विमानादिति । स वेगवान् हनुमान् विमानात् प्राकारं संक्रम्य घनान्तरे विद्युदिवासीदित्यन्वयः । अनेनौपम्येन प्राकार इन्द्रनीलकृत इत्यवगम्यते ॥ ५।१३।१ ॥
निवेशनात्संपरिक्रम्य, प्राकारमिति शेषः ॥ ५।१३।२ ॥
भूयिष्टं लोलिता बहुशो ऽन्विष्टेत्यर्थः ॥ ५।१३।३ ॥
सरितः क्षुद्रनद्यः । अनूपवनान्ताः जलप्रचुरप्रदेशाः ॥ ५।१३।४ ॥
नन्वनुपलब्धिप्रमाणादभावनिश्चय एवास्त्वित्यत आह इहेति । रावणनिवेशन एवाख्याता तद्वचश्च प्रमाणम् न तु दृश्यते ऽत्र किमिदमिति ॥ ५।१३।५ ॥
किंन्विति । सीतेत्यनेन अयोनिजत्वप्रयुक्तं वैशिष्ट्यं द्योत्यते । अथशब्दश्चार्थो गुणसमुच्चयपरः । वैदेहीत्यनेन देशसम्बन्धकृतवैशिष्ट्यम्, मैथिलीत्यनेन सदाचारयुक्तसत्पुरुषावासनगरसम्बन्धनिबन्धवैशिष्ट्यम्, जनकात्मजेत्यनेन ऽकर्मणैव हि संसिद्धिमास्थिता जनकादयःऽ इति प्रसिद्धजनकसम्बन्धकृतवैशिष्ट्यम् । एवङ्गुणविशिष्टा देवी दुष्टचारिणं रावणमुपतिष्ठेन किन्नु मित्रत्वेन प्राप्नुयात्किन्नु ? न प्राप्नुयादेवेत्यर्थः ॥ ५।१३।६ ॥
अदर्शने हेतूनाह क्षिप्रमित्यादिना । रामबाणानां बाणेभ्यः ॥ ५।१३।७ ॥
रामपरोक्षं तथा भयायोगात्पक्षान्तरम् अथवेति । हृदयं पतितं मन उत्क्रान्तम्, मनउत्क्रमणस्यैव मरणत्वात् ॥ ५।१३।८ ॥
पीडितेन पीडनेन ॥ ५।१३।९१४ ॥
निहितां भूगृहादौ स्थापितां मन्ये ॥ ५।१३।१५ ॥
एवं पीड्यमानापि सीता रावणस्य वशं न व्रजेदित्याह जनकस्येति ॥ ५।१३।१६ ॥
ननु किमेतादृशविचारेण ? गत्वा यथावृत्तं निवेद्यतामित्यत आह विनष्टेत्यादि । दृश्यदेशे मायया अदर्शनं विनाशः, अदृश्यदेशे अवस्थानं प्रणाशः । रामविश्लेषजनितदुःखेन स्वयं मृता वा ॥ ५।१३।१७ ॥
दोषो वक्ष्यमाणः, अनिवेदने यथावृत्तान्ताकथने दोषः स्वामिवञ्चनकरणरूपः स्यात् ॥ ५।१३।१८ ॥
अस्मिन्निति । प्राप्तकालं कालोचितम् । क्षमं समर्थं किं भवेत् इति मतं पक्षं भूयः प्रविचारयत् प्रव्यचारयत् ॥ ५।१३।१९२३ ॥
परुषं कर्णकठोरम् । दरुणं भयङ्करम् । क्रूरमुग्रम् । तीक्ष्णमसह्यम् । इन्द्रियतापनम् इन्द्रियक्षोभकम् । स रामः ॥ ५।१३।२४ ॥
पञ्चत्वगतमानसं मरणे कृतमिश्चयम् ॥ ५।१३।२५३३ ॥
नेति । निरोधेषु गृहादिसंवृतप्रदेशेषु ॥ ५।१३।३४३८ ॥
धरिष्यति, प्राणानिति शेषः ॥ ५।१३।३९ ॥
हस्तादानः हस्तपतितफलपर्णाद्याशी । मुखादानः मुखपतितभोजी । वृक्षमूलिकः वृक्षमूलवासी ॥ ५।१३।४० ॥
अरणीसुतम् अग्निम् ॥ ५।१३।४१ ॥
उपविष्टस्य प्रायोपविष्टस्य । लिङ्गिनं लिङ्गं शरीरमस्यास्तीति लिङ्गी तम्, आत्मानमित्यर्थः । साधयिष्यतः शरीरान्मोचयिष्यतः । श्वापदानि श्वापदाः व्याघ्रादयः ॥ ५।१३।४२ ॥
न चात्महत्यादोषो ऽपीत्याह इदमिति । निर्याणं मरणम् । आपः अपः ॥ ५।१३।४३ ॥
सुजातमूला आदित आरभ्य सीतान्वेषणोपयुक्ततया शोभनमूला । सुभगा सीतान्वेषणसौकर्यापादकचन्द्रिकया मनोहरा । कीर्तिमाला कीर्तनं कीर्तिः सीतान्वेषणसहकारिणीति सर्वैः क्रियमाणा कीर्तिरेव माला यस्यास्सा । यशस्विनी हनुमल्लङ्काप्रवेशरात्रिरिति ख्यातिमती । चिररात्रिः चिरकालविशिष्टरात्रिः, दीर्घरात्रिरिति यावत् । अनेन रामकार्यसहायेच्छया रात्रिरपि वर्द्धितवतीत्यवगम्यते । सीतामपश्यतो मम प्रभग्ना निष्फला जातेत्यर्थः ॥ ५।१३।४४ ॥
पूर्वोक्तयोः तापसपक्षमरणपक्षयोः प्रथमं पक्षमवलम्ब्याह तापस इत्यादिना ॥ ५।१३।४५,४६ ॥
विनाश इति । जीवितसङ्गमः जीविते सङ्गमः श्रेयस्सङ्गमः ध्रुवः ॥ ५।१३।४७,४८ ॥
किं दैन्येन ? विक्रमिष्यामीत्याह रावणमिति । हृता सीता काममस्तु यथा तथा वा भवतु रावणं वधिष्याम्येव, तेन किं ? प्रत्याचीर्णं प्रत्याचरणम्, वैरनिर्यातनमिति यावत् ॥ ५।१३।४९५१ ॥
चिन्ताप्रकारमेवाह यावदिति । पश्यामि विचनोमीति च लट् भविष्यदर्थे ॥ ५।१३।५२ ॥
सीतामदृष्ट्वैव सम्पादिवचनाद्रामस्समानीयेत तदा महाननर्थो भवेदित्याह सम्पातीति ॥ ५।१३।५३ ॥
इहेति । विनश्येयुः सीतामदृष्ट्वा तत्र मद्गमनानन्तरमिति भावः ॥ ५।१३।५४५६ ॥
जित्वेति । सिद्धिमिव तपःफलमिव ॥ ५।१३।५७ ॥
चिन्ताविग्रथितेन्द्रियः व्याकुलेन्द्रियः ॥ ५।१३।५८,५९ ॥
सुग्रीवाय चेत्यत्र नमश्चक्र इति करोतेर्विपरिणामः । अशोकवनिकां गतः, मनसेति शेषः । अशोकवनिकां प्रतीति पाठे समालोक यदित्यालोकयतेर्विपरिणामः । अन्यथा तच्छब्दो ऽतिरिच्यते ॥ ५।१३।६० ॥
मनसा गत्वा, गन्तुं निश्चित्येत्यर्थः । उत्तरम् उत्तरकर्तव्यम् । वनाकुला काननावृता ॥ ५।१३।६१,६२ ॥
रक्षिण इति । अत्र अशोकवनिकायाम् । निहिताः नियुक्ताः । सर्वात्मा वायुः ॥ ५।१३।६३ ॥
संक्षिप्त इति । रामार्थे रावणस्य चेति गूढवृत्त्या सीतादर्शनस्याकाङ्क्षितत्वात् रावणदर्शनपरिहारार्थत्वाच्चोभयार्थत्वम् ॥ ५।१३।६४६६ ॥
दास्यन्ति ददतीत्यर्थः । पथिगोचराः अदृष्टाश्च ये ते सिद्धिं दास्यन्ति ॥ ५।१३।६७ ॥
तदिति । समुन्नता नासा यस्य तत् समुन्नसम् । अव्रणमनवद्यम् ॥ ५।१३।६८ ॥
क्षुद्रेणेति । सुदारुणत्वे ऽप्यलङ्कृतवेषधारिणा प्रसन्नवेषधारिणा, रावणेनेति शेषः ॥ ५।१३।६९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां त्रयोदशस्सर्गः ॥ ५।१३ ॥