०१२ हनूमन्निर्वेदः

स तस्येति । निशागृहान् रात्रिनिवासयोग्यान् गृहान् । पश्यति अपश्यत् ॥ ५।१२।१ ॥

स इति । जानकी विचिन्वतो मे दर्शनं यथा यस्मान्नैति तथा तस्मात् ध्रुवं म्रियते ममारेति सम्बन्धः ॥ ५।१२।२ ॥

सेति । स्वशीलसंरक्षणं पातिव्रत्यसंरक्षणम् । प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । आर्यपथे सन्मार्गे ॥ ५।१२।३ ॥

विरूपदर्शनाः विरूपाणि दर्शनानि चक्षूंषि दीर्घाश्च विरूपदर्शनाश्च तास्तथोक्ताः । राक्षसराजयोषितः रावणस्याज्ञाकारिणीः ॥ ५।१२।४ ॥

सुग्रीवसमीपगा गतिः, गम्यत इति गतिर्मार्गः सुग्रीवसमीपसम्बन्धी मार्गो मे नास्ति, सुग्रीवसमीपं प्रति न गन्तव्यमिति भावः ॥ ५।१२।५,६ ॥

मा ऽस्तु तत्समीपगमनम्, जाम्बवदादिसमीपगमनमपि दुरन्तमित्याह किन्न्वित्यादि । तद्वदस्व नः इत्युक्त इति शेषः । तामदृष्ट्वा किं प्रवक्ष्यामीति सम्बन्धः । न किमपि वक्तुं शक्यमित्यर्थः ॥ ५।१२।७ ॥

तत्र हेतुमाह ध्रुवमिति । सीता न दृष्टेति वचनं श्रुत्वा ध्रुवं प्रायोपवेशनेन प्राणांस्त्यक्ष्यन्तीत्यर्थः ॥ ५।१२।८ ॥

हेत्वन्तरमाह किमिति । समुद्रस्य पारं तीरं गतं मां जाम्बवान् किं कुत्सितं वक्ष्यति । सो ऽङ्गदः किं कुत्सितं वक्ष्यति । समागताः सीतान्वेषणार्थमागताः किं कुत्सितं वक्ष्यन्तीत्यर्थः ॥ ५।१२।९ ॥

एवं क्षणमात्रं निर्विद्य पुनरुत्साहमवलम्ब्याह अनिर्वेद इत्यादिना । अनिर्वेदः अलम्बुद्धिराहित्यम्, उत्साह इत्यर्थः । अनिर्वेदकृतम् उत्साहप्रयुक्तम् ॥ ५।१२।१०१२ ॥

निष्कुटाः गृहारामाः । तन्माध्यगाः वीथीश्च ॥ ५।१२।१३ ॥

भूमीगृहान् भूबिलगृहान् । चैत्यगृहान् बुद्धायतनानि । गृहातिगृहकानपि गृहनतीत्य अनतिदूरे स्वैरविहारार्थं निर्मितगृहान् ॥ ५।१२।१४ ॥

उत्पतन् उन्नतमारुहन् । निपतन् ततो ऽवरोहन् । निष्पतन् निष्क्रामन् । बिलगृहेष्ववतरन् । उत्पतन् पुनस्तेभ्य उद्गच्छन् ॥ ५।१२।१५१७ ॥

प्राकारान्तररथ्याः प्राकारान्तरमध्यवर्तिमन्त्रिकुमारादिगृहवीथ्यः । वेदिकाश्चैत्यसंश्रयाः चतुष्पथवर्तिवृक्षाधारभूतवेदिकाः ॥ ५।१२।१८,१९ ॥

राघवनन्दिनी रामप्रिया ॥ ५।१२।२०,२१ ॥

प्रमथ्य नागकन्या बलाद्धृता इत्यनेन बन्दीकृतानां ग्रहणम् । पूर्वं तूढानां नागकन्यानाम् अतो न पुनरुक्तिः ॥ ५।१२।२२२४ ॥

अवतीर्य विमानाच्चेति पुनरारुह्यावरुह्य चेत्यर्थः । विमान एवैतत्सर्वदर्शनमिति तत्त्वम् ॥ ५।१२।२५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वादशः सर्गः ॥ ५।१२ ॥