९ ॥

दामानि समूहान् ॥ ५।१४।२०,२१ ॥

वापीरित्यादि शार्धश्लोकचतुष्टयमेकं वाक्यम् । उक्तविशेषणविशिष्टा वापीर्ददर्शेति पूर्वेणान्वयः ॥ ५।१४।२२२५ ॥

लताशतैरिति । सन्तानकुसुमावृताः कल्पवृक्षकुसुमावृताः । करवीरकृतान्तराः करवीरैः कृतविशेषाः ॥ ५।१४।२६ ॥

गिरिं क्रीडापर्वतम् । तस्य विशेषणं जगतिपर्वतमिति । ह्रस्व आर्षः । जगती भूमिः, मृदिति यावत् । तत्प्राधान्याज्जगतिपर्वतमित्युक्तिः ॥ ५।१४।२७,२८ ॥

ददर्शेति । निपतितां निर्गताम् । अस्या नद्याः कुपितकान्तासाम्यं सार्धश्लोकद्वयेनाह अङ्कादिति । पतितां क्रोधान्निर्गताम् । जले निपतिताग्रैः पादपैः प्रियबन्धुभिः वार्यमाणां क्रुद्धां प्रमदामिव शोभिताम् अत एव कान्तस्य प्रसन्नामत एव पुनरुपस्थितां कान्तामिव पुनरावृत्ततोयां ददर्शेति सम्बन्धः ॥ ५।१४।२९३१ ॥

तस्येति । पद्मिन्यः पद्मिनीः ॥ ५।१४।३२ ॥

कृत्रिमां दीर्घिकामित्यादिसार्धश्लोकद्वयस्य ददर्शेति पूर्वक्रियया सम्बन्धः ॥ ५।१४।३३३५ ॥

सच्छत्रा इत्येतत् शयनासनादीनामप्युपलक्षणम् । सवितार्दीकाः सौवर्णवेदिकाश्चेति महावेदिकोपरिकृतकाञ्चनवेदिकाः, आसन्निति शेषः ॥ ५।१४।३६ ॥

लताप्रतानैरिति सार्धश्लोकमेकं वाक्यम् ॥ ५।१४।३७,३८ ॥

तेषामिति । मेरोः प्रभयेव द्रुमाणां प्रभया काञ्चनः काञ्चनमयो ऽस्मीत्यमन्यत ॥ ५।१४।३९ ॥

तामिति । काञ्चनैस्तरुगणैरुपलक्षितां शिंशुपां दृष्ट्वा ॥ ५।१४।४० ॥

स पुष्पितायामिति । शिंशुपामारुह्य वक्ष्यमाणमचिन्तयदिति शेषः ॥ ५।१४।४१ ॥

चिन्ताप्रकारमेवाह इतो द्रक्ष्यमीत्यादिना ॥ ५।१४।४२ ॥

चन्दनादिभिर्भूषिता रम्येयमशोकवनिका दुरात्मनो रावणस्य रावणसम्बन्धिनी । दृढं ध्रुवम् ॥ ५।१४।४३ ॥

इयमिति । द्विजसङ्घनिषेविता इयं च नलिनी रम्या, सा राममहिषी इमां नलिनीं नूनमेष्यतीति योजना ॥ ५।१४।४४ ॥

वनसञ्चारकुशला राममहिषीत्वादुद्यानवनसञ्चारचतुरेत्यर्थः ॥ ५।१४।४५ ॥

अथवेति पक्षान्तरे । वनस्यास्य अशोकवनस्य विचक्षणा वनसम्बन्धिसुखानुभवचतुरेत्यर्थः । इह वनं नलिनीपरिसरवर्तिवनम् । वने चराणां स्पृहयते, कुशलमिति शेषः ॥ ५।१४।४६४८ ॥

सन्ध्याकालमनाः सन्ध्याकाले मनो यस्यास्सा तथा, सन्ध्यावन्दनतत्परेत्यर्थः ॥ ५।१४।४९५१ ॥

एवमिति । पर्णघने पर्णसान्द्रे पूर्वोक्तशिंशुपावृक्षे निलीनः, अभूदिति शेषः ॥ ५।१४।५२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ ५।१४ ॥